Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सुखावतीव्यूह

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

वीरा, धौरेया, धृतिमन्तो, ह्रीमन्तो, ऽसादृश्या, निरर्गडा, प्राप्ताभिज्ञाः, सुरताः सुखसंवासा, अर्थकरा, प्54 लोकप्रद्योता, नायका, नन्दीरागानुनयप्रतिघाः, प्रहीणाः, शुद्धाः, शोकापगता, निर्मलास्, त्रिमलप्रहीणा, विक्रीडिताभिज्ञा, हेतुबलिकाः, प्रणिधानबलिका, अजिह्मा, अकुटिलाः. ये ते बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूला, उत्पाटितमानशल्या, अपगतरागद्वेषमोहाः, शुद्धाः, शुद्धाधिमुक्ता, जिनवरप्रशस्ता, लोकपण्डिता, उत्तप्तज्ञानसमुद्गता, जिनस्तुतास्, चित्तौद्बिल्यसमन्वागताः, शूरा, दृढा, असमा, अखिला, अतुला, अरजसः, सहिता, उदारा, ऋषभा, ह्रीमन्तो, धृतिमन्तः, स्मृतिमन्तो, मतिमन्तो, गतिमन्तः, प्रज्ञाशस्त्रप्रहरणाः, पुण्यवन्तो, द्युतिमन्तो, व्यपगतखिलमलप्रहीणा, अभियुक्ताः सातत्येषु धर्मेषु. ईदृशा आनन्द तस्मिन् बुद्धक्षेत्रे बोधिसत्त्वा महासत्त्वाः संक्षिप्तेन. विस्तरेण पुनः सचेत् कल्पकोटीनयुतशतसहस्रस्थितिकेनाप्य् आयुष्प्रमाणेन तथागतो निर्दिशेद्, न त्व् एव शक्यं तेषां सत्पुरुषाणां गुणपर्यन्तो ऽधिगन्तुम्. न च तथागतस्य वैशारद्योपच्छेदो भवेत्. तत् कस्य हेतोः. उभयम् अप्य् एतद् आनन्दाचिन्त्यम् अतुल्यम्, यद् इदम् : तेषां च बोधिसत्त्वानां गुणास् तथागतस्य चानुत्तरं प्रज्ञाप्रतिभानम्.

अपि चानन्द उत्तिष्ठ पश्चान्मुखो भूत्वा, पुष्पाण्य् अवकीर्याञ्जलिं प्रगृह्य, प्रणिपत. एषासौ दिग्, यत्र स भगवान् अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस् तिष्ठति ध्रियते प्55 यापयति, धर्मं च देशयति ; विरजो विशुद्धो, यस्य तं नामधेयम् अनावरणं दशदिशि लोके विघुष्टम् एकैकस्यां दिशि गङ्गानदीवालिकासमा बुद्धा भगवन्तो वर्णयन्ति, स्तुवन्ति, प्रशंसन्त्य्, असकृद् असकृद् असङ्गवाचाप्रतिवाक्याः. एवम् उक्त, आयुस्मान् आनन्दो भगवन्तम् एतद् अवोचत् : इच्छाम्य् अहं भगवन्तं तम् अमिताभम् अमितप्रभम् अमितायुषं तथागतम् अर्हन्तं सम्यक्संबुद्धं द्रष्टुम्, तांश् च बोधिसत्त्वान् महासत्त्वान् बहुबुद्धकोटीनयुतशतसहस्रावरोपितकुशलमूलान्. समनन्तराभाषिता चायुष्मतानन्देनेयं वाक्, अथ तावद् एव सो ऽमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्वपाणितलात् तथारूपां प्रभां प्रामुञ्चत्, ययेदं कोटीशतसहस्रतमं बुद्धक्षेत्रं महतावभासेन स्फुटम् अभूत्. तेन खल्व् अपि समयेन सर्वत्र कोटीशतसहस्रबुद्धक्षेत्राणां, ये केचित् कालपर्वता वा, रत्नपर्वता वा, मेरुमहामेरुमुचिलिन्दमहामुचिलिन्दचक्रवाडमहाचक्रवाडा वा, भित्तयो वा, स्तम्भा वा, वृक्षगहनोद्यानविमानानि वा दिव्यमानुष्यकानि, तानि सर्वाणि तस्य तथागतस्य तया प्रभयाभिनिर्भिन्नान्य् अभूवन्, समभिभूतानि. तद् यथापि नाम पुरुषो व्याममात्रके स्थितो द्वितीयं पुरुषं प्रत्यवेक्षत आदित्ये ऽभ्युद्गत ; एवम् एवास्मिन् बुद्धक्षेत्रे भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्ष- गन्धर्वासुरगरुडकिन्नरमहोरगाश् च तस्यां वेलायाम् अद्राक्षुस् तम् अमिताभं तथागतम् अर्हन्तं सम्यक्संबुद्धं, सुमेरुम् इव

