Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh A-hàm · Thanh văn thừa

नगरोपमसूत्र

Thông tin
GRETIL — G. Bongard-Levin, D. Boucher, T. Fukita, K. Wille: "The Nagaropamasūtra: An Apotropaic Text from the Saṃyuktāgama. A Transliteration, Reconstruction, and Translation of the Central Asian Sanskrit Manuscripts", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Göttingen 1996 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 7-131. = NagSū.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नगरोपमसूत्र

reconstructed text of the nagaropamasūtra according to one of the ms traditions, namely the pelliot/stein manuscript

i. canonical text

nagsū i.1 evaṃ mayā śrutam ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme ─ sht 154 (beginning of ms) opens here as follows: (śrāva)styā(ṃ) nidānaṃ pūrvvaṃ me bhi[kṣavaḥ] sa(ṃ)[b](odhim).

नग्सू i.2 तत्र भगवान् भिक्षून् आमन्त्रयति स्म ─ पूर्वं मे भिक्षवो अनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहसिगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि

नग्सू i.3 कृच्छ्रं बतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि अथ च पुनर् इमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ─

नग्सू i.4 तस्य ममैतद् अभवत् ─ कस्मिन् नु सति जरामरणं भवति किंप्रत्ययं च पुनर् जरामरणं तस्य मम योनिशो मनसिकुर्वत एवं यथाभूतस्याभिसमय उदपादि ─ जात्यां सत्यां जरामरणं भवति ─ जातिप्रत्ययञ् च पुनर् जरामरणम् ─

nagsū i.5 tasya mamaitad abhavat ─ kasmiṃ nu sati jātir bhavati ─ kiṃpratyayā ca punar jātiḥ ─ tasya mama yoniśo manasikurvata evaṃ yathābhūtasyābhisamaya udapādi ─ bhave sati jātir bhavati bhavapratyayā ca punar jātiḥ we should note that our reconstructed text here (from end of 119v6 to beginning of 120r1) has many more akṣaras than the gap would allow for. because our reconstructed text almost certainly must represent something close to the original text, we have supposed that the scribe's eye in all likelihood skipped from the first yathābhūtasyābhi- which would have concluded 119v6 down to -samaya udapādi which would have begun 120r1. the reconstructed text is based upon hoernle no.149.x.33 [= or.15009/670] v1 4 and sht 154.

नग्सू i.6 तस्य ममैतद् अभवत् कस्मिं नु सति भवो भवति ─ किंप्रत्ययश् च पुनर् भवः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ उपादाने सति भवो भवति उपादानप्रत्ययश् च पुनर् भवः

नग्सू i.7 तस्य ममैतद् अभवत् कस्मिं नु सति उपादानं भवति किंप्रत्ययं च पुनर् उपादानं तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ तृष्णायां सत्यां उपादानं भवति तृष्णाप्रत्ययञ् च पुनर् उपादानं

नग्सू i.8 तस्य ममैतद् अभवत् कस्मिं नु सति तृष्णा भवति किंप्रत्यया च पुनस् तृष्णा तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ वेदनायां सत्यां तृष्णा भवति वेदनाप्रत्यया च पुनस् तृष्णा ─

नग्सू i.9 तस्य ममैतद् अभवत् कस्मिं नु सति वेदना भवति किंप्रत्यया च पुनर् वेदना तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ स्पर्शे सति वेदना भवति ─ स्पर्शप्रत्यया च पुनर् वेदना ─

नग्सू i.10 तस्य ममैतद् अभवत् कस्मिं नु सति स्पर्शो भवति किंप्रत्ययश् च पुनः स्पर्शः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ षडायतने सति स्पर्शो भवति षडायतनप्रत्ययश् च पुनः स्पर्शः

नग्सू i.11 तस्य ममैतद् अभवत् कस्मिं नु सति षडायतनं भवति किंप्रत्ययं च पुनः षडायतनं तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ नामरूपे सति षडायतनं भवति नामरूपप्रत्ययञ् च पुनः षडायतनं

नग्सू i.12 तस्य ममैतद् अभवत् कस्मिं नु सति नामरूपं भवति किंप्रत्ययञ् च पुनर् नामरूपं तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ विज्ञाने सति नामरूपं भवति विज्ञानप्रत्ययञ् च पुनर् नामरूपं

तस्य ममैतद् अभवत् कस्मिं नु सति विज्ञानं भवति किंप्रत्ययं च पुनर् विज्ञानं तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ नामरूपे सति विज्ञानं भवति नामरूपप्रत्ययं च पुनर् विज्ञानं

तस्य मम विज्ञानात् प्रत्युदावर्तते मानसं नातः परतो व्यतिवर्तते

nagsū i.13 14 the reason for skipping numbers 13 and 14 is that in following tripāṭhī's paragraphing, we have not adopted his reconstruction of the pratītyasamutpāda formula here to twelve aṅgas. see introduction section iv.c for further discussion.

