Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
शतसाहस्रिका प्रज्ञापारमिता, Part इ
- Thông tin
- GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तत् किं मन्यसे सुभूते ऽन्या श्रोत्रसंस्पर्शप्रत्ययवेदना अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या घ्राणसंस्पर्शप्रत्ययवेदनान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या जिह्वासंस्पर्शप्रत्ययवेदनान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या कायसंस्पर्शप्रत्ययवेदनान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या मनःसंस्पर्शप्रत्ययवेदनान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यः पृथिवीधातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यो ऽब्धातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यस् तेजोधातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यो वायुधातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्य आकाशधातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यो विज्ञानधातुर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्याविद्यान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्ये संस्कारा अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यद् विज्ञानम् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यन् नामरूपम् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह /
तत् किं मन्यसे सुभूते ऽन्यत् षडायतनम् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यः स्पर्शो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या वेदनान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या तृष्णान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यद् उपादानम् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यो भवो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या जातिर् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यत् जरामरणम् अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या दानपारमितान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या शीलपारमितान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या क्षान्तिपारमितान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या वीर्यपारमितान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या ध्यानपारमितान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या प्रज्ञापारमितान्या माया / आह / नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते ऽन्याध्यात्मशून्यता अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या बहिर्धाशून्यता अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्याध्यात्मबहिर्धाशून्यता अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या शून्यताशून्यता अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या महाशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या परमार्थशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या संस्कृतशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यासंस्कृतशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या अत्यन्तशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानवराग्रशून्यता अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानवकारशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या प्रकृतिशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या सर्वधर्मशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या स्वलक्षणशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानुपलम्भशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्याभावशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या स्वभावशून्यतान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्याभावस्वभावशून्यतान्या माया / आह / नो हीदं भगवन् /
भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि स्मृत्युपस्थानानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि सम्यक्प्रहाणानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्ये ऋद्धिपादाः अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानीन्द्रियाणि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् कि मन्यसे सुभूते ऽन्यानि बलानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि बोध्यङ्गानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यो ऽष्टाङ्गमार्गो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यान्य् आर्यसत्यानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि ध्यानानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यान्य् अप्रमाणानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या आरूप्यसमापत्तयो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या अभिज्ञा अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्ये समाधयो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि धारणीमुखानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह /
तत् किं मन्यसे सुभूते ऽन्यानि तथागतबलानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्यानि वैशारद्यानि अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या प्रतिसंविदो ऽन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या महामैत्री अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या महाकरुणान्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्ये ऽष्टादशावेणिकबुद्धधर्माः अन्या माया / आह / नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽन्या बोधिर् अन्या माया / आह / नो हीदं भगवन् /
न भगवन्न् अन्यद् रूपम् अन्या माया / रूपम् एव माया मायैव रूपं / न भगवन्न् अन्या वेदनान्या माया / वेदनैव माया मायैव वेदना / न भगवन्न् अन्या संज्ञान्या माया / संज्ञैव माया मायैव भगवन्न् संज्ञा / न भगवन्न् अन्ये संस्कारा अन्या माया / संस्कार एव माया मायैव संस्काराः / न भगवन्न् अन्यद् विज्ञानम् अन्या माया / विज्ञानम् एव माया मायैव विज्ञानं / न भगवन्न् अन्यच् चक्षुर् अन्या माया / चक्षुर् एव माया मायैव चक्षुर् / न भगवन्न् अन्यच् छ्रोत्रम् अन्या माया / श्रोत्रम् एव माया मायैव श्रोत्रं / न भगवन्न् अन्यद् घ्राणम् अन्या माया / घ्राणम् एव माया मायैव घ्राणं / न भगवन्न् अन्या जिह्वान्या माया / जिह्वैव माया मायैव जिह्वा / न भगवन्न् अन्यः कायो ऽन्या माया / काय एव माया मायैव कायः / न भगवन्न् अन्यन् मनो ऽन्या माया / मन एव माया मायैव मनः /