पर्वतराजानं सर्वक्षेत्राभ्युद्गतम्, सर्वदिसो ऽभिभूय, भासमानं तपन्तं विरोचमानं प्56 बिभ्राजमानं, तं च महान्तं बोधिसत्त्वगणं, तं च भिक्षुसंघं, यद् इदं बुद्धानुभावेन तस्याः प्रभयाः परिशुद्धत्वात्. तद् यथेयं महापृथिव्य् एकोदकजाता भवेत्, तत्र न वृक्षा, न पर्वता, न द्वीपा, न तृणगुल्मौषधिवनस्पतयो, न नदीश्वभ्रप्रपाताः प्रज्ञायेरन्, अन्यत्रैकार्णवीभूतमहापृथिव्य् ऐका स्यात् ; एवम् एव तस्मिन् बुद्धक्षेत्रे नास्त्य् अन्यत् किंचिल् लिङ्गं वा, निमित्तं वान्यत्रैव व्यामप्रभाः श्रावकास्, ते च योजनकोटीशतसहस्रप्रभा बोधिसत्त्वाः, स च भगवान् अमिताभस् तथागतो ऽर्हन् सम्यक्संबुद्धस्, तं च श्रावकगणं तं च बोधिसत्त्वगणम् अभिभूय, सर्वा दिशः प्रभासयन् संदृश्यते. तेन खल्व् अपि समयेन तस्यां सुखावत्यां लोकधातौ बोधिसत्त्वाः श्रावाकदेवमनुष्याश् च सर्वे त इमां लोकधातुं, शाक्यमुनिं च तथागतं महता भिक्षुसंघेन परिवृतं पश्यन्ति स्म, धर्मं च देशयन्तम्. तत्र खलु भगवान् अजितं बोधिसत्त्वं महासत्त्वम् आमन्त्रयते स्म : पश्यसि त्वम् अजितामुष्मिन् बुद्धक्षेत्रे गुणालंकारव्यूहसंपदम् ; उपरिष्टाश् चान्तरीक्ष आरामरमणीयानि, वनरमणीयान्य्, उद्यानरमणीयानि, नदीपुष्किरिणीरमणीयानि, नानारत्नमयोत्पलपद्मकुमुदपुण्डऋईकाकीर्णानि ; अधस्ताच् च धरणितलम् उपादाय, यावद् अकनिष्ठभवनाद्, गगनतलं पुष्पाभिकीर्णं, पुष्पावलिसमुपशोभितं, नानास्तम्भपङ्क्तिपरिस्फुटं तथागताभिनिर्मित- नानाद्विजसंघनिषेवितम्. आह : पश्यामि भगवन्, भगवान् आह : पश्यसि पुनस् त्वम् अजितैतान् अपरान् द्विजसंघान् प्57

