Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
निष्पण्णयोगावलि
- Tác giả
- अभयाकरगुप्त
- Thông tin
- GRETIL — R.O. Meisezahl: "Akṣobhya-Mañjuvajra, Ikonographie und Ikonologie des Ekonaviṃśadātmakamañjuvajramaṇḍala", Oriens 25-26 (1976), pp. 190-274. = Am.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अभयाकरगुप्त: निष्पण्णयोगावलि
ओं नमः श्रीवज्रसत्त्वाय //
ज्योतिभिर् विजितं यद् अस्य जगतीं जिष्ण्व् अन्तरत्वतमो (?) यच् चाद्वैतदशार्णसत्य् अपि परीणामो गुणौघः श्रियाम् /
यत् कारुण्यतरामृतार्द्रहृदयैर् उह्यन्ति तं वज्रिणस् तैर् एतच् चरिताद्भुतानि निजधीधामानि धावन्तु वः //
वज्रावलीमण्डितमण्डलेषु द्राग् वज्रभृच् चारुचरित्रम् उच्चैः /
तदञ्चितैस् तद्वचनिर्मितौघैर् अमोघम् अग्र्यां श्रियम् आदधातु //
इह हि मृदुमध्यक्रमाभ्यां सुभावितसमाधेर् अधिमात्रप्रज्ञस्य भगवता /
सर्वाकारवरोपेतः स्फुरत् संहारकारकः / झतिति ज्ञाननिष्पन्नो योगो निष्पन्न उच्यते //
स हि त्वां सर्वसत्त्वांश् च वज्रधरत्वं प्रापयितुम् अभ्युत्साहवान् स्कन्धधात्वायतनादिकं प्रतिबिम्बमयं शून्यतैकरसं निश्चिन्वन् / प्रभास्वरं प्रविश्य झतिति सपरिकरकूटागरोदरमण्डलमाण्डलेयपरिकरितः कुलेशभूषितो (am 225) हृद्बीजयुक्तः शून्यताकरुणैकरसमहासुखमयः श्रीवज्रसत्त्वमञ्जुवज्रादिरूपो ऽपरिमिततथागतदेवीबोधिसत्त्वक्रोधादीन् स्फारयेत् / धर्मदेशनादिभिर् यथाभव्यं परहितानि कुर्वाणः परपुण्यावधिं स्थापयन् संहरंश् चाचिन्त्य मूर्तिर् उदेति //
तत्रायं परिकरादिः / आरसातलम् अभिमतप्रसरा घनैकसारा ज्वलन्ती वज्रमयी भूमिः कल्पान्तज्वलनवनमयूखज्वालावलीसीमाबन्धा / आरसातलम् उपर्य् अत्युच्चैर् घननिबुडज्वलद्वज्रप्राकारोर्ध्वे निःसंध्येकखण्डीभूतम् उपरि वज्रशरजालाधो वज्रवितानमण्डितं ज्वलद्वज्रपञ्जरं तदभ्यन्तरस्थितविश्वाब्जसूर्यस्थपीतदक्षिणावर्तभ्रमद्दशारचक्रं च 61 //
तत्र पूर्वस्याम् आरायां यमान्तकः कृष्णः सितरक्तमुखः कृष्णवज्रमुद्गरखड्गमणिकमलधारी / दक्षिणस्यां प्रज्ञान्तकः सितः कृष्णरक्तमुखो वज्राङ्कितसितदण्डासिमणिपद्मधारी / पश्चिमायां पद्मान्तको रक्तो नीलसितास्यो रक्तपद्मासिमणिचक्रधारि / उत्तरस्यां विघ्नान्तकः कृष्णः सितरक्तमुखः करालवज्रासिमणिपद्मधारी / आग्नेय्यां टक्किराजो नीलः सितरक्तास्यो ऽङ्कुशखड्गमणिसरोजधारी / नैरृत्यां नीलदण्डः कृष्णः सितरक्तास्यो नीलदण्डखड्गमण्यब्जधारी / वायव्यां महाबलः कृष्णः सितरक्तमुखस् त्रिशूलासिमणिकमलधारी / ऐशान्याम् अचलो नीलः सितरक्तास्यः खड्गवज्रमणिपद्मधारी / ऊर्ध्वम् उष्णीषचक्रवर्ती पीतो नीलरक्तास्यः पीतचक्रखड्गमणिपद्मधारी / अधः सुम्भराजो नीलः सितरक्तास्यो वज्रखड्गमणिकमलभृत् //