न भगवन्न् अन्यद् रूपम् अन्या माया / रूपम् एव माया मायैव रूपं / न भगवन्न् अन्यः शब्दो ऽन्या माया / शब्द एव माया मायैव शब्दः / न भगवन्न् अन्यो गन्धो ऽन्या माया / गन्ध एव माया मायैव गन्धः / न भ्गवन्न् अन्यो रसो ऽन्या माया / रस एव माया मायैव रसः / न भगवन्न् अन्यः स्पर्शो ऽन्या माया / स्पर्श एव माया मायैव स्पर्शः / न भगवन्न् अन्ये धर्मा अन्या माया / धर्मा एव माया मायैव धर्माः / न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया / चक्षुर्विज्ञानम् एव माया मायैव चक्षुर्विज्ञानं / न भगवन्न् अन्यत् श्रोत्रविज्ञानम् अन्या माया / श्रोत्रविज्ञानम् एव माया मायैव श्रोत्रविज्ञानं / न भगवन्न् अन्यद् घ्राणविज्ञानम् अन्या माया / घ्राणविज्ञानम् एव माया मायैव घ्राणविज्ञानं / न भगवन्न् अन्यज् जिह्वाविज्ञानम् अन्या माया / जिह्वाविज्ञानम् एव माया मायैव जिह्वाविज्ञानं / न भगवन्न् अन्यत् कायविज्ञानम् अन्या माया / कायविज्ञानम् एव माया मायैव कायविज्ञानं / न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया / मनोविज्ञानम् एव माया मायैव मनोविज्ञानं / न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया / चक्षुःसंस्पर्श एव माया मायैव चक्षुःसंस्पर्शः / न भगवन्न् अन्यः श्रोत्रसंस्पर्शो ऽन्या माया / श्रोत्रसंस्पर्श एव माया मायैव श्रोत्रसंस्पर्शः / न भगवन्न् अन्यो घ्राणसंस्पर्शो ऽन्या माया / घ्राणसंस्पर्श एव माया मायैव घ्राणसंस्पर्शः / न भगवन्न् अन्यो जिह्वासंस्पर्शो ऽन्या माया / जिह्वासंस्पर्श एव माया मायैव जिह्वासंस्पर्शः / न भगवन्न् अन्यः कायसंस्पर्शो ऽन्या माया / कायसंस्पर्श एव माया मायैव कायसंस्पर्शः / न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया /
मनःसंस्पर्श एव माया मायैव मनःसंस्पर्शः / न भगवन्न् अन्या चक्षुःसंस्पर्शप्रत्ययवेदनान्या माया / चक्षुःसंस्पर्शप्रत्ययवेदनैव माया मायैव चक्षुःसंस्पर्शप्रत्ययवेदना / न भगन्न् अन्या श्रोत्रसंस्पर्शप्रत्ययवेदनान्या माया / श्रोत्रसंस्पर्शप्रत्यवेदनैव माया मायैव श्रोत्रसंस्पर्शप्रत्ययवेदना / न भगवन्न् अन्यो घ्राणसंस्पर्शप्रत्ययवेदनान्या माया / घ्राणसंस्पर्शप्रत्ययवेदनैव माया मायैव घ्राणसंस्पर्शप्रत्ययवेदना / न भगवन्न् अन्या जिह्वासंस्पर्शप्रत्ययवेदनान्या माया / जिह्वासंस्पर्शप्रत्ययवेदनैव माया मायैव जिह्वासंस्पर्शप्रत्ययवेदना / न भगवन्न् अन्या कायसंस्पर्शप्रत्ययवेदनान्या माया / कायसंस्पर्शप्रत्ययवेदनैव माया मायैव कायसंस्पर्शप्रत्ययवेदना / न भगवन्न् अन्या मनःसंस्पर्शप्रत्ययवेदनान्या माया / मनःसंस्पर्शप्रत्ययवेदनैव माया मायैव मनःसंस्पर्शप्रत्ययवेदना /
न भगवन्न् अन्यः पृथिवीधातुर् अन्या माया / पृथिवीधातुर् एव माया मायैव पृथिवीधातुः / न भगवन्न् अन्यो ऽब्धातुर् अन्या माया / अब्धातुर् एव माया मायैवाब्धातुः / न भगवन्न् अन्यस् तेजोधातुर् अन्या माया / तेजोधातुर् एव माया मायैव तेजोधातुः / न भगवन्न् अन्यो वायुधातुर् अन्या माया / वायुधातुर् एव माया मायैव वायुधातुः / न भगवन्न् अन्य आकाशधातुर् अन्या माया / आकाशधातुर् एव माया मायैवाकाशधातुः / न भगवन्न् अन्यो विज्ञानधातुर् अन्या माया / विज्ञानधातुर् एव माया मायैवविज्ञानधातुः / न भगवन्न् अन्याविद्यान्या माया / अविद्यैव माया मायैवाविद्या / न भगवन्न् अन्ये संस्काराः अन्या माया / संस्कारा एव माया मायैव संस्काराः / न भगवन्न् अन्यद् विज्ञानम् अन्या माया / विज्ञानम् एव माया मायैव विज्ञानं / न भगवन्न् अन्यं नामरूपम् अन्या माया / नामरूपम् एव माया मायैव नामरूपं / न भगवन्न् अन्यत् षडायतनम् अन्या माया / षडाद्यतनम् एव माया मायैव षढायतनं / न भगवन्न् अन्यः स्पर्शो ऽन्या माया / स्पर्श एव माया मायैव स्पर्शः / न भगवन्न् अन्या वेदनान्या माया / वेदनैव माया मायैव वेदना / न भगवन्न् अन्या तृष्णान्या माया / तृष्णैव माया मायैव तृष्णा / न भगवन्न् अन्यद् उपादानम् अन्या माया / उपादान एव माया मायैवोपादानं / न भगवन्न् अन्यो भवो ऽन्या माया / भव एव माया मायैव भवः / न भगवन्न् अन्या जातिर् अन्या माया / जातिर् एव माया मायैव जातिः / न भगवन्न् अन्यज् जरामरणम् अन्या माया / जरामरणम् एव माया मायैव जरामरणं /
न भगवन्न् अन्या दानपारमितान्या माया / दानपारमितैव माया मायैव दानपारमिता / न भगवन्न् अन्या शीलपारमितान्या माया / शीलपारमितैव माया मायैव शीलपारमिता / न भगवन्न् अन्या क्षान्तिपारमितान्या माया / क्षान्तिपारमितैव माया मायैव क्षान्तिपारमिता / न भगवन्न् अन्या वीर्यपारमितान्या माया / वीर्यपारमितैव माया मायैव वीर्यपारमिता / न भगवन्न् अन्या ध्यानपारमितान्या माया / ध्यानपारमितैव माया मायैव ध्यानपारमिता / न भगवन्न् अन्या प्रज्ञापारमितान्या माया / प्रज्ञापारमितैव माया मायैव प्रज्ञापारमिता /
न भगवन्न् अन्याध्यात्मशून्यतान्या माया / अध्यात्मशून्यतैव माया मायैवाध्यात्मशून्यता / न भगवन्न् अन्या बहिर्धाशून्यतान्या माया / बहिर्धाशून्यतैव माया मायैव बहिर्धाशून्यता / न भगवन्न् अन्याध्यात्मबहिर्धाशून्यतान्या माया / अध्यात्मबहिर्धाशून्यतैव माया मायैवाध्यात्मबहिर्धाशून्यता / न भगवन्न् अन्या शून्यताशून्यतान्या माया / शून्यताशून्यतैव माया मायैव शून्यताशून्यता / न भगवन्न् अन्या महाशून्यतान्या माया / महाशून्यतैव माया मायैव महाशून्यता / न भगवन्न् अन्या परमार्थशून्यतान्या माया / परमार्थशून्यतैव माया मायैव परमार्थशून्यता / न भगवन्न् अन्या संस्कृतशून्यतान्या माया / संस्कृतशून्यतैव माया मायैव संस्कृतशून्यता / न भगवन्न् अन्यासंस्कृतशून्यतान्या माया / असंस्कृतशून्यतैव माया मायैवासंस्कृतशून्यता / न भगवन्न् अन्यात्यन्तशून्यतान्या माया / अत्यन्तशून्यतैव माया मायैवात्यन्तशून्यता / न भगवन्न् अन्यानवराग्रशून्यतान्या माया / अनवराग्रशून्यतैव माया मायैवानवराग्रशून्यता / न भगवन्न् अन्यानवकारशून्यतान्या माया / अनवकारशून्यतैव माया मायैवानवकारशून्यता / न भगवन्न् अन्या प्रकृतिशून्यतान्या माया / प्रकृतिशून्यतैव माया मायैव प्रकृतिशून्यता / न भगवन्न् अन्या सर्वधर्मशून्यतान्या माया / सर्वधर्मशून्यतैव माया मायैव सर्वधर्मशून्यता / न भगवन्न् अन्या स्वलक्षणशून्यतान्या माया / स्वलक्षणशून्यतैव माया मायैव स्वलक्षणशून्यता / न भगवन्न् अन्यानुपलम्भशून्यतान्या माया / अनुपलम्भशून्यतैव माया मायैवानुपलम्भशून्यता / न भगवन्न् अन्याभावशून्यतान्या माया / अभावशून्यतैव माया मायैवाभावशून्यता / न भगवन्न् अन्या स्वभावशून्यतान्या माया / स्वभावशून्यतैव माया मायैव स्वभावशून्यता / न भगवन्न् अन्याभावस्वभावशून्यतान्या माया / अभावस्वभावशून्यतैव माया मायैवाभावस्वभावशून्यता /