नग्सू i.15 यद् उत नामरूपप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भव भवप्रत्यया जातिर् जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ─ //

नग्सू i.16 तस्य ममैतद् अभवत् कस्मिन् न्व् असति जरामरणं न भवति ─ कस्य निरोधाज् जरामरणनिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि जात्याम् असत्यां जरामरणं न भवति जातिनिरोधाज् जरामरणनिरोधः

नग्सू i.17 तस्य ममैतद् अभवत् कस्मिन् न्व् असति जातिर् न भवति ─ कस्य निरोधाज् जातिनिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ भवे असति जातिर् न भवति भवनिरोधाज् जातिनिरोधः

नग्सू i.18 तस्य ममैतद् अभवत् कस्मिन् न्व् असति भवो न भवति ─ कस्य निरोधाद् भवनिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ उपादाने असति भवो न भवति उपादाननिरोधाद् भवनिरोधः

नग्सू i.19 तस्य ममैतद् अभवत् कस्मिन् न्व् असति उपादानं न भवति कस्य निरोधाद् उपादाननिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि तृष्णायाम् असत्याम् उपादानं न भवति तृष्णानिरोधाद् उपादाननिरोधः

नग्सू i.20 तस्य ममैतद् अभवत् कस्मिन् न्व् असति तृष्णा न भवति कस्य निरोधात् तृष्णानिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ वेदनायाम् असत्यां तृष्णा न भवति वेदनानिरोधात् तृष्णानिरोधः

नग्सू i.21 तस्य ममैतद् अभवत् कस्मिन् न्व् असति वेदना न भवति कस्य निरोधाद् वेदनानिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ स्पर्शे असति वेदना न भवति स्पर्शनिरोधाद् वेदनानिरोधः

नग्सू i.22 तस्य ममैतद् अभवत् कस्मिन् न्व् असति स्पर्शो न भवति कस्य निरोधात् स्पर्शनिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ षडायतने असति स्पर्शो न भवति षडायतननिरोधात् स्पर्शनिरोधः

नग्सू i.23 तस्य ममैतद् अभवत् कस्मिन् न्व् असति षडायतनं न भवति कस्य निरोधात् षडायतननिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ नामरूपे असति षडायतनं न भवति नामरूपनिरोधात् षडायतननिरोधः

नग्सू i.24 तस्य ममैतद् अभवत् कस्मिन् न्व् असति नामरूपं न भवति कस्य निरोधान् नामरूपनिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ विज्ञाने असति नामरूपं न भवति विज्ञाननिरोधान् नामरूपनिरोधः

नग्सू i.25 तस्य ममैतद् अभवत् कस्मिन् न्व् असति विज्ञानं न भवति कस्य निरोधाद् विज्ञाननिरोधः तस्य मम योनिशो मनसिकुर्वतः एवं यथाभूतस्याभिसमय उदपादि ─ संस्कारेष्व् असत्सु विज्ञानं न भवति संस्कारनिरोधाद् विज्ञाननिरोधः

nagsū i.26 tasya mamaitad abhavat kasmin nv asati saṃskārā na bhavanti kasya nirodhāt saṃskāranirodhaḥ tasya mama yoniśo manasikurvataḥ evaṃ yathābhūtasyābhisamaya udapādi ─ avidyāyām asatyāṃ saṃskārā na bhavaṃti avidyānirodhāt saṃskāranirodhaḥ p.s. bleu 67(1)v2 and sht 420, folio 7r3 (nidsa, transliteration no. 109) have following phrase: ity avidyānirodhā(t saṃskāranirodhaḥ).

नग्सू i.27 संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधान् नामरूपनिरोधः नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधः भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणनिरोधः शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति //

nagsū i.28 tasya mamaitad abhavad adhigato me paurāṇo mārgaḥ paurāṇo vartma paurāṇī puṭā pūrvakairṣibhir yātānuyātā the classical sanskrit form, which we have used throughout the reconstructed portions of our text, would of course be -kair ṛṣi-. however the ms does not allow space for that many akṣaras, so we have adopted the form used elsewhere in the pelliot/stein ms. see note 9 of the translation for further remarks.

nagsū i.29 tadyathā puruṣaḥ araṇye pravaṇe anvāhiṇḍaṃ adhigacchet paurāṇaṃ mārgaṃ paurāṇaṃ vartmaṃ paurāṇīṃ puṭāṃ pūrvakair manuṣyair yātānuyātā ─ sa ta(m a)nugacchet sa tam anugacchaṃ sa tatra paśyet paurāṇaṃ mārgaṃ paurāṇaṃ nagaraṃ paurāṇīṃ rājadhānīm ārāmasaṃpannāṃ vanasaṃpannāṃ puṣkariṇīsaṃpannāṃ śubhāṃ dāpavatīṃ ramaṇīyāṃ paśyet paurāṇaṃ mārgaṃ: omit paurāṇaṃ mārgaṃ, cf. next paragraph.

नग्सू i.30 तस्यैवं स्याद् यन् न्व् अहं गत्वा राज्ञे आरोचयेयं अथ स पुरुषो राज्ञे गत्वा आरोचयेद् यत् खलु देव जानीयाः इहाहम् अद्राक्षम् अरण्ये प्रवणे अन्वाहिण्डं पौराणं मार्गं पौराणं वर्त्म पौराणीं पुटां पूर्वकैर् मनुष्यैर् यातानुयातां सो ऽहं तम् अनुगतवां सो ऽहं तम् अनुगच्छन्न् अद्राक्षं पौराणं नगरं पौराणीं राजधानीम् आरामसंपन्नां वनसंपन्नां पुष्करिणीसंपन्नां शुभां दापवतीं रमणीयां तां देवो नगरीं मापयतु

नग्सू i.31 अथ स राजा तां नगरीं मापयेत् सा च स्याद् अपरेण समयेन राजधानी ऋद्धा च स्फीता च क्षेमा च सुभीक्षा चाकीर्णबहुजनमनुष्या च ─

नग्सू i.32 एवम् एवा भिक्षव अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैर्षिभिर् यातानुयाता एवम् एवा: रेअद् एवम् एव

नग्सू i.33 कतमो ऽसौ पौराणो मार्गः पौराणं वर्त्मः पौराणी पुटा पूर्वकैर्षिभिर् यातानुयाता :