तत्रोष्णीषटक्क्यचलसुम्भा रत्नमुकुटिनो विचित्ररत्नाभरणा ललिता ईषद्दर्शितदंष्ट्रा विगतश्मश्रवः / तदन्ये विकृतरूपाः सभ्रूभङ्गाः पिङ्गोर्ध्वकेशभ्रूश्मश्रवो व्यावृत्तदंष्ट्राकरालवक्त्रा ललज्जिह्वा अट्टाट्टहासिनः क्रूराष्टनागभूषना वामनाः पीनास् तुन्दिलाः / दशाप्य् एते सहासनैर् निश्चलाः प्रत्यालीढेनाराग्रेष्व् ईषदलग्नविश्वाब्जसूर्यस्थाः सूर्यप्रभाः सरोषणा ज्वलन्तो नदन्तो ऽतिभीमाः प्रलयानलप्रतिममयूखमुखैर् अपरिमितात्मकमूर्तिनिर्माणैश् च निरवधिधातुत्रयेषु विघ्नौघम् अखिलम् असकृन्निर्मूलयन्तः / षड्भुजाः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितास् त्रिमुखाः / मुखं तु मूलं शरिरवर्णं सव्यवामं च यथोक्तवर्णं प्रतिमुखं रक्तवर्तुलनेत्रत्रयम् //
चक्रं चातिभ्रमणान् निश्चलोपमं निरन्तरं स्फुरद् अनेकज्वालाकलापं तस्य नाभ्यन्तरे ऽधःसूकोपरि विशालत्रिकोणधवलधर्मोदयान्तरधःकोणोदरगतविश्वदलकमलोपरि विश्वकुलिशसहिता तद्वज्रस्य दिगारा यथायोगं वैरोचनादिसमवर्णा वेदी च / तस्यां पञ्चवर्णरत्नपरिनिष्पन्नं भास्वन्मुनीन्द्रमण्डलचित्रांशुव्याप्तसर्वदिक्चक्रं कूटागारम् / तस्य मध्ये भगवान् वज्रसत्त्वो मञ्जुवज्ररूपः कुङ्कुमारुणः कृष्णसितसव्येतरवदनः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितो ऽसिशरेन्दीवरचापधरो रत्नमुकुटी विचित्ररत्नाद्याभरणो ऽनन्ताभः / तस्य पूर्वस्यां दिशि वैरोचनः सितः कृष्णरक्तसव्येतरमुखः सिताष्टारचक्रासिमणिकमलधरः / दक्षिणस्यां रत्नेशः पीतो नवांशमरकतरत्नासिचक्रपद्मधरः / पश्चिमायाम् अमिताभो रक्तो रक्तपद्मासिमणिचक्रधरः / उत्तरस्याम् अमोघसिद्धिर् हरितः खड्गचक्रमणिकमलधरः1 / त्रयो ऽमी कृष्णसितसव्येतरवक्त्राः सर्वे तथागता रत्नमुकुटिनो विचित्ररत्नाभरणाः / आग्नेय्यां लोचना वैरोचनसमा / नैरृत्यां (am 229) मामकी अक्षोभ्यसमा रक्तोत्पलासिमणिपद्मधरा सर्वसाधनेषु तथा पाठात् / वायव्यां पाण्डरा अमिताभसमा / ऐशान्यां तारा रत्नेशसमा पीतोत्पलासिमणिपद्मधरा /
अतो गर्भपुटाद् बहिर् आग्नेयकोणे रूपवज्रा वैरोचनसदृशी रत्नदर्पणासिमण्यब्जधरा / नैरृत्ये शब्दवज्रा अक्षोभ्यसमा नीलवीणाकृपाणमण्यब्जधरा / वायव्ये गन्धवज्रा रत्नेशसमा पीतगन्धशङ्खासिचक्राब्जधरा / ऐशाने रसवज्रा अमिताभसदृशी रक्तरसपात्रासिमणिचक्रधरा / प्राग्द्वारोत्तरपार्श्वे स्पर्शवज्रा अमोघसिद्धिसमा विश्ववर्णवस्त्रासिमण्यब्जधरा / प्राग्द्वारदक्षिणपार्श्वे धर्मधातुवज्रा वज्रसत्त्वसमा धवलधर्मोदयासिमण्यब्जधरा //
एता मञ्जुवज्रादिदेवतास् त्रिवदनाः षड्भुजाः / आद्यचिह्नद्वयं सव्याभ्याम् अपरद्वयं वामाभ्यां दधानाः / सर्वत्र मूलमुखं शरिरवर्णम् एव / पूर्वादिद्वारेषु यमान्तकप्रज्ञान्तकपद्मान्तकामृतकुण्डलयः //
अत्र मञ्जुवज्रवैरोचनदशदेव्यश् चन्द्रेषु वज्रपर्यङ्किणो ऽन्ये सूर्येषु चन्द्रसूर्यतलेषु विश्वपद्मानि / तथागताः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गिता देव्यस् तु स्वाभम् उपायम् //
कुलाधिपतिस् तु शिरसि मञ्जुवज्रादितथागतमामकीशब्दवज्रारक्षाचक्रगताष्टक्रोधानाम् अक्षोभ्यः / लोचनारूपवज्रायमान्तकानां वैरोचनः / गन्धवज्राया रत्नेशः / पाण्डरारसवज्रापद्मान्तकानाम् अमिताभः / तारास्पर्शवज्रयोर् अमोघसिद्धिः / धर्मधातुवज्राया वज्रधरः / अक्षोभ्य इत्य् अन्ये //