न भगवन्न् अन्यानि स्मृत्युपस्थानान्य् अन्या माया / स्मृत्युपस्थानान्य् एव माया मायैव स्मृत्युपस्थानानि / न भगवन्न् अन्यानि सम्यक्प्रहाणानि अन्या माया / सम्यक्प्रहाणान्य् एव माया मायैव सम्यक्प्रहाणानि / न भगवन्न् अन्ये ऋद्धिपादा अन्या माया / ऋद्धिपादा एव माया मायैव ऋद्धिपादाः / न भगवन्न् अन्यानीन्द्रियाण्य् अन्या माया / इन्द्रियाण्य् एव माया मायैवेन्द्रियाणि / न भगवन्न् अन्यानि बलान्य् अन्या माया / बलान्य् एव माया मायैव बलानि / न भगवन्न् अन्यानि बोध्यङ्गान्य् अन्या माया / बोध्यङ्गान्य् एव माया मायैव बोध्यङ्गानि / न भगवन्न् अन्य आर्याष्टाङ्गमार्गो ऽन्या माया / आर्याष्टाङ्गमार्ग एव माया मायैवाष्टाङ्गमार्गः / न भगवन्न् अन्यान्य् आर्यसत्यान्य् अन्या माया / आर्यसत्यान्य् एव माया मायैवार्यसत्यानि / न भगवन्न् अन्यानि ध्यानान्य् अन्या माया / ध्यानान्य् एव माया मायैव ध्यानानि / न भगवन्न् अन्यान्य् अप्रमाणान्य् अन्या माया / अप्रमाणान्य् एव माया मायैवाप्रमाणानि / न भगवन्न् अन्या आरूप्यसमापत्तयो ऽन्या माया / आरूप्यसमापत्तय एव माया मायैवारूप्यसमापत्तयः / न भगवन्न् अन्ये विमोक्षा अन्या माया / विमोक्षा एव माया मायैव विमोक्षाः / न भगवन्न् अन्या नवानुपूर्वविहारसमापत्तयो ऽन्या माया / नवानुपूर्वविहारसमापत्तय एव माया मायैव नवानुपूर्वविहारसमापत्तयः / न भगवन्न् अन्यानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि अन्या माया / शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव माया मायैव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि / न भगवन्न् अन्याभिज्ञा अन्या माया / अभिज्ञैव माया मायैवाभिज्ञा / न भगवन्न् अन्ये समाधयो ऽन्या माया / समाधय एव माया मायैव समाधयः /
न भगवन्न् अन्यानि धारणीमुखान्य् अन्या माया / धारणीमुखान्य् एव माया मायैव धारणीमुखानि / न भगवन्न् अन्यानि तथागतबलान्य् अन्या माया / तथागतबलान्य् एव माया मायैव तथागतबलानि / न भगवन्न् अन्यानि वैशारद्यानि अन्या माया / वैशारद्यान्य् एव माया मायैव वैशारद्यानि / न भगवन्न् अन्याः प्रतिसंविदो ऽन्या माया / प्रतिसंविद एव माया मायैव प्रतिसंविदः / न भगवन्न् अन्या महामैत्री अन्या माया / महामैत्र्य् एव माया मायैव महामैत्री / न भगवन्न् अन्या महाकरुणान्या माया / महाकरुणैव माया मायैव महाकरुणा / न भगवन्न् अन्याष्टादशावेणिकबुद्धधर्माः अन्या माया / अष्टादशावेणिकबुद्धधर्मा एव माया मायैवाष्टादशावेणिकबुद्धधर्माः / न भगवन्न् अन्यच् छ्रोतआपत्तिफलम् अन्या माया / श्रोतआपत्तिफलम् एव माया मायैव श्रोतआपत्तिफलं / न भगवन्न् अन्यत् सकृदागामिफलम् अन्या माया / सकृदागामिफलम् एव माया मायैव सकृदागामिफलं / न भगवन्न् अन्यद् अनागामिफलम् अन्या माया / अनागामिफलम् एव माया मायैवानागामिफलं / न भगवन्न् अन्यद् अर्हत्त्वम् अन्या माया / अर्हत्त्वम् एव माया मायैवार्हत्त्वं / न भगवन्न् अन्या प्रत्येकबोधिर् अन्या माया / प्रत्येकबोधिर् एव माया मायैव प्रत्येकबोधिः / न भगवन्न् अन्या मार्गाकारज्ञतान्या माया / मार्गाकारज्ञतैव माया मायैव मार्गाकारज्ञता / न भगवन्न् अन्या सर्वाकारज्ञतान्या माया / सर्वाकारज्ञतैव माया मायैव सर्वाकारज्ञता /
तत् किं मन्यसे सुभूते ऽपि नु मायाया उत्पादो वा निरोधो वा / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽपि नु मायायाः संक्लेशो वा व्यवदानं वा / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते यस्य नोत्पादो न निरोधो न व्यवदानम् अपि स न प्रज्ञापारमितायां शिक्षिष्यते / सर्वाकारज्ञतायां निर्यास्यति / सर्वाकारज्ञताम् अनुप्राप्स्यतीति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते ऽत्रैषा स संज्ञासमज्ञाप्रज्ञप्तिव्यवहारः / पञ्चसूपादानस्कन्धेषु यद् उत बोधिसत्त्व इति / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते संज्ञासमज्ञाप्रज्ञप्तिव्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वोपलभ्यते / आह नो हीदं भगवन् / भगवान् आह / तत् किं मन्यसे सुभूते यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म, न वाक् न वाक्कर्म, न मनो न मनःकर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति सर्वाकारज्ञताम् अनुप्राप्स्यतीति / आह नो हीदं भगवन् /
भगवान् आह / एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकरज्ञतायां निर्यास्यति / सर्वाकारज्ञताम् अनुप्राप्स्यत्य् अनुपलम्भयोगेन / आह / यथाहं भगवन् भगवतो भाषितस्यार्थम् आजानामि / प्रज्ञापारमितायां शिक्षमाणेन बोधिसत्त्वेन महासत्त्वेन मायापुरुषेणेव शिक्षितव्यं / भवत्य् अनुत्तरायां सम्यक्संबोधौ / तत् कस्य हेतोस् तथाहि भगवन् सर्व एते मायापुरुषा वेदितव्याः / यद् उत पञ्चस्कन्धाः /
भगवान् आह / तत् किं मन्यसे सुभूते ऽपि त्व् इमे पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह / नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावः पञ्चस्कन्धाः / स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते स्वप्नोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावः पञ्चस्कन्धाः / स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते मायोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावाः पञ्चस्कन्धाः स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावाः प्रतिश्रुत्काः स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते प्रतिभासोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावः प्रतिभासः स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते उदकचन्द्रोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभाव उदकचन्द्रः स चाभावस्वभावो नोपलभ्यते / भगवान् आह /
तत् किं मन्यसे सुभूते मरीच्युपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावो मरीचिः स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते निर्मितोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यान्ति / आह नो हीदं भगवन् / तत् कस्य हेतोस् तथा हि भगवन्न् अभावस्वभावो निर्मितः / स चाभावस्वभावो नोपलभ्यते / भगवान् आह / तत् किं मन्यसे सुभूते स्वप्नोपमं रूपं स्वप्नोपमा वेदना स्वप्नोपमा संज्ञा स्वप्नोपमाः संस्काराः स्वप्नोपमं विज्ञानं / तत् षडिन्द्रियं ते पञ्चोपादानस्कन्धाः / ते चाध्यात्मशून्यतया नोपलभ्यन्ते बहिर्धाशून्यतया नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतथा नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्ते / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
मायोपमं सुभूते रूपं मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्काराः मायोपमं विज्ञानं / यच् च विज्ञानं तत् षडिन्द्रियं / तत् पञ्चोपादानस्कन्धाः / ते चाध्यात्मशून्यतया नोपलभ्यन्ते / बहिर्धाशून्यतया नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतया नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्त / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