नग्सू i.34 यद् उतार्याष्टाङ्गो मार्गः तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिर् एवाष्टमः

nagsū i.35 at least one ms (sht 787 = nidsa transliteration no. 127.2) inserts the following sentence after evāṣṭamaḥ: (ayam a)sau [bhi]kṣavaḥ paurāṇo mārgaḥ paur(āṇaṃ va)[rtma] paurāṇī pūṭā pūrvakai ṛṣibhir yātānuyā(tā); cf. also the mūlasarvāstivāda-vinaya citation [v. näther, c. vogel, and k. wille, "the final leaves of the pravrajyāvastu portion of the vinayavastu manuscript found near gilgit, part 1, saṃgharakṣitāvadāna", in: sanskrit-texte aus dem buddhistischen kanon: neuentdeckungen und neueditionen iii, göttingen 1996 (sanskrit-wörterbuch der buddhistischen texte aus den turfan-funden, beiheft 6), p. 260]. this sentence constitutes par. 35 in tripāṭhī's edition, but since it is missing in the pelliot/stein ms, we have likewise omitted this paragraph here.

नग्सू i.36 सो ऽहं तम् अनुगतवां सो ऽहं तम् अनुगच्छं जरामरणम् अद्राक्षं जरामरणसमुदयं जरामरणनिरोधं जरामरणनिरोधगामिनीं प्रतिपदम् अद्राक्षम्

nagsū i.37 evaṃ jātibhavopādānatṛṣṇāvedanāsparśaṣaḍāyatananāmarūpavijñānaṃ saṃskārān adrākṣaṃ saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadam adrākṣaṃ p.s. bleu 67(3)r4ff. preserves a fully elaborated text instead of this more truncated passage: jātim adrākṣaṃ jātisamu(daya)ṃ jā(t)i(n)i(ro)dhaṃ jātinirodhagāminī⟨ṃ⟩ pratipadam adrākṣa(ṃ) ─ bhava(m adrākṣaṃ bhavasamuda)(5)yaṃ bhavanirodhaṃ bhavanirodhagāminī⟨ṃ⟩ pr(atipadam adrākṣaṃ ─ u)pādānam adrākṣaṃ upādānasamudayaṃ u(p)ā(dānanirodham upādāna)(3v1)(ni)r(odha)gāminī⟨ṃ⟩ pratipadam adrākṣaṃ ─ tṛ(ṣṇām adrākṣaṃ tṛṣṇāsam)ud(a)y(aṃ) tṛṣṇān(i)r(o)dha(ṃ) tṛ(ṣ)ṇ(ā)n(i)rodhagāminī⟨ṃ⟩ prat(ipadam adrākṣaṃ ─ sparśa)(2)(m a)drākṣaṃ sparśasamudayaṃ spa(r)ś(anirodhaṃ sparśani)rodhagāminīṃ pratipadam adrākṣaṃ ─ ṣaḍāyatanam a(drākṣaṃ ṣaḍāyatana)(3)(sa)mudayaṃ ṣaḍāyatananirodhaṃ ṣaḍāyatananirodhagāminīṃ pratipadam adrākṣaṃ ─ n(ā)m(a)rūpam a(drākṣaṃ nāmarūpasa)(4)mudayaṃ nāmarūpanirodhaṃ nāmarūpanirodhagā(mi)nīṃ pratipadam adrākṣaṃ ─ vijñānam adrā(kṣa)ṃ vij(ñ)āna(samudayaṃ vijñānaniro)(5)(dha)ṃ vij(ñ)ānanirodhagāminī(ṃ) p(r)atipadam adrākṣaṃ ─ saṃ(skāra)m adrakṣaṃ saṃskārasamudayaṃ . . . ; cf. p.s. bleu 77v3 6, 78v3 5, 276vx z, petits frags. 693, 1295, and 1297; sht 157, fragment br1 2 and 787r4 v4.

नग्सू i.38 सो ऽहम् इमां धर्मां स्वयम् अभिज्ञायाभिसंबुद्ध्या भिक्षूणाम् आरोचयामि भिक्षूणीनाम् उपासकानाम् उपासिकानां नानातीर्थ्यश्रमणब्राह्मणचरकपरिव्राजकानां

नग्सू i.39 तत्र भिक्षुर् अपि सम्यक्प्रतिपद्यमानः आराधको भवति आराधयति न्यायं धर्मं कुशलं भिक्षुण्य् अप्य् उपासको ऽप्य् उपासिकापि सम्यक्प्रतिपद्यमाना आराधिका भवति ─ आराधयति न्यायं धर्मं कुशलम्* ─

nagsū i.40 evam idaṃ brahmacaryaṃ vaistārikaṃ bhavati bahujanyaṃ pṛthubhūtaṃ yāvad devamanuṣyebhyaḥ samyaksuprakāśitam* // krot. 9(2)r1 2 continues: idam avocat* bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam* // nagaropamasūtraṃ samāpta // //; line 3 contains a colophon for which see transliteration, canonical text, v. cf. also sht 152, fragment ev2 3. the end of the canonical text is missing from the pelliot/stein ms. we have reconstructed this section on the basis of pet 1v5 2r1, sht 157, fragment br4 5, 167r6 v2, 179r5 v2, and 616v3 4; cf. also the mūlasarvāstivāda-vinayacitation [v. näther, c. vogel, and k. wille, "the final leaves of the pravrajyāvastu portion of the vinayavastu manuscript found near gilgit, part 1, saṃgharakṣitāvadāna", in: sanskrit-texte aus dem buddhistischen kanon: neuentdeckungen und neueditionen iii, göttingen 1996 (sanskrit-wörterbuch der buddhistischen texte aus den turfan-funden, beiheft 6), p. 261].

ii. appendix the first part of the appendix has been adapted from the petrovsky ms which is the only extant ms that preserves, almost entirely, that part of the appendix not found in the pelliot/stein ms. because our reconstruction of the canonical text and appendix is intended to represent a single ms tradition (as reunited from the london and paris collections), the section of the petrovsky ms that has been used to reconstruct the appendix has been given in bold. the paragraphing is more or less arbitrary.