सर्वबुद्धक्षेत्रान् बुद्दस्वरेणाभिजिज्ञापयन्ति, येनैते बोधिसत्त्वा नित्यम् अविरहिता बुद्धानुस्मृत्या. आह : पश्यामि भगवन्. भगवान् आह : पश्यसि त्वम् अजितात्र बुद्धक्षेत्रे अमून् सत्त्वान् योजनशतसहस्रकेषु विमानेष्व् अभिरूढान्, अन्तरीक्षे ऽसक्तान् क्रामतः. आह : पश्यामि भगवन्. भगवान् आह : तत् किं मन्यसे ऽजित ; अस्ति किंचिन् नानात्वं देवानां वा परनिर्मितवशवर्तिनां सुखावत्याम् लोकधातौ मनुष्यणां वा. आह : एकम् अप्य् अहं भगवन् नानात्वं न समनुपश्यामि. यावद् महर्द्धिका अत्र सुखावत्यां लोकधातौ मनुष्याः. भगवान् आह : पश्यसि पुनस् त्वम् अजित तत्र सुखावत्यां लोकधाताव् एकेषां मनुष्याणाम् उदारेषु पद्मेषु गर्भावासम्. आह ; तद् यथापि नाम भगवन् त्रयश्त्रिंशा देवा यामा देवा वा, पञ्चाशद्योजनकेषु वा, योजनशतिकेषु वा, पञ्चयोजनशतिकेषु विमानेषु प्रविष्टाः क्रीडन्ति, रमन्ति, परिचारयन्ति ; एवम् एवाहं भगवन् अत्र सुखावत्यां लोकधाताव् एकेषां मनुष्याणाम् उदारपद्मेषु गर्भावासं पश्यामि. सन्ति खलु पुनर् अत्र भगवन् सत्त्वा य उपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. तत् को ऽत्र भगवन् हेतुः, कः प्रत्ययो, यद् अन्ये पुनर् गर्भावासे प्रतिवसन्ति ; अन्ये पुनर् उपपादुकाः पर्यङ्कैः पद्मेषु प्रादुर्भवन्ति. भगवान् आह : ये ते ऽजित बोधिसत्त्वा अन्येषु बुद्धक्षेत्रेषु स्थिताः सुखावत्यां लोकधाताव् उपपत्तये विचिकित्साम् प्58 उत्पादयन्ति, तेन चित्तेन कुशलमूलान्य् अवरोपयन्ति, तेषाम् अत्र गर्भावासो भवति. ये पुनर् निर्विचिकित्साश् च्छिन्नकांक्षाः सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलान्य् अवरोपयन्ति, बुद्धानां भगवताम् असङ्गज्ञानम्

अवकल्पयन्त्य् अभिश्रद्धधत्य् अधिमुच्यन्ते ; तत्रोपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. ये ते ऽजित बोधिसत्त्वा महासत्त्वा अन्यत्रबुद्धक्षेत्रस्थाश् चित्तम् उत्पादयन्त्य् अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय, न विचिकित्साम् उत्पादयन्ति, न कांक्षन्त्य् असङ्गबुद्धज्ञानं, स्वकुचलमूलं चाभिश्रद्धधति, तेषाम् औपपादुकानां पर्यङ्कैः पद्मेषु प्रादुर्भूतानां मुहूर्तमात्रेणैवैवंरूपः कायो भवति, तद् यथान्येषां चिरोपपन्नानां सत्त्वानाम्. पश्याजित प्रज्ञादौर्बल्यं प्रज्ञावैमात्रं प्रज्ञापरिहाणिं प्रज्ञापरीत्ततां, यत्र हि नाम पञ्चवर्षशतानि परिहीणा भवन्ति बुद्धदर्शनाद्, बोधिसत्त्वदर्शनात्, सद्धर्मदर्शनाद्, धार्मसंकथ्यात् ; कुशलमूलचर्यायाः परिहीणा भवन्ति सर्वकुशलमूलसंपत्तेर्, यद् इदं विचिकित्सापतितैः संज्ञामनसिकारैः. तद् यथाजित राज्ञः क्षत्रियस्य मूर्धानाभिषिक्तस्य बन्धनागारं भवेत्, सर्वसौवर्णवैडूर्यप्रत्युप्तम्, अवसक्तपट्टमाल्यदामकलापं, नानारङ्गविततवितानं, दूष्यपट्टसंच्छन्नं, नानामुक्तकुसुमाभिकीर्णम्, उदारं, धूपनिर्धूपितं, प्रासादहर्म्यगवाक्षवेदिकातोरणविचित्र- सर्वरत्नप्रतिमण्डितं, हेमरत्नकंकणीजालसंच्छन्नं, चतुरस्रं, चतुःस्थूणं चतुर्द्वारं, चतुःसोपानकम्. तत्र तस्य राज्ञः पुत्रः केनचिद् एव कृत्येन प्रक्षिप्तो प्59 जाम्बूनदसुवर्णमयैर् निगडैर् बद्धो भवति. तस्य च तत्र पर्यङ्कः प्रज्ञप्तः स्याद्, अनेकगोणिकास्तीर्णस्, तूलिकापलालिकास्तीर्णः, काचिलिन्दिकसुखसंस्पर्शः, कालिङ्ग- प्रावरणसोत्तरपटच्छदन, उभयान्तलोहितोपधानश्, चित्रो, दर्शनीयः. स तत्राभिनिषण्णो