प्रतिश्रुत्कोपमं सुभूते रूपं प्रतिश्रुत्कोपमा वेदना प्रतिश्रुत्कोपमा संज्ञा / प्रतिश्रुत्कोपमाः संस्काराः / प्रतिश्रुत्कोपमं विज्ञानं / तत् षडिन्द्रियं तत् पञ्चोपादानस्कन्धास् ते चाध्यात्मशून्यतया नोपलभ्यन्ते / बहिर्धाशून्यतया नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतया नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्ते / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
प्रतिभासोपमं सुभूते रूपं प्रतिभासोपमा वेदना / प्रतिभासोपमा संज्ञा / प्रतिभासोपमाः संस्काराः / प्रतिभासोपमं विज्ञानं / यच् च विज्ञानं तत् षडिन्द्रियं तत् पञ्चोपादानस्कन्धाः / ते चाध्यात्मशून्यतया नोपलभ्यन्ते / बहिर्धाशून्यतया नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतया नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्ते / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
उदकचन्द्रोपमं सुभूते रूपं / उदकचन्द्रोपमा वेदना / उदकचन्द्रोपमा संज्ञा / उदकचन्द्रोपमा संस्काराः / उद्कचन्द्रोपं विज्ञानं / यच् च विज्ञानं तत् षडिन्द्रियं तत् पञ्चोपादानस्कन्धाः / ते चाध्यात्मशून्यतया नोपलभ्यन्ते / बहिर्धाशून्यतया नोपलभ्यन्ते / अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतया नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्ते / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
मरीच्युपमं सुभूते रूपं मरीच्युपमा वेदना / मरीच्युपमा संज्ञा / मरीच्युपमाः संस्काराः / मरीच्युपमं विज्ञानं / यच् च विज्ञानं तत् षडिन्द्रियं / तत् पञ्चोपादानस्कन्धाः / ते चाध्यात्मशून्यतया नोपलभ्यन्ते / बहिर्धाशून्यतया नोपलभ्यन्ते / नाध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते / शून्यताशून्यतया नोपलभ्यन्ते / महाशून्यतया नोपलभ्यन्ते / परमार्थशून्यतया नोपलभ्यन्ते / संस्कृतशून्यतया नोपलभ्यन्ते / असंस्कृतशून्यतया नोपलभ्यन्ते / अत्यन्तशून्यतया नोपलभ्यन्ते / अनवराग्रशून्यतया नोपलभ्यन्ते / अनवकारशून्यतया नोपलभ्यन्ते / प्रकृतिशून्यतया नोपलभ्यन्ते / सर्वधर्मशून्यतया नोपलभ्यन्ते / स्वलक्षणशून्यतया नोपलभ्यन्ते / अनुपलम्भशून्यतया नोपलभ्यन्ते / अभावशून्यतया नोपलभ्यन्ते / स्वभावशून्यतया नोपलभ्यन्ते / अभावस्वभावशून्यतया नोपलभ्यन्ते /
आह / मा हैव भगवन् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वोत्त्रस्येत् सन्त्रासम् आपद्येत / भगवान् आह / सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वो न प्रज्ञापारमितायाम् उपायकौशलो भवेत् / नैव कल्याणमित्रहस्तगतो भवेत् / उत्त्रस्येत् सन्त्रासम् आपद्येत / आह / कतमद् भगवन् बोधिसत्वस्य महासत्त्वस्य प्रज्ञापारमितायाम् उपायकौशलं / यत्र चरन् बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्त्रस्यन्ति / न सन्त्रासम् आपद्येत /
भगवान् आह / इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाश् चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्यम् इति प्रत्यवेक्षते / तच् च नोपलभते / वेदनाम् अनित्येति प्रत्यवेक्षते नोपलभते / संज्ञाम् अनित्येति प्रत्यवेक्षते नोपलभते / संस्कारान् अनित्या इति प्रत्यवेक्षते नोपलभते / विज्ञानम् अनित्यम् इति प्रत्यवेक्षते नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदना दुःखेति संज्ञा दुःखेति संस्काराः दुःखा इति विज्ञानं दुःखम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनात्मेति प्रत्यवेक्षते तच् च नोपलभते / वेदना अनात्मेति संज्ञा अनात्मेति संस्कारा अनात्मान इति विज्ञानम् अनात्मेति प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शान्तम् इति प्रत्यवेक्षते तच् च नोपलभते वेदना शान्तेति संज्ञा शान्तेति संम्स्काराः शान्ता इति विज्ञानं शान्तम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति वेदना शून्येति संज्ञा शून्येति संस्काराः शून्या इति विज्ञानं शून्यम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् आनिमित्तम् इति वेदना आनिमित्तेति संज्ञा आनिमित्तेति संस्काराः आनिमित्ता इति विज्ञानम् आनिमित्तम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अप्रणिहितम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदनाप्रणिहितेति प्रत्यवेक्षते तच् च नोपलभते / संज्ञाप्रणिहितेति प्रत्यवेक्षते तच् च नोपलभते / संस्काराः अप्रणिहितेति प्रत्यवेक्षते तच् च न नोपलभते / विज्ञानम् अप्रणिहितम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनभिसंस्कारम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदनानभिसंस्कारेति प्रत्यवेक्षते / तच् च नोपलभते / संज्ञानभिसंस्कारेति प्रत्यवेक्षते तच् च नोपलभते / संस्कारा अनभिसंस्कारा इति प्रतावेक्षते तच् च नोपलभते / विज्ञानम् अनभिसंस्कारम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं / पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं विविक्तम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदना विविक्तेति प्रत्यवेक्षते तच् च नोपलभते / संज्ञा विविक्तेति प्रत्यवेक्षते तच् च नोपलभते / संस्कारा विविक्ता इति प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानं विविक्तम् इति प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्याकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनाम् अनित्याकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञाम् अनित्याकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् अनित्याकारेण प्रत्यवेक्षते तांश् च नोपह्लभते / विज्ञानम् अनित्याकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखाकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनां दुःखाकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञां दुःखाकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् दुःखाकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानं दुःखाकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनात्माकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनाम् अनात्माकारेण प्रत्यवेक्षते तच् च नोपलसभते / संज्ञाम् अनात्माकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् अनात्माकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानम् अनात्माकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः रूपं शान्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनां शान्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञां शान्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् शान्ताकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानं शान्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः रूपं शून्याकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनां शून्याकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञां शून्याकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् शून्याकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानं शून्याकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महाभत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् आनिमित्तम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदनाम् आनिमित्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञाम् आनिमित्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् आनिमित्ताकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानम् आनिमित्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अप्रणिहितम् इति प्रत्यवेक्षते तच् च नोपलभते / वेदनाम् अप्रणिहिताकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञाम् अप्रणिहिताकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् अप्रणिहिताकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानम् अप्रणिहिताकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनभिसंस्काराकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनाम् अनभिसंस्काराकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञाम् अनभिसंस्काराकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् अनभिसंस्काराकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानम् अनभिसंस्काराकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं विविक्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / वेदनां विविक्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संज्ञां विविक्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / संस्कारान् विविक्ताकारेण प्रत्यवेक्षते तांश् च नोपलभते / विज्ञानं विविक्ताकारेण प्रत्यवेक्षते तच् च नोपलभते / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलं /
तस्य पुनः सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं प्रत्यवेक्षमाणस्यैवं भवत्य् अहं सर्वसत्त्वेभ्यो रूपम् अनित्यम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपं दुःखम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपम् अनात्मेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपं शान्तम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपं शून्यम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपम् आनिमित्तम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपम् अप्रणिहितम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपम् अनभिसंस्कारम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / रूपं विविक्तम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन /
वेदनाम् अनित्येति धर्मं देशयिश्यामि तच् चानुपलम्भयोगेन / वेदनां दुःखेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनाम् अनात्मेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनां शान्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनां शून्येति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनाम् आनिमित्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनाम् अप्रणिहितेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनाम् अनभिसंस्कारेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / वेदनां विविक्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन /
संज्ञाम् अनित्येति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञां दुःखेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञाम् अनात्मेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञां शान्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञां शून्येति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञाम् आनिमित्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञाम् अप्रणिहितेति धर्मं देशयिष्यामि तच् चानुलम्भयोगेन / संज्ञाम् अनभिसंष्कारेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संज्ञां विविक्तेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन /
संस्कारान् अनित्या इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् दुःखा इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् आत्मान इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् शान्ता इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् शून्या इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् आनिमित्ता इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् अप्रणिहिता इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् अनभिसंस्कारा इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / संस्कारान् विविक्ता इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन /
विज्ञानम् अनित्यम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / विज्ञानं दुःखम् इति धर्मं देशयिष्यामि तच् चानुपलभायोगेन / विज्ञानम् अनात्मेति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / विज्ञानं शान्तम् इति धर्मं देशयिष्यामि तच् चानुपलमायोगेन / विज्ञानं शून्यम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / विज्ञानम् आनिमित्तम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / विज्ञानम् अप्रणिहितम् इति धर्मं देशयिष्यामि / तच् चानुपलम्भयोगेन / विज्ञानम् अनभिसंस्कारम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन / विज्ञानं विविक्तम् इति धर्मं देशयिष्यामि तच् चानुपलम्भयोगेन /
इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता / येन बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति / न सन्त्रस्यति / न सन्त्रासम् आपद्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपम् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपम् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपं शान्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपं शून्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपम् आनिमित्ताकारेण ममसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपम् अप्रणिहिताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपम् अनभिसंस्काराकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारै रूपं विविक्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन /
यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनां दुःखाकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अनात्माकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनां शान्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनां शून्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् आनिमित्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अप्रणिहिताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अनभिसंस्काराकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् वेदनां विविक्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन /
यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञाम् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञां दुःखाकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञाम् अनात्माकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञां शान्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञां शून्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञाम् आनिमित्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञाम् अप्रणिहिताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञाम् अनभिसंस्काराकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संज्ञां विविक्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन /
यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् दुःखाकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् अनात्माकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् शान्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् शून्याकारेण मनसिकरोति / तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् आनिमित्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् अप्रणिहिताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् अनभिसंस्काराकारेण मनसिकरोति तच् चालुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैः संस्कारान् विविक्ताकारेण मनसिकरोति तच् चालुपलम्भयोगेन /
यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् अनित्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानं दुःखाकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् अनात्माकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानं शान्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानं शून्याकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् आनिमित्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् अप्रणिहिताकारेण मनसिकरोति तच् चानुपलम्भयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् अनभिसंस्काराकारेण मनसिकरोति तच् चानुपलक्ष्णयोगेन / यन् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानं विविक्ताकारेण मनसिकरोति तच् चानुपलम्भयोगेन /
इयं सुभूते बोधिसात्त्वस्य महासत्त्वस्यापरासृष्टा शीलपारमिता येन बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न सन्त्रासम् आपद्यते /
पुनर् अपरं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरन्तो येषां धर्माणाम् अनित्याकारेण दुःखाकारेणानात्माकारेण शून्याकारेणानिमित्ताकारेणाप्रणिहिताकारेणानभिसंस्काराकारेण विविक्ताकारेण प्रत्यवेक्षते क्षमणारोचनेयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता येन बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनित्यम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं दुःखम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनात्मेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं शान्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं शून्यम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् आनिमित्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अप्रणिहितम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनभिसंस्कारम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं विविक्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन /
सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदनानित्येति वेदना दुःखेति वेदनानात्मेति वेदना शान्तेति वेदना शून्येति वेदना आनिमित्तेति वेदनाप्रणिहितेति वेदनानभिसंस्कारेति वेदना विविक्तेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञानित्येति संज्ञा दुःखेति संज्ञा अनात्मेति संज्ञा शान्तेति संज्ञा शून्येति संज्ञा आनिमित्तेति संज्ञाप्रणिहितेति संज्ञानभिसंस्कारेति संज्ञा विविक्तेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा अनित्या इति संस्कारा दुःखा इति संस्कारा अनात्मान इति संस्काराः शान्ता इति संस्काराः शून्या इति संस्काराः आनिमित्ता इति संस्कारा अप्रणिहिता इति संस्कारा अनभिसंस्कारा इति संस्काराः विविक्ता इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकरैर् विज्ञानम् अनित्यम् इति विज्ञानं दुःखम् इति विज्ञानम् अनात्मेति विज्ञानं शान्तम् इति विज्ञानं शून्यम् इति विज्ञानम् आनिमित्तम् इति विज्ञानम् अप्रतिणिहितम् इति विज्ञानम् अनभिसंस्कारम् इति विज्ञानं विविक्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / तस्या या तेषां सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अनुत्सर्जनता अनिक्षिप्तधुरता इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता येन बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न सन्त्रस्यति न सन्त्रासम् आपद्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनित्यम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति / तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं दुःखम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः रूपम् अनात्मेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं शान्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति न च तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं शून्यम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः रूपम् आनिमित्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अप्रणिहितम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अनभिसंस्कारम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपं विविक्तम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेम / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अनित्येति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदनां दुःखेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदनाम् अनात्मेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदनां शान्तेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणं ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञानित्येति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञा दुःखेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति न च तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञानात्मेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञा शान्तेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये योधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञा शून्येति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञा आनिमितेत्ति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञाप्रणिहितेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञानभिसंस्कारेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संज्ञा विविक्तेति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा अनित्या इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः संज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा दुःखा इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा अनात्मान इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्काराः शान्ता इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्काराः शून्या इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा आनिमित्ता इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा अप्रणिहिता इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा अनभिसंस्कारा इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः संस्कारा विविक्ता इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
यदा बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विज्ञानम् नित्यम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः /
श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् विज्ञानं दुःखम् इति प्रत्यवेक्षते तच् चानुपलम्भयोगेन / न च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अवकाशं ददाति तद् अन्येषाञ् चाकुशलमूलानां धर्माणां ये बोधेः परिपन्थकराः / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता / येन बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते /
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् एवं प्रत्यवेक्षते / न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं / न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना / न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा / न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः / न विज्ञानशून्यतया विज्ञानं शून्यं / विज्ञानम् एव शून्यता शून्यतैव विज्ञानं /
न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः / न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं / न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यता शून्यतैव घ्राणं / न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यता शून्यतैव जिह्वा / न कायशून्यतया कायः शून्यः काय एव शून्यता शून्यतैव कायः / न मनः शून्यतया मनः शून्यं मन एव शून्यता शून्यतैव मनः /
न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं / न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः / न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः / न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः / न स्पर्शशून्यतया स्पर्शः शून्यः स्पर्श एव शून्यता शून्यतैव स्पर्शः / न धर्मशून्यतया धर्माः शून्याः धर्मा एव शून्यता शून्यतैव धर्माः /
न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं / न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं / न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं / न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं / न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं / न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानं /
न चक्षुःसंस्पर्शशून्यतया चक्षुःसंस्पर्शः शून्यः चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः / न श्रोत्रसंस्पर्शशून्यतया श्रोत्रसंस्पर्शः शून्यः श्रोत्रसंस्पर्श एव शून्यता शून्यतैव श्रोत्रसंस्पर्शः / न घ्राणसंस्पर्शशून्यतया घ्राणसंस्पर्शः शून्यः घ्राणसंस्पर्श एव शून्यता शून्यतैव घ्राणसंस्पर्शः / न जिह्वासंस्पर्शशून्यतया जिह्वासंस्पर्शः शून्यः जिह्वासंस्पर्श एव शून्यता शून्यतैव जिह्वासंस्पर्शः / न कायसंस्पर्शशून्यतया कायसंस्पर्शः शून्यः कायसंस्पर्श एव शून्यता शून्यतैव कायसंस्पर्शः / न मनःसंस्पर्शशून्यतया मनः संस्पर्शः शून्यः मनःसंस्पर्श एव शून्यता शून्यतैव मनः संस्पर्शः /
न चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया चक्षुःसंस्पर्शप्रत्ययवेदना शून्या चक्षुःसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदना / न श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया श्रोत्रसंस्पर्शप्रत्ययवेदना शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव श्रोत्रसंस्पर्शप्रत्ययवेदना / न घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया घ्राणसंस्पर्शप्रत्ययवेदना शून्या घ्राणसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदना / न जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया जिह्वासंस्पर्शप्रत्ययवेदना शून्या जिह्वासंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदना / न कायसंस्पर्शप्रत्ययवेदनाशून्यतया कायसंस्पर्शप्रत्ययवेदना शून्या कायसंस्पर्शप्रत्ययव्वेदनैव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदना / न मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनःसंस्पर्शप्रत्ययवेदना शून्या मनःसंस्पर्शप्रत्ययवेदनैव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदना /
न पृथिवीधातुशून्यतया पृथिवीधातुः शून्यः पृथिवीधातुर् एव शून्यता शून्यतैव पृथिवीधातुः / नाब्धातुशून्यतयाब्धातुः शून्यः अब्धातुर् एव शून्यता शून्यतैवाब्धातुः / न तेजोधातुशून्यतया तेजोधातुः शून्यः तेजोधातुर् एव शून्यता शून्यतैव तेजोधातुः / न वायुधातुशून्यतया वायुधातुः शून्यः वायुधातुर् एव शून्यता शून्यतैव वायुधातुः / नाकाशधातुशून्यतया आकाशधातुः शून्यः आकाशधातुर् एव शून्यता शून्यतैवाकाशधातुः / न विज्ञानधातुशून्यतया विज्ञानधातुः शून्यः विज्ञानधातुर् एव शून्यता शून्यतैव विज्ञानधातुः /
नाविद्याशून्यतयाविद्या शून्याविद्यैव शून्यता शून्यतैवाविद्या / न सम्स्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः / न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानं / न नामरूपशून्यतया नामरूपं शून्यं नामरूपम् एव शून्यता शून्यतैव नामरूपं / न षडायतनशून्यतया षडायतनं शून्यं षडायतनम् एव शून्यता शून्यतैव षडायतनं / न स्पर्शशून्यतया स्पर्शः शून्यं स्पर्श एव शून्यता शून्यतैव स्पर्शः / न तृष्णाशून्यतया तृष्णा शून्या तृष्णैव शून्यता शून्यतैव तृष्णा / नोपादानशून्यतया उपादानं शून्यं उपादानम् एव शून्यता शून्यतैवोपादानं / न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना / न भवशून्यतया भवः शून्यः भव एव शून्यता शून्यतैव भवः / न जातिशून्यतया जातिः शून्या जातिर् एव शून्यता शून्यतैव जातिः / न जरामरणशून्यतया जरामरणं शून्यं जरामरणम् एव शून्यता शून्यतैव जरामरणं /