नग्सू ii.1 प्रत्युपस्थितस्य पुनर् नगरोपमस्य व्याकरणस्य ब्रह्मा सनत्कुमारो ऽतिक्रान्तवर्णः अतिक्रान्तायां रात्र्यां येन भगवांस् तेनोपगाम उपेत्य भगवत्पाद् औ शिरसा वन्दित्वा एकान्ते अस्थाद् एकान्तस्थितः ब्रह्मा सनत्कुमारो भगवतः पुरतः गाथां बभाषे //

aho vidyā mahāvidyā kleśaviṣapraghātanī bhāṣitaṃ te mahāvīra bhūteṣu hy anukampakaḥ pratyupasthitasya: this reconstruction is tentative since we have no way to determine the akṣara(s) immediately preceding upasthitasya in pet. 2r2. in the beginning of this line about seven more akṣaras are missing, but at least the first six almost certainly belong to the end of the canonical text. sht 179 gives a different transition between the canonical text and the appendix: ... samyaksuprakāśitam* samanantaraparyāvasitasya vyak(ara)ṇasya ⟨nagaropama⟩m ity adhivacanam* // // atha brahma sanatkumāro ...

नग्सू ii.2 अस्ति मारिष पुरस्तिमायां दिशि द्वे महाराक्षसि प्रतिवसतश् चन्द्रप्रभा नाम सूर्यप्रभा च .. सहस्रपरिवारे ते मानुषिकां प्रजां रक्षां गुप्तिं बलं फाषं सुखस्पर्शविहारतायै परिपालयतः पथगता अप्य् उत्पथगता अपि आरामगता अपि शुन्यागारगता अपि चतस्रः परिषदो भिक्षुर् भिक्षुणी उपासका उपासिकास् तदन्यांश् च मनुष्यांस् तत्रेमे मन्त्रपदा भवन्ति येन तेषाम् आकर्षणं भवति तद्यथा वड : सरड : चप्पुष : शरङ्गुली (फाषं स्)उखस्(प)र्श्(अ)विहारतायै: स्ह्त् 176, fol. 20v3 21र्2 रेअद्स् फाष(सुखस्प)र्[शवि]हारतायां परिपालयंति पथगते(नापि उ)त्पथगतेनापि आरामगतेनापि शुण्यागारगतेनापि चतुर्णा[ं] परिषदां भिक्षु⟨णा⟩ं भिक्षुण्[ई]नाम् उपासकानाम् उपासिकानां तदन्येषां च मनुष्याणां. चप्पुष: स्ह्त् 176, fol.21r4 रेअद्स् चपुट.

nagsū ii.3 kariṣye māriṣa imasya nagaropamasya vyākaraṇasya siddhiṃ rakṣaṃ bandhaṃ parigraham ─ tadyathā purime ─ kapphe ─ parumele ─ rimele ─ parāpare ─ purāpure ─ kukumati kṣīramati ─ kururu ─ mururu ─ kurarā ─ murarā ─ kānti oṣṭrāpāli ─ ghori gandhāri ─ sopakke ─ capaphari + + + + + purāpuri ─ eṇe ─ meṇe ─ dapphe ─ daḍapphe ─ alasāpati ─ padumāpati kumudāpati svāha // capaphari: it is unclear how many akṣaras are missing at this point. sht 176, fol. 21v2 5 reads these mantrapadas as follows: purime ─ kappe ─ parumele ─ rimele ─ parāpure purāpure ─ kukūmati ─ kṣīramati ─ kururu ─ mururu ─ kururā mururā ─ kānti ─ oṣṭraṣāli ─ ghori gandhāri cori caṇḍāli ─ saupakke ─ capaphari ─ ; p.s. bleu 129ry adds an interlinear insertion below ghori: cori caṇḍali mā de .. ..; cf. also āṭānāṭikasūtra (hoffmann ed., bruchstücke des āṭānāṭikasūtra aus dem zentralasiatischen sanskritkanon der buddhisten, leipzig 1939; repr. with supplement by l. sander, stuttgart 1987), 33ff. and the bhadrakarātriyasūtra, frag. 3b5 in s.f. oldenburg, "otryvki kashgarskikh sanskritskikh rukopisey iz sobraniya n.f. petrovskogo, iii," zvoirao xv (1902 1903): 0116.

