Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Mật giáo
वज्रविदारणाधारणी
- Thông tin
- GRETIL — "Āryavajravidāraṇā Nāma Dhāraṇī", in: Dhīḥ 40 (2005), eds. Ngawang Samten and Janardan Pandey, pp. 161-164.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
वज्रविदारणाधारणी
वज्रविदारणा-धारणी
आर्यवज्रविदारणा नाम धारणी
ओम् नमो भगवत्यै आर्यवज्रविदारणायै ।
एवं मया श्रुतमेकस्मिन् समये भगवान् वज्रेषु विहरति स्म । सर्वशरीरं वज्रमयमधिष्ठाय वज्रपाणिश्च बुद्धानुभावेन वज्रसमाधिं समापन्नः । ततो वज्रपाणिः [सर्व]बुद्धानुभावेन सर्वबुद्धाधिष्ठानं [सर्वबोधिसत्त्वाधिष्ठा]नञ्च महाक्रोधसम्भूतं वज्रसारमभाषते स्म । अच्छेद्यमभेद्यं सत्यं दृढं स्थिरं सर्वत्राप्रतिहतं सर्वत्रापराजितं सर्वसत्त्वविद्रावणकरं सर्वसत्त्वोत्सादनकरं सर्वविद्याच्छेदनकरं सर्वविद्यास्तम्भनकरं सर्वकर्मविध्वंसनकरं सर्वकर्मविद्रावणकरं सर्वग्रहोत्सादनकरं सर्वग्रहविमोक्षणकरं सर्वभूताकर्षणकरं [सर्वभूतनिग्रहणकरं] सर्वविद्यामन्त्रकर्मपरायणकरं असिद्धानां सिद्धकरं सिद्धानाञ्चाविनाशनकरं [सर्वकामप्रदानकरं] सर्वसत्त्वानां रक्षणकरं शान्तिकं पौष्टिकं सर्वसत्त्वानाञ्च स्तम्भनकरं सर्वसत्त्वानां च मोहनकरम् इमं मन्त्रं महावलं बुद्धानुभावेन यक्षेन्द्रो वज्रपाणिः प्रत्यभाषत् ।
om namo ratnatrayāya | namaścaṇḍavajrapāṇaye | mahāyakṣasenāpataye | tadyathā - om truṭa truṭa troṭaya troṭaya sphuṭa sphuṭa sphoṭaya sphoṭaya ghurṇa ghurṇa ghurṇāpaya (vvdh_162) ghurṇāpaya sarvasattvānāṃ vibodhaya vibodhaya sambodhaya sambodhaya bhrama bhrama saṃbhrāmaya saṃbhrāmaya sarvabhūtāni kuṭa kuṭa saṃkuṭaya saṃkuṭaya sarvaśatrūn ghaṭa ghaṭa saṃdhāṭaya saṃghāṭaya sarvavidyā vajra vajrasphoṭaya vajra vajra kaṭa vajra vajra maṭa vajra vajra matha vajra vajra aṭṭahāsanīlavajrasuvajrāya svāhā | om he fullu nirufullu nigṛhṇa kullu mili cullu kuru kullu vajravijayāya svāhā | om kilikīlāya svāhā | om kaṭa kaṭa maṭa maṭa raṭa raṭa moṭana pramoṭanāya svāhā | om cara nicara hara hara sara sara māraya vajravidāraṇāya svāhā |
ओम् छिन्द छिन्द भिन्द भिन्द महाकिलिकीलाय स्वाहा । ओम् बन्ध बन्ध क्रोध क्रोध वज्रकिलिकीलाय स्वाहा । ओम् चुरु चुरु चण्डकिलिकीलाय स्वाहा । ओम् त्रासय त्रासय वज्रकिलिकीलाय स्वाहा । ओम् हर हर वज्रधराय स्वाहा । ओम् प्रहर प्रहर वज्रप्रभञ्जनाय स्वाहा । ओम् मतिस्थिरवज्र श्रुतिस्थिरवज्र प्रतिस्थिरवज्र महावज्र अप्रतिहतवज्र अमोघवज्र ऐहिवज्र शीघ्रं वज्राय स्वाहा । ओम् धर धर धिरि धिरि धुरु धुरु सर्ववज्रकुलमावर्ताय स्वाहा । अमुकं मारय फट् ।
ओम् नमः समन्तवज्राणाम् । सर्वबलमावर्तय महाबले कटबले ततले अचले मण्डलमये अतिवज्र महाबले वेगरण अजिते ज्वल ज्वल तिटि तिटि ति(पिं)ङ्गले दह दह तेजोवति तिलि तिलि बन्ध बन्ध महाबले वज्राङ्कुशज्वालाय स्वाहा ।
ओम् नमो रत्नत्रयाय । नमश्चण्डवज्रपाणये महायक्षसेनापतये । तद्यथा - ओम् हर हर वज्र मथ मथ वज्र धुन धुन वज्र दह दह वज्र पच पच वज्र धर धर वज्र धारय धारय वज्र दारुण दारुण वज्र छिन्द छिन्द वज्र भिन्द भिन्द वज्र हूं फट् ।
ओम् नमश्चण्डवज्रक्रोधाय । ओम् हुलु हुलु तिष्ठ तिष्ठ बन्ध बन्ध हन हन अमृते हूं फट् । हृदयोपहृदयमूलमन्त्रः ॥
सर्वपापक्षयं कृत्वा सर्वदुःखविनाशनम् । मूलं तत्सर्वमन्त्राणां सर्वश्रीसमलङ्कृतम् ॥
उपशान्तेन्द्रियो भूत्वा नष्टाश्रयहतायुषः । अलक्ष्म्या परिविष्टाश्च देवताश्च पराङ्मुखाः ॥
कान्ता प्रियवियोगे च दुष्टग्रह उपद्रुतः । अन्योन्या[नामर्थनाशं तथा] व्यसनमेव च ॥
[शोकायासोपद्रुतानां भयव्यसनमेव च] । ग्रहनक्षत्रपीडा वा काखोर्दा दारुणा ग्रहाः । पापकं पश्यते स्वप्ने शोकायाससमुच्छ्रितम् ॥
तच्च सुस्नातशुचिना श्रोतव्यं सूत्रमुत्तमम् । शृण्वन्तु ये (ते) इदं सूत्रं गम्भीरं बुद्धगोचरम् ॥
प्रसन्नचित्तसुमनाः शुचिवस्त्रैरलङ्कृताः । ते च सर्वे च दुष्टात्मा उपसर्गा सुदारुणाः ॥
तेजो ऽस्य च प्रशाम्येत समस्ता सर्वमाप्नुता । आयुश्च बर्द्धते पुण्यं सर्वपापैर्विमोक्षिता ॥
मणिसर्षपदूर्वाभिर्रत्नाक्षतसचन्दनैः । वज्रग्रन्थितपुष्पैश्च जलामापूर्यकाञ्चनम् ॥
घटं तु रजतं चापि शुचिवस्त्रेण वासितम् । एकविंशतिवारं वा तथा चाष्टोत्तरंशतम् ॥
जपेद्विदारणं मन्त्रं यः स्नायात् पार्थिवः सदा । एवं यः कुरुते नित्यं तस्य सम्पद्यते शुभम् ॥
इदमवोचद् भगवानात्तमनास्ते च भिक्षवः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति ।
॥ आर्यवज्रविदारणा नाम धारणी समाप्ता ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