न दानपारमिताशून्यतया दानपारमिता शून्या दानपारमितैव शून्यता शून्यतैव दानपारमिता / न शीलपारमिताशून्यतया शीलपारमिता शून्या शीलपारमितैव शून्यता शून्यतैव शीलपारमिता / न क्षान्तिपारमिताशून्यतया क्षान्तिपारमिता शून्या क्षान्तिपारमितैव शून्यता शून्यतैव क्षान्तिपारमिता / न वीर्यपारमिताशून्यतया वीर्यपारमिता शून्या वीर्यपारमितैव शून्यता शून्यतैव वीर्यपारमिता / न ध्यानपारमिताशून्यतया ध्यानपारमिता शून्या ध्यानपारमितैव शून्यता शून्यतैव ध्यानपारमिता / न प्रज्ञापारमिताशून्यतया प्रज्ञापारमिता शून्या प्रज्ञापारमितैव शून्यता शून्यतैव प्रज्ञापारमिता /
नाध्यात्मशून्यताशून्यतया अध्यात्मशून्यता शून्या अध्यात्मशून्यतैव शून्यता शून्यतैवाध्यात्मशून्यता / न बहिर्धाशून्यताशून्यतया बहिर्धाशून्यता शून्या बहिर्धाशून्यतैव शून्यता शून्यतैव बहिर्धाशून्यता / नाध्यात्मबहिर्धाशून्यताशून्यतयाध्यात्मबहिर्धाशून्यता शून्याध्यात्मबहिर्धाशून्यतैव शून्यता शून्यतैवाध्यात्मबहिर्धाशून्यता / न शून्यताशून्यताशून्यतया शून्यताशून्यता शून्या शून्यता शून्यतैव शून्यताशून्यतैव शून्यताशून्यता / न महाशून्यताशून्यतया महाशून्यता शून्या महाशून्यतैव शून्यता शून्यतैव महाशून्यता / न परमार्थशून्यताशून्यतया परमाथशून्यता शून्या परमाथशून्यतैव शून्यता शून्यतैव परमार्थशून्यता / न संस्कृतशून्यताशून्यतया संस्कृतशून्यता शून्या संस्कृतशून्यतैव शून्यता शून्यतैव संस्कृतशून्यता / नासंस्कृतशून्यताशून्यतयासंस्कृतशून्यता शून्या असंस्कृतशून्यतैव शून्यता शून्यतैवासंस्कृतशून्यता / नात्यन्तशून्यताशून्यतयात्यन्ताशून्यता शून्या अत्यन्तशून्यतैव शून्यता शून्यतैवात्यन्तशून्यता / नानवराग्रशून्यताशून्यतयानवराग्रशून्यता शून्यानवराग्रशून्यतैव शून्यता शून्यतैवानवराग्रशून्यता / नानवकारशून्यताशून्यतयानवकारशून्यता शून्या अनवकारशून्यतैव शून्यता शून्यतैवानवकारशून्यता / न प्रकृतिशून्यताशून्यतया प्रकृतिशून्यता शून्या प्रकृतिशून्यतैव शून्यता शून्यतैव प्रकृतिशून्यता / न सर्वधर्मशून्यताशून्यतया सर्वधर्मशून्यता शून्या सर्वधर्मशून्यतैव शून्यता शून्यतैव सर्वधर्मशून्यता / न स्वलक्षणशून्यताशून्यतया स्वलक्षणशून्यता शून्या स्वलक्षणशून्यतैव शून्यता शून्यतैव स्वलक्षणशून्यता / नानुपलम्भशून्यताशून्यतयानुपलम्भशून्यता शून्या अनुपलम्भशून्यतैव शून्यता शून्यतैवानुपलम्भशून्यता / नाभावशून्यताशून्यतयाभावशून्यता शून्या अभावशून्यतैव शून्यता शून्यतैवाभावशून्यता / न स्वभावशून्यताशून्यतया स्वभावशून्यता शून्या स्वभावशून्यतैव शून्यता शून्यतैव स्वभावशून्यता / नाभावस्वभावशून्यताशून्यतयाभावस्वभावशून्यता शून्या अभावस्वभावशून्यतैव शून्यता शून्यतैवाभावस्वभावशून्यता /
न स्मृत्युपस्थानानि शून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्यपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि / न सम्यक्प्रहाणानि शून्यतया सम्यक्प्रहाणानि शून्यानि सम्यक्प्रहाणान्य् एव शून्यता शून्यतैव सम्यक्प्राहाणानि / नर्धिपादाशून्यतया ऋद्धिपादाः शून्याः ऋद्धिपादा एव शून्यता शून्यतैवर्धिपादाः / नेन्द्रियशून्यतया इन्द्रियाणि शून्यानि इन्द्रियाण्य् एव शून्यता शून्यतैवेन्द्रियाणि / न बलानि शून्यतया बलानि शून्यानि बलान्य् एव शून्यता शून्यतैव बलानि / न बोध्यङ्गानि शून्यतया बोध्यङ्गानि शून्यानि बोध्यङ्गान्य् एव शून्यता शून्यतैव बोध्यङ्गानि / नार्याष्टाङ्गमार्गशून्यतया आर्याष्टाङ्गमार्गः शून्यः आर्याष्टाङ्गमार्ग एव शून्यता शून्यतैवार्याष्टाङ्गमार्गः / नार्यसत्यानि शून्यतया आर्यसत्यानि शून्यानि आर्यसत्यान्य् एव शून्यता शून्यतैवार्यसत्यानि / न ध्यानशून्यतया ध्यानानि शून्यानि ध्यानान्य् एव शून्यता शून्यतैव ध्यानानि / नाप्रमाणशून्यतयाप्रमाणानि शून्यानि अप्रमाणान्य् एव शून्यता शून्यतैवाप्रमाणानि / नारूप्यसमापत्तिशून्यतया आरूप्यसमापत्तयः शून्याः आरूप्यसमापत्तय एव शून्यता शून्यतैवारूप्यसमापत्तयः / न विमोक्षशून्यतया विमोक्षाः शून्याः विमोक्षा एव शून्यता शून्यतैव विमोक्षाः / नानुपूर्वविहारसमापत्तिशून्यतयानुपूर्वविहारसमापत्तयः शून्याः अनुपूर्वविहारसमापत्तय एव शून्यता शून्यतैवानुपूर्वविहारसमापत्तयः / न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव शून्यता शून्यतैव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि /
नाभिज्ञाशून्यतयाभिज्ञाः शून्याः अभिज्ञा एव शून्यता शून्यतैवाभिज्ञाः / न समाधिशून्यतया समाधयः शून्याः समाधय एव शून्यता शून्यतैव समाधयः / न धारणीमुखशून्यतया धारणीमुखानि शून्यानि धारणीमुखान्य् एव शून्यता शून्यतैव धारणीमुखानि / न तथागतबलशून्यतया तथागतबलानि शून्यानि तथागतैव शून्यैव शून्यता शून्यतैव तथागतबलानि / न वैशारद्यशून्यतया वैशारद्यानि शून्यानि वैशारद्यान्य् एव शून्यता शून्यतैव वैशारद्यानि / न प्रतिसंविच्छून्यतया प्रतिसंविदः शून्याः प्रतिसंविद एव शून्यता शून्यतैव प्रतिसंविदः / न महामैत्रीशून्यतया महामैत्री शून्या महामैत्र्यैव शून्यता शून्यतैव महामैत्री / न महाकरुणाशून्यतया महाकरुणा शून्या महाकरुणैव शून्यता शून्यतैव महाकरुणा / नावेणिकबुद्धधर्मशून्यतया आवेणिकबुद्धधर्माः शून्या आवेणिकबुद्धधर्मैव शून्यता शून्यतैवावेणिकबुद्धधर्माः / इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता /
इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरन्न् उपायकौशलं / येनोपायकौशलेन समन्वागतो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते /
सुभूतिर् आह / कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि / यैः कल्याणमित्रैः परिगृहीतो बोधिसत्त्वो महासत्त्वः इमं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते / भगवान् आह / इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रं यो ऽस्मै रूपम् अनित्यम् इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै वेदनानित्येति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै संज्ञानित्येति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै संस्कारा अनित्या इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै विज्ञानम् अनित्यम् इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः /
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रं यो ऽस्मै रूपं दुःखम् इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै वेदना दुःखेति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै संज्ञा दुःखेति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै संस्काराः दुःखा इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः / यो ऽस्मै विज्ञानं दुःखम् इति धर्मं देशयति तच् चानुपलम्भयोगेन / सर्वकुशलमूलानि च न श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