नग्सू ii.4 आगमिष्यति मारिष मारः पापीयांस् तस्य पुरत इमे मन्त्रपदा भाषितव्यः बुद्ध श्रेष्ठो न श्रेष्ठस् त्वं नास्ति श्रेष्ठस् तथागतात्* बुद्धो हि श्रेष्ठो लोकस्य धर्मराजो ह्य् अनुत्तरः ─ धर्म श्रेष्ठो न श्रेष्ठस् त्वं नास्ति श्रेष्ठो ऽत्र धर्मतः धर्मो हि श्रेष्ठो लोकस्य विरागोपशमः सुखम्* ─ संघ श्रेष्ठो न श्रेष्ठस् त्वं नास्ति श्रेष्ठो ऽत्र संघतः संघो हि श्रेष्ठो लोकस्य पुण्यक्षेत्रो ह्य् अनुत्तरः //

नग्सू ii.5 अथ पुनर् मारिष नगरोपमं व्याकरणम् विपश्यिनः तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मद्वारो नाम व्याकरणं बभूव ─ कनकमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य अपि धर्मद्वारो नाम व्याकरणं बभूव ─ काश्यपस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अपि धर्मद्वारो नाम व्याकरणं बभूव /

nagsū ii.6 bhagavataḥ punar etarhi śākyamunes tathāgatasyārhataḥ samyaksaṃbuddhasya jarāmaraṇajñāne yathābhūtam abhisaṃbodhāt* jarāmaraṇasamudayajñāne jarāmaraṇanirodhajñāne jarāmaraṇanirodhagāminīpratipajjñāne yathābhūtam abhisaṃbodhāt* evaṃ jātir bhavam upādānaṃ tṛṣṇā vedanā sparśaḥ ṣaḍāyatanaṃ nāmarūpaṃ vijñānaṃ saṃskārajñāne yathābhūtam abhisaṃbodhāt* saṃskārasamudayajñāne saṃskāranirodhajñāne saṃskāranirodhagāminīpratipajjñāne yathābhūtam abhisaṃbodhāt* .. .. .. .. p. .. rmā .i .. .. .. + + + + + + + + + + + ..[t]* nagaropamaṃ vyākaraṇaṃ pratipajjñāne: sht 154, fragm. ev1 reads -pratipadajñāne (for -pratipadājñāne). evaṃ jātir bhavam: sht 154, frags. d and e preserve a fully elaborated version of this passage, repeating the complete formula for each member of the pratītyasamutpāda.

नग्सू ii.7 तस्माद् अस्य व्याकरणस्य + + + + + + + + + + .. धर्मसंबोधो नगरोपमम् इत्य् अधिवचनम्*

nagsū ii.8 asmiṃ khalu nagaropame vyākaraṇe bhāṣyamāṇe ayaṃ trisahasramahāsahasro lokadhātus tṛkṛtvā kampitaḥ saṃkampitaḥ saṃprakaṃpitaḥ kṣubhitaḥ saṃkṣubhitaḥ saṃprakṣubhitaḥ vyathitas saṃvyathitaḥ saṃpravyathitaḥ calitaḥ saṃcalitaḥ saṃpracalitaḥ pet. 5v4 5 reads in a somewhat different order: saṃkampitaḥ saṃprakampitaḥ calitaḥ saṃcalitaḥ saṃpra(calitaḥ vyathitaḥ saṃvyathitaḥ) (5v5) saṃpravyathitaḥ kṣubhitaḥ saṃkṣubhitaḥ saṃprakṣubhitaḥ.

नग्सू ii.9 तस्मात् तर्हि मारिष इदं नगरोपमं व्याकरणं भिक्षूणां शास्तारम् एवानुमन्तव्यं सत्कर्त्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं उपनिःशृत्य विहर्तव्यं भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानां देवानां नागानां यक्षाणां राक्षसानां प्रेतानां कुम्भाण्डानां पिशाचानां इदं व्याकरणं शास्तारम् एवानुमन्तव्यं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं उपनिःशृत्य विहर्तव्यम्*

नग्सू ii.10 इदं च पुनर् मारिष नगरोपमं व्याकरणं कामावचरैर् देवैः कोटिनयुतशतसहस्रैर् भाषितं चाभ्यनुमोदितं चाष्टाविंशतिभिर् यक्षसेनापतिभिर् भाषितं चाभ्यनुमोदितं च चतुर्भिश् च महाराजाभिर् भाषितं चाभ्यनुमोदितं च शक्रेण देवेन्द्रेण भाषितं चाभ्यनुमोदितं च ब्राह्मणः-सभापतिना भाषितं चाभ्यनुमोदितं च शुद्धावसैर् देवैः कोटिनयुतशतसहस्रैर् भाषितं चाभ्यनुमोदितं च अतीतैश् च नदीगङ्गवालुकाप्राख्यैस् तथागतैर् अरहद्भिः सम्यक्संबुद्धैर् भाषितं अनागता अपि नदीगङ्गवालुकाप्राख्यास् तथागता अर्हंतः सम्यक्संबुद्धा भाषिष्यन्ति भगवान् अप्य् एतर्हि प्रत्युत्पन्ने ध्वनि तथागतो ऽर्हं सम्यक्संबुद्धो भाषितवान्* ब्राह्मणः-सभापतिना: स्ह्त् 176, fol. 30r3 रेअद्स् ब्रह्मा सभापतिना. शुद्धावसैर्: पेत्. 4व्3 अन्द् स्ह्त् 176, fol. 30r4 रेअद् शुद्धावसैश् च. नदीगङ्गवालुकाप्राख्यैस्: स्ह्त् 176, fol. 30v1 रेअद्स् -वालिक-.