वाभिनिपन्नो वा भवेत्. बहु चास्यानेकविधं शुचिप्रणीतं पानभोजनं तत्रोपनाम्येत्. तत् किं मन्यसे ऽजित ; उदारस् तस्य राजपुत्रस्य स परिभोगो भवेत्. आह : उदारो भगवन्. भगवान् आह : तत् किं मन्यसे ऽजित ; अपि त्व् आस्वादयेत्, स तन् निगमयेद् वा, तेन वा तुष्टिं विद्यात्. आह : नो हीदं भगवन्. अपि तु खलु पुनर् येन व्यपनीतेन राज्ञा तत्र बन्धनागारे प्रक्षिप्तो भवेत्, स ततो मोक्षम् एवाकांक्षयेत्. अभिजातान् कुमारान् अमात्यान् स्त्र्यागारान् श्रेष्ठिनो गृहपतीन् कोट्टराज्ञो वा पर्येषेद्, य एनं ततो बन्धनागारात् परिमोचयेयुः. किं चापि भगवंस् तस्य कुमारस्य तत्र बन्धनागारे नाभिरतिः. नात्र परिमुच्यते, यावन् न राजा प्रसादम् उपदर्शयति. भगवान् आह : एवम् एवाजित, ये ते बोधिसत्त्वाः विचिकित्सापतिताः कुशलमूलान्य् अवरोपयन्ति, कांक्षन्ति बुद्धज्ञानम् असमसमज्ञानं, किं चापि ते बुद्धनामश्रवणेन, तेन च चित्तप्रसादमात्रेणात्र सुखावत्यां लोकधाताव् उपपद्यन्ते. न तु खल्व् औपपादुकाः पद्मेषु पर्यङ्कैः प्रादुर्भवन्ति. अपि तु पद्मेषु गर्भावासे प्60 प्रतिवसन्ति. किं चापि तेषां तत्रोद्यानविमानसंज्ञाः संतिष्ठन्ते. नास्त्य् उच्चारप्रस्रावं, नास्ति खेटसिंहानकं, न प्रतिकूलं मनसः प्रवर्तते. अपि तु खलु पुनः पञ्च वर्षशतानि विरहिता भवन्ति बुद्धदर्शनेन, धर्मश्रवणेन, बोधिसत्त्वदर्शनेन, धर्मसांकथ्यविनिश्चयेन, सर्वकुशलधर्मचर्याभिश् च. किं चापि ते तत्र नाभिरमन्ते, न तुष्टिं विदन्ति. अपि तु खलु पुनः पूर्वापराधं क्षपयित्वा, ते भूयस् ततः पश्चान् निष्क्रामन्ति. न चैषां ततो निष्क्रामतां निष्क्रमः प्रज्ञायत, ऊर्ध्वम् अधस् तिर्यग्