वज्रसत्त्वो ऽत्रेषद्रक्तानुविद्धसितवर्णो नीलरक्तसव्येतरवक्त्रः प्रधानभुजाभ्यां स्वाभप्रज्ञालिङ्गितो नीलवज्रासिमणिकमलधारी विश्वपद्मचन्द्रासनश् चन्द्रप्रभो वज्रपर्यङ्की रत्नमुकुटी रत्नाभरणो ऽक्षोभ्यमुद्रितः //
इह मञ्जुवज्रस्य स्तनान्तरे समयसत्त्वसदृशं ज्ञानसत्त्वं तद्धृच्चन्द्रे खड्गमुष्टिचन्द्रस्थं मंबीजम् / शाश्वतरत्नेशामिताभामोघसिद्ध्यक्षोभ्यानां हृदि चिह्ने यथायोगं चन्द्रे सूर्ये वा वुं आं ज्रीं खं हूं / लोचनादिदेवीनां इओं मां पां तां जः हूं वं होः खं रं / क्रोधानां हूं / सर्वदेवतानां हृदयमन्त्रा वज्रावल्यां उक्ताः //
इह निष्पन्नयोगिनश् चक्षुराद्यधिष्ठानं ज्ञानसत्त्वप्रवेशादिकं च नोक्तम् // तदन्तरेणाप्य् अपरिमिताचिन्त्यचक्षुरभिज्ञादिगुणग्रामरमणीयमूर्तेर् अभीष्टदेवतायाः सकृद् एव सुपरिशुद्धसर्वाकारपरिनिष्पत्तेर् मुहुर् मुहुर् अधिमोक्षदार्ढ्यात् / हृन्मन्त्रादिकथनं तु कलशाधिवासनादिषु प्रयोगार्थम् // यदा तु मध्ये ऽन्यस् तथागतो भवति नायकस् तदा मध्यस्थितस् तस्य स्थाने तिष्ठेत् / अमिताभः शुभ्रो ऽपि भवति शुक्ला धर्माः प्रकृत्येति वागीशस्यात्र शुक्लतेत्य् उक्तेः // इह वक्ष्यमानेषु च मन्दलेषु यस्या माण्डलेयदेवताया मुख्यतो यत्स्थानम् उच्यते तस्मिन् सैव प्रधानतया मण्डलेशभिमुखी / तदालिङ्गिता तु तदभिमुख्य् एव परस्थानगमनात् //
अत्र कूटागारस्य वज्रभूम्यादिपरितो वज्रपञ्जरं रक्षाचक्रं धर्मोदया चेति त्रयः परिकराः / तत्र वज्रपञ्जरं वक्ष्यमानानाम् अपि सर्वेषां कूटागाराणां रक्षाचक्रं (am 232) धर्मोदया च केषांचिद् एवेति वक्ष्यामः / लेख्यकूटागाराणां तु धर्मधातुस्वरूपधर्मोदयाया धर्मधात्वन्तर्गतस्य वा सूचकं लिखनम् उक्तं वज्रावल्याम् // यथा बाह्यं तथाध्यात्मम् इत्य् उत्पन्नक्रममण्डलप्रतिपादनाकृतेन लोकधातोश् चक्रवाडसूचकं वज्रावलीलिखनं च नियमेनैव / नैवं रक्षाचक्रम् अतो न लिख्यते / विघ्ननिवारणं त्व् अन्यथा क्रियते / अपि च शून्यतैव भगवती निखिलविघ्नौघं समूलम् उन्मूलयितुं प्रभवतीति तदधिमोक्षदृढत्वम् एवादरोत्पादनाय रक्षाचक्रलिखनं न वर्णितं लेख्यमण्डलेषु / भाव्यमण्डलेषु तु क्वचिद् एव तद्भावनोक्ता न सर्वेषु / विघ्नघातानन्तरं शून्यताप्रवेशाद् भाव्यमण्डले ऽपि रक्षाचक्रं नास्त्य् अतो न लिख्यते चैतत् / एवं तर्हि वज्रप्राकारम् अपि चक्रवाडसूचकं न लिखितव्यम् / अथ कूटागारोत्पत्तौ (am 233) तद् उत्पद्यते / नहि भगवता वज्रप्राकारस्य द्वितीयवारोत्पत्तिः क्वचिद् उक्ता //
किं वा द्विर् उत्पत्त्या / सकृद् उत्पन्नम् एव हि वज्रभूबन्धप्राकारादिकं समस्तसमारोपशून्यतास्वभावं मायामयम् अवतिष्ठत एव / विद्यमानत्वे ऽपि रक्षाचक्रस्य मण्डलेष्व् अलिखनोपत्तिर् उक्तैव / कैश्चित् तु क्वचिद् रक्षाचक्रम् अपि लिखितुं संमन्यते //
इति मञ्जुवज्रमण्डलम् // //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