नग्सू ii.11 यः कश्चिन् मारिष इदं व्याकरणं उद्देक्ष्यति धारयिष्यति ग्राहयिष्यति वाचयिष्यति स्वाध्यायिष्यति पर्यवाप्स्यति मनसिकरिष्यति सः अहिना न दंक्ष्यति विषं काये न तरिष्यति शस्त्रं न क्रमिष्यति नोदकेन कालं करिष्यति अग्निना न दङ्क्ष्यति राजानो ऽपि न प्रसहीष्यंति चोरा न मुषिष्यंति राजकुलमध्यगतो ऽपि स्वस्तिनोत्तरिष्यति गाढबन्धनबद्धो ऽपि मोक्ष्यति आसन्नासमागतो ऽपि अभ्यवकाशगतो भविष्यति सर्वे च कृत्यकाखोर्दमन्त्रवेताड प्रतिविगमिष्यंति सर्वे च भूतगणा न विहेठयिष्यंति अन्यत्र पूर्वकेण कर्मणा इदं विदित्वा ब्रह्मा सनत्कुमारो भगवत्पादौ शिरसा वन्दित्वा भगवन्तं तृप्रदक्षिणीकृत्वा तत्रैवान्तर्हितः //

daṃkṣya(ti): sht 1275r5 reads daśyiṣyati; cf. also sht 906, frag. c (fol. 21)r6: daśiṣyati. daṅkṣyati: pet. 6r3 reads dhaṃkṣya(ti). viditvā: pet. 6v1 reads vaditvā which must be the correct reading.

नग्सू ii.12 अथ चत्वारो महाराजानः अतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजग्मुर् उपेत्य भगवत्पादौ शिरसा वन्दित्वा यथा स्वकस्वकां दिशं निःशृत्य एकान्ते तस्थूर् एकान्तस्थितः तस्थूर्: रेअद् तस्थुर्

नग्सू ii.13 अथ पुरस्तिमायां दिशं निःशृत्य धृतिराष्ट्रो महाराजा येन भगवांस् तेनांजलिं प्रणम्य भगवन्तं गाथया अभ्यभाषत्* अहो विद्या महाविद्या क्लेशविषप्रघातनी भाषिता ते महावीर निर्ज्वरा ज्वरनाशनी ─ दिशं: स्ह्त् 875र्3 रेअद्स् पुरस्तिमां दिशि. ज्वरनाशनी: स्ह्त् 875व्2 3 रेअद्स् ज्वरशामिनी :.

नग्सू ii.14 अस्ति मारिषा पुरस्तिमायां दिशायां द्वे महाराक्षसि प्रतिवसतः सुग्रिणी नाम वसुग्रिणी च पंचसहस्रपरिवारे ते मानुषिकां प्रजां रक्षां गुप्तिं बलं फाषं सुखस्पर्शविहारतायै परिपालयतः पथगता अपि उत्पथगता अपि आरामगता अपि शुण्यागारगता अपि चतस्रः परिषदो भिक्षूणां भिक्षुणीनां उपासकानां उपासिकानांस् तदन्यंश् च मनुष्याणां तत्रेमे मंत्रपदा भवन्ति येन तेषाम् आकर्षणं भवति तद्यथा विजिनि विजिनि ─ संस्कृनि ─ विज्ञिनि विज्ञिनि ─ क्षीरमति कुलमति // फल + + .. .. .. .ए .. रापुरे ─ एने मेने ─ दप्फे दडप्फे ─ अलसापति ─ पदुमापति कुमुदापति स्वाहा ─ //

diśāyāṃ: cf. sht 875v4 and elsewhere in p.s. bleu 434 (fol. 129r6, 129v4, etc.); p.s. petits frags. 340+606rw reads [di]ś[i].

नग्सू ii.15 आगमिष्यति मारिष मारः पापीयांस् तस्य पुरतः इमे मन्त्रपदा भाषितव्यः बुद्ध श्रेष्ठो न श्रेष्ठस् त्वं पूर्ववत्* विस्तरेण त्रयः श्लोकः 3

नग्सू ii.16 यः कश्चिन् मारिष इदं नगरोपमं व्याकरणं उद्देक्ष्यति धारयिष्यति पूर्ववद् यावद् अन्यत्र पूर्वकेन कर्मणा //

nagsū ii.17 atha dakṣiṇān diśaṃ niḥśṛtya virūḍhako mahārājā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavaṃtaṃ gāthayā abhyabhāṣat* aho vidyā mahāvidyā kleśaviṣapraghātanī bhāṣitā te mahāvīra nirjvarā jvaranāśanī ─ virūḍhako: p.s. petits frag. 1365vb starts here. at 1365vb we find [kumbh].[ṇḍ]. cf. ārya-mahā-māyūrī vidyā-rājñī (shūyo takubo ed.), 16.6: dakṣiṇāyām ānanda diśāyāṃ virūḍhako nāma kumbhāṇḍamahārājā prativasati sma.

नग्सू ii.18 अस्ति मारिषा दक्षिणायां दिशायां द्वे महाराक्षसि प्रतिवसतः चण्डिनी नाम उपचण्डिनी च पंचसहस्रपरिवारे ते मानुषिकां प्रजां पूर्ववद् यावत् तत्रेमे मन्त्रपदा भवन्ति येन तेषाम् आकर्षणं भवति तद्यथा नामिनि ─ नामिनि ─ षडिनि षडिनि ─ स्पर्शिनि स्पर्शिनि स्वाहा //

svāhā //: mac. 1.5 continues with what was surely part of this formulaic text: āgamiṣyati māriṣa māraḥ pāpīyāṃ(1.6)(s tasya purata ime mantrapadā bhāṣitavyāḥ buddhaḥ śreṣṭho na śreṣṭhas tva)ṃ p(ūr)v(a)vad (y)āvad anyatra (pūrva)(2.1)(keṇa karmaṇā //). sht 906, frag. c (fol. 21) and sht 909, frag. b both appear to include not only the text as represented in the mac. ms, but a fully elaborated version thereof (i.e. without the abbreviation pūrvavad yāvad).