वा. पश्याजित ; यत्र हि नाम पञ्चभिर् वर्षशतैर् बहूनि बुद्धकोटीनयुतशतसहस्राण्य् उपस्थातव्यानि, बह्वसंख्येयाप्रमेयानि च कुशलमूलान्य् अवरोपयितव्यानि च स्युः. बुद्धधर्माश् च परिगृहीतव्याः. तत् सर्वं विचिकित्सादोषेण विरागयन्ति. पश्याजित कियन् महते ऽनर्थाय बोधिसत्त्वानां विचिकित्सा संवर्तत इति. तस्मात् तर्ह्य् अजित ; बोधिसत्त्वैर् निर्विचिकित्सैर् बोधाय चित्तम् उत्पाद्य, क्षिप्रं सर्वसत्त्वहितसुखाधानाय सामर्थाप्रतिलम्भार्थं, सुखावत्यां लोकधाताव् उपपत्तये कुशलमूलानि परिणामयितव्यानि, यत्र भगवान् अमितायुस् तथागतो ऽर्हन् सम्यक्संबुद्धः. एवम् उक्ते, ऽजितो बोधिसत्त्वो भगवन्तम् एतद् अवोचत् : कियन्तः पुनर् भगवन् बोधिसत्त्वा इतो बुद्धक्षेत्रात् परिनिष्पन्ना, अन्येषां वा बुद्धानां भगवताम् अन्तिकाद् ये सुखावत्यां लोकधाताव् उपपत्स्यन्ते. भगवान् आह : प्61 इतो ह्य् अजित बुद्धक्षेत्राद् द्वासप्ततिकोटीनयुतानि बोधिसत्त्वानां परिनिष्पन्नानि, यानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते, परिनिष्पन्नानाम् अवैवर्त्तिकानां बहुबुद्धकोटी- शतसहस्रावरोपितैः कुशलमूलैः. कः पुनर् वादस्, ततः परीत्ततरैः कुशलमूलैः. दुष्प्रसहस्य तथागतस्यान्तिकाद् अष्टादशकोटीनयुतानि बोधिसत्त्वानां सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; पूर्वान्तरे दिग्भागे रत्नाकरो नाम तथागतो विहरति. तस्यान्तिकान् नवतिबोधिसत्त्वकोट्यः सुखावत्याम् लोकधाताव् उपपत्स्यन्ते ; ज्योतिष्प्रभस्य तथागतस्यान्तिकाद् द्वाविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; अमितप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ;

लोकप्रदीपस्य तथागतस्यान्तिकात् षष्टिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; नागाभिभुवस् तथागतस्यान्तिकात् चतुःषष्तिबोधिसत्त्वकोट्यः सुखावत्याम् लोकधाताव् उपपत्स्यन्ते ; विरजप्रभस्य तथागतस्यान्तिकात् पञ्चविंशतिबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; सिंहस्य तथागतस्यान्तिकाद् अष्टादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; श्रीकूटस्य तथागतस्यान्तिकाद् एकाशीतिबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; नरेन्द्रराजस्य तथागतस्यान्तिकाद् दशबोधिसत्त्वकोटीनयुतानि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; प्62 बलाभिज्ञस्य तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वसहस्राणि सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; पुष्पध्वजस्य तथागतस्यान्तिकात् पञ्चविंशतिर् वीर्यप्राप्ता बोधिसत्त्वकोट्य एकप्रस्थानसंस्थिता एकेनाष्टाहेन नवनवतिकल्पकोटीनयुतशतसहस्राणि पश्चान्मुखीकृत्य याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; ज्वलनाधिपतेस् तथागतस्यान्तिकाद् द्वादशबोधिसत्त्वकोट्यः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; वैशारद्यप्राप्तस्य तथागतस्यान्तिकाद् एकोनसप्ततिर् बोधिसत्त्वकोट्यो याः सुखावत्यां लोकधाताव् उपपत्स्यन्ते ; अमिताभस्य तथागतस्य दर्शनाय, वन्दनाय, पर्युपासनाय परिपृच्छनायै परिप्रश्नीकरणाय. एतेनाजित पर्यायेण परिपूऋणकल्पकोटीनयुतं नामधेयानि परिकीर्तयेयं तेषां तथागतानाम्, येभ्यस् ते बोधिसत्त्वा उपसंक्रामन्ति सुखावतीं लोकधातुं तम् अमिताभं तथागतं द्रष्टुं वन्दितुं पर्युपासितुं, न च शक्यः पर्यन्तो ऽधिगन्तुम्. पश्याजित कियत् सुलब्धलाभास् ते सत्त्वा ये

ऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य नामधेयं श्रोष्यन्ति, नपि ते सत्त्वा हीनाधिमुक्तिका भविष्यन्ति, ये ऽन्तश एकचित्तप्रसादम् अपि तस्मिन् तथागते प्रतिलप्स्यन्ते, ऽस्मिंश् च धर्मपर्याये. तस्मात् तर्ह्य् अजित ; आरोचयामि वः, प्रतिवेदयामि वः, सदेवकस्य लोकस्य पुरतो ऽस्य धर्मपर्यायस्य स्रवणाय, प्63 त्रिसाहस्रमहासाहस्रम् अपि लोकधातुम् अग्निपरिपूऋणाम् अवगाह्यातिक्रम्यैकचित्तोत्पादम् अपि विप्रतिसारो न कर्तव्यः. तत् कस्य हेतोः. बोधिसत्त्वकोट्यो ह्य् अजिताश्रवणाद् एषाम् एवंरूपाणां धर्मपर्यायाणां विवर्तन्ते ऽनुत्तरायाः सम्यक्संबोधेः. तस्माद् अस्य धर्मपर्यायस्याध्याशयेन श्रवणोद्ग्रहणधारणार्थां, पर्यवाप्तये, विस्तरेण संप्रकाशनार्थाय, भावनार्थं च, सुमहद्वीर्यम् आरब्धव्यम्. अन्तश एकरात्रिम् दिवसम् अप्य्, एक- गोदोहमात्रम् अप्य् अन्तशः, पुस्तकगतावरोपितम् अपि कृत्वा सुलिखितो धारयितव्यः, शस्तृसंज्ञा च तत्रोत्पादाय कर्तव्या, इच्छद्भिः क्षिप्रम् अपरिमितान् सत्त्वान् अवैवर्त्तिकांश् चानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितुं, तं च तस्य भगवतो ऽमिताभस्य तथागतस्य बुद्धक्षेत्रं द्रष्टुम्. आत्मनश् च विसिष्टां बुद्धक्षेत्रगुणालंकारव्यूहसंपदं परिगृहीतुम् इति. अपि तु खल्व् अजित ; अत्यर्थं सुलब्धलाभास् ते सत्त्वा अवरोपितकुशलमूलाः, पूर्वजिनकृताधिकारा, बुद्धाधिष्ठानाधिष्ठिताश् च भविष्यन्ति, येषाम् अनागते ऽध्वनि, यावत् सद्धर्मप्रलोपे वर्तमान इम एवंरूपा उदारा धर्मपर्यायाः सर्वबुद्धसंवर्णिताः, सर्वबुद्धप्रशस्ताः सर्वबुद्धानुज्ञाता, महतः, सर्वज्ञज्ञानस्य क्षिप्रम् आहारकाः श्रोतावभासम् आगच्छन्ति. श्रुत्वा चोदारं

प्रीतिप्रामोद्यं प्64 प्रतिलप्स्यन्त, उद्ग्रहीष्यन्ति, धारयिष्यन्ति, वाचयिष्यन्ति, पर्यवाप्स्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, भावनाभिरताश् च भविष्यन्त्य्, अन्तशो लिखित्वा पूजयिष्यन्ति, बहु च ते पुण्यं प्रसविष्यन्ति, यस्य न सुकरा संख्या कर्तुम्. इति ह्य् अजित यत् तथागतेन कृत्यं कृतं तन् मया. यूष्माभिर् इदानीं निर्विचिकित्सैर् योगः करणीयः. मा संशय तम् असङ्गम् अनावरणं बुद्धज्ञानम्. मा भूत् सर्वाकारावरोपेत- रत्नमयपद्मबन्धनागारप्रवेशः. दुर्लभो ह्य् अजित बुद्धोत्पादः, दुर्लभा धर्मदेशना, दुर्लभा क्षणसंपत्. आख्याताजित मया पूर्वकुशलमूलपारमिप्राप्तिः. यूयम् इदानीम् अभियुज्यत प्रतिपद्य वै. अस्य खलु पुनर् अजित धर्मपर्यायस्य महतीं परीन्दनां करोम्य् अविप्रनाशाय. मा बुद्धधर्माणाम् अन्तर्धानाय पराक्रमिष्यथ. मा तथागताज्ञां क्सोभ- यिष्यथ. अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभा- षत : नेमे अकृतपुण्यानां श्रवा भेष्यन्ति ईदृशाः, ये तु ते शूर सिद्धार्थाः ते श्रोष्यन्ति इमां गिरां.(1) दृष्टो यैश् च हि संबुद्धो लोकनाथ प्रभंकरः, स गौरवैः श्रुतो धर्मः प्रीतिं प्राप्स्यन्ति ते परां.(2) न शक्त हीनेभि कुशीददृष्तिभिः बुद्धान धर्मेषु प्रसाद विन्दितुम्. ये पूर्वबुद्धेषु अकार्षु पूजां, प्65 ते लोकनाथान् चर्यासु शिक्षिषु.(3) यथान्धकारे पुरुषो ह्य् अचक्षुः मार्गं न जाने कुतु संप्रकाशयेत्. सर्वे तथा श्रावक बुद्धज्ञाने अजानकाः किं पुनर् अन्यसत्त्वाः.(4) बुद्धो हि बुद्धस्य गुणा प्रजानते. न देवनागासुरयक्षश्रावकाः. प्रत्येकबुद्धान पि को गती यथो, बुद्धस्य ज्ञाने हि प्रकाश्यमाने.(5) यदि सर्वसत्त्वाः