नग्सू ii.19 अथ पश्चिमायां दिशं निःशृत्य विरूपाक्षो महाराजा येन भगवांस् तेनांजलिं प्रणम्य भगवन्तं गाथया अभ्यभाषत्* //

अहो विद्या महाविद्या क्लेशविषप्रघातनी भाषिता ते महावीर निर्ज्वरा ज्वरनाशनी /

नग्सू ii.20 अस्ति मारिष पश्चिमायां दिशायां द्वे महाराक्षसि प्रतिवसतः दृश्या नाम महादृश्या च पंचसहस्रपरिवारे ते मानुषिकां प्रजां रक्षां गुप्तिं बलं फाषं सुखस्पर्शविहारतयै पूर्ववद् यावत् तत्रेमे मन्त्रपदा भवन्ति येन तेषाम् आकर्षणं भवति तद्यथा वेदिनि ─ वेदिनि ─ तृष्णिनि ─ तृष्णिनि ─ उपादिनि ─ स्वाहा //

diśāyāṃ: mac. 2.3 reads diśi. vedini: sht 905, frag. a (fol. 28)r.1 2 appears to have two more mantrapadas preceding this one: 1 [s]v[ā]ha ─ kuśi ─ kuśikesari ///; 2 la mālinī svāha ─ tadya + ///. upādini: sht 905, frag. a (fol. 28)r3 reads upādānini.

नग्सू ii.21 आगमिष्यति मारिष मारः पापीयांस् तस्य पुरत इमे मंत्रपदा भाषितव्यः बुद्ध श्रेष्ठो न श्रेष्ठस् त्वं नास्ति श्रेष्ठस् तथागतः पूर्ववद् यावद् अन्यत्र पूर्वकेण कर्मणा //

pūrvavad yāvad: sht 905, frag. a (fol. 28)r4ff. preserves a fully elaborated text (i.e. without the abbreviation).

नग्सू ii.22 अथोत्तरायां दिशि निःशृत्य वैश्रवणो महाराजा : येन भगवांस् तेनांजलिं प्रणम्य भगवन्तं गाथया अभ्यभाषत्* अहो विद्या महाविद्या क्लेशविषप्रघातनी भाषिता ते महावीर निर्ज्वरा ज्वरनाशनी अथोत्तरायां: मच्. 3.2 रेअद्स् अथोत्तरान्.

नग्सू ii.23 सन्ति मारिष उत्तरायान् दिशि भौमा यक्षाः अनेकयक्षसहस्राः परिवार प्रतिवसंति ते मानुषिकां प्रजां रक्षां गुप्तिं बलं फाषं सुखस्पर्शविहारतायै परिपालयन्ति ─ पथगता अपि उत्पथगता अपि आरामगता अपि शुन्यागारगता अपि चतस्रः परिषदो भिक्षूणां भिक्षुणीनां उपासकानां उपासिकानांस् तदन्यांश् च मनुष्याणां तत्रेमे मंत्रपदा भवंति येन तेषाम् आकर्षणं भवति तद्यथा भाविनि भाविनि ─ जातिनि ─ जातिनि ─ मरणि ─ मरणि ─ स्वाहा //

anekayakṣasahasrāḥ: mac. 3.5 reads anekasa(hasrāḥ). manuṣyāṇāṃ: mac. 4.2 reads (bhi)k(ṣu)ṇī (u)pāsakā upā(s)ik(ā)s tadanyāś ca manuṣyāṃ. tatreme: sht 909, frag. a (fol. 61)r1 starts here and reads (ra)kṣāṃ bhavatu paritraṃ parigrahaṃ paripālanam* (ta)treme. bhāvini: sht 905, frag. b (fol. 30)v1 2 has some mantrapadas preceding: 1 tadyathā ha + + + ///; 2 ri ─ riraṃsa[v]. + + ///.

nagsū ii.24 āgamiṣyati māriṣa māraḥ pāpīyāṃs tasya purata ime mantrapadā bhāṣitavyaḥ buddha śreṣṭho na śreṣṭhas tvaṃ nāsti śreṣṭhas tathāgatāt* buddho hi śreṣṭho lokasya dharmarājo hy anuttaraḥ ─ dharma śreṣṭho na śreṣṭhas tvaṃ nāsti śreṣṭho 'tra dharmataḥ dharmo hi śreṣṭho lokasya virāgopaśamaḥ sukham* saṃgha śreṣṭho na śreṣṭhas tvaṃ nāsti śreṣṭho 'tra saṃghataḥ saṃgho hi śreṣṭho lokasya puṇyakṣetro hy anuttara 3 ime mantrapadā: sht 909, frag. a (fol. 61)r3 reads mantrā. tathāgatāt*: mac. 4.5 reads nāsti buddhena (śreṣṭhataḥ); sht 909, frag. a (fol. 61)r3 5 reads nāsti buddhe[n].; cf. sht 905, frag. a (fol. 28)r5; 906, frag. c (fol. 21)r2. dharmataḥ: sht 909, frag. a (fol. 61)r4 reads nāsti dharmeṇa ś[r]eṣ(ṭh)a[ta ─]. virāgopaśamaḥ: mac. 5.1 and sht 909, frag. a (fol. 61)r5 read virāgopaśamaṃ. saṃghataḥ: sht 909, frag. a (fol. 61)r5 reads nāsti saṅghena śreṣṭhat..

नग्सू ii.25 यः कश्चिन् मारिष इदं नगरोपमं व्याकरणं उद्देक्ष्यति धारयिष्यति ग्राहयिष्यति वाचयिष्यति स्वाध्यायिष्यति पर्यवाप्स्यति मनसिकरिष्यति स अहिना न दंक्ष्यति विषं काये न तरिष्यति ─ शस्त्रं न क्रमिष्यति ─ नोदकेन कालं करिष्यति अग्निना न धक्ष्यति राजानो ऽपि न प्रसहिष्यंति चोरा न मुषिष्यंति ─ राजकुलमध्यगतो ऽपि स्वस्तिनोत्तरिष्यति ─ गाढबन्धनबद्धो ऽपि मुच्चिष्यति आसन्नसमागतो ऽपि ─ अभ्यवकाशगतो भविष्यति : सर्वे च कृत्यकाखोर्दमन्त्रवेताड प्रतिविगमिष्यंति सर्वे च भूतगणा न विहेठयिष्यंति अन्यत्र पूर्वकेण कर्मणा //

sa ahinā: sht 909, frag. a (fol. 61)v2 reads tasy(ā)h(inā). mucciṣyati: mac. 6.1 reads (m)okṣya(ti). kṛtyakākhordamantravetāḍa: mac. 6.2 reads [k].k[kh]or[d]a-; sht 909, frag. a (fol. 61)v5 reads kakkho[r].; sht 1675r3 reads [k]ākkhorda-.

nagsū ii.26 atha catvāro mahārājānaḥ yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam idam avocat* aho subhāṣitā vidyā śākyasiṃhena dhīmatā ─ dvādaśāṅgasamāyuktā sarvabhūtanivāraṇī sarve devā nāgā yakṣā pretā kuṃbhāṇḍā kāḍapūtanā yo ime atikramen maṃtrāṃ mahārājñā mukhanirgatām* saptadhāsya sphalen mūrdhā daśadhā hṛdayaṃ sphalet* (i)dam avocat*: although the ms clearly reads avocat*, we would expect an aor.pl. here: avocan. kāḍapūtanā: mac. 6.6 reads kādapūtanā; sht 971v2 reads kaṭapuṭaḥ. yo ime: unmetrical! mac. 6.6 reads: me [dativus ethicus]. mukhanirgatām*: sht 1675v1 reads (mah)ārājamukhanirgat(ām). sphalet*: sht 971v3 reads (saptadhā)sya phalen murddhna dāśata hṛtayaṃ ///; mac. 7.1 reads hṛdayaṃ phalet* and in sht 1675v2 is preserved yaṃ [phale].

नग्सू ii.27 इदं वदित्वा चत्वारो महाराजानो भगवत्पादौ शिरसा वन्दित्वा भगवन्तं तृप्रदक्षिणीकृत्वा तत्रैवान्तर्हित

नग्सू ii.28 अथ भगवांस् तस्या एव रात्र्या अत्ययात् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्* निषद्य भगवां भिक्षून् आमन्त्रयति ─ यथाद्य भिक्षवो ब्रह्मा सनत्कुमारो ऽतिक्रान्तवर्णः अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रन्तः उपेत्य मम पादौ शिरसा वन्दित्वा एकान्ते अस्थाद् एकान्तस्थितः ब्रह्मा सनत्कुमारो मम पुरतो गाथां बभाषे अहो विद्या महाविद्या पूर्ववद् यावद्

नग्सू ii.29 इदं वदित्वा ब्रह्मा सनत्कुमारो मम पादौ शिरसा वन्दित्वा मां तृः प्रदक्षिणीं कृत्वा तत्रैवान्तर्हितः

nagsū ii.30 atha catvāro mahārājāno 'tikrāntavarṇā abhikrāntāyāṃ rātryāṃ yenāhaṃ tenopasaṃkrānta upetya mama pādau śirasā vanditvā yathā svakāṃ niḥśṛtya ekānte tasthur ekāntasthita pūrvavad yāvad tenopasaṃkrānta: read -krāntā. (yathā svakā)ṃ: mac 8.4 reads [s]va[k]asva .. .. [ś]i⟨ṃ⟩; cf. nagsū ii.12: yathā svakasvakāṃ diśaṃ niśṛtya. ekāntasthita: read -sthitā.

नग्सू ii.31 इदं वदित्वा चत्वारो महाराजानो मम पादौ शिरसा वन्दित्वा मां तृः प्रदक्षिणीकृत्वा तत्रैवान्तर्हिताः उद्गृह्णत भिक्षवो नगरोपमं व्याकरणं धारयत ग्राहयत वाचयत पर्यवाप्नुत मनसिकुरुत तत् कस्माद् धेतो अर्थोपसंहितं नगरोपमं व्याकरणं धर्मोपसंहितं आदिब्रह्मचर्यस्याभिज्ञायै संबोधये निर्वाणाय संवर्तते ─ वाचयत: मच्. 9.1 रेअद्स् स्वध्यायत.

नग्सू ii.32 अथ च पुनः कुलपुत्रेण श्रद्धाप्रव्रजितेन श्रद्धया अगाराद् अनगारिकं प्रव्रजित्वा नगरोपमं व्याकरणं साधु च सुष्ठु च उद्गृह्णितव्यं धारयितव्यं ग्राहयितव्यं वाचयितव्यं स्वाध्यायितव्यं पर्यवाप्तव्यं मनसीकर्तव्यं इदम् अवोचत्* //

avocat*: the text in the stein ms ends here but mac. 9.6 gives the standard closing: bhagavāṃ aptamanās (for āptamanasas) te bhi(kṣavo bhagavato bhāṣitam abhyanandan).

नगरोपमं सूत्रं समाप्तः रक्षं भवतु पृष्तगौतमाय : //

pṛṣtagautamāya : //: mac. 10.1 has a colophon in tocharian b: nagaropam* āra po solme paik(ā)m(ai) [end of nagaropama(sūtra). i have written everything completely]. the authors would like to thank dr. k.t. schmidt (saarbrücken) for this restoration and translation.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.