सुगता भवेयुः विशुद्धज्ञाना परमकोविदा, ते कल्पकोटीर् अथ वापि उत्तरे एकस्य बुद्धस्य गुणान् कथेयुः.(6) अत्रान्तरे निर्वृत ते भवेयुः प्रकाश्यमाना बहुकल्पकोटीः, न च बुद्धज्ञानस्य प्रमाणु लभ्यते, तथा हि ज्ञानाश् चरियं जिनानां.(7) तस्मान् नरः पण्डित विज्ञजातियः, यो मह्य वाक्यम् अभिश्रद्धधेयुः, कृत्स्नां स साक्षी जिनज्ञानराशिं. बुद्ध प्रजानाति गिराम् उदीरयेत्.(8) कदाचि लभ्याति मनुष्यलाभः, कदाचि बुद्धान पि प्रादुर्भावः. श्रद्धा थ प्रज्ञा सुचिरेण लप्स्यते, तस्यार्थप्रज्ञैर् जनयाथ वीर्यं.(9) य ईदृशां धर्म श्रुणित्वा श्रेष्ठां लभ्यन्ति प्रीतिं सुगतं स्मरन्तः, ते मित्रम् अस्माकम् अतीतम् अध्वनि, ये बुद्धा बोधाय जनेन्ति च्छन्दम्, इति.(10) प्66 अस्मिन् खलु पुनर् धर्मपर्याये भगवता भाष्यमाने द्वादशानां सत्त्वनयुतकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं, चतुर्विंशत्या कोटीभिर् अनागामिफलं प्राप्तम्. अष्टानां भिक्षुशतानाम् अनुत्पादायास्रवेभ्यश् चित्तानि विमुक्तानि. पञ्चविंशत्या बोधिसत्त्वकोटीभिर् अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धाः. देवमानुषिकायाश् च प्रजायाश् चत्वारिंशत्कोटीनयुतशतसहस्राणाम् अनुत्पत्तिपूर्वाण्य् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि सुखावत्युपपत्तये च कुशलमूलान्य् अवरोपितानि, भगवतो ऽमिताभस्य दर्शनकामतया. सर्वे ते तत्रोत्पाद्यानुपूर्वेण मञ्जुस्वरा नाम तथागता अन्येषु लोकधातुषूपपत्स्यन्ते. अशीतिश् च नयुतकोट्यो दीपङ्करेण तथागतेन लब्धक्षान्तिका अवैवर्त्या अनुत्तरायाः सम्यक्संबोधेर्, अमितायुषैव तथागतेन परिपाचिताः पूर्वबोधिसत्त्वचर्याश् चरन्तास्, ताश् च सुखावत्यां लोकधाताव्

उपपद्य पूर्वप्रणिधानचर्याः परिपूरयिष्यन्ति. तस्यां च वेलायाम् अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः. विविधानि च प्रातिहार्याणि संदृश्यन्ति, जानुमात्रं च मन्दरवपुष्पैः पृथिव्यां संस्तृतम् अभूत्. दिव्यमानुषिकानि च तूर्याणि संवादितान्य् अभूवन्. अनुमोदकाशब्देन च यावद् अकनिष्ठभवनं विज्ञप्तम् अभूत्. इदम् अवोचद् भगवान् आत्तमना, अजितो बोधिसत्त्वो महासत्त्व आयुष्मांश् चानन्दः, सा च सर्वावती पर्षत् सदेवमानुष्यासुरगन्धर्वश् च लोको भगवतो भाषितम् प्67 अभ्यनन्दन्न् इति. भगवतो ऽमिताभस्य गुणपरिकीर्तनं बोधिसत्त्वानाम् अवैवर्त्तिकभूमिप्रवेशः. अमिताभस्य सुखावती-व्यूह- परिवर्तः समाप्तः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.