Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

मूलमध्यमककारिका

Tác giả
नागार्जुन
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नागार्जुन: मूलमध्यमककारिका

न स्वतो नापि परतो न द्वाभ्यां नाप्य् अहेतुतः / उत्पन्ना जातु विद्यन्ते भावाः क्व चन के चन // mmk_1.1 //

चत्वारः प्रत्यया हेतुर् आरम्बणम् अनन्तरम् / तथैवाधिपतेयं च प्रत्ययो नास्ति पञ्चमः // mmk_1.2 //

न हि स्वभावो भावानां प्रत्ययादिषु विद्यते / अविद्यमाने स्वभावे परभावो न विद्यते // mmk_1.3 //

क्रिया न प्रत्ययवती नाप्रत्ययवती क्रिया / प्रत्यया नाक्रियावन्तः क्रियावन्तश् च सन्त्य् उत // mmk_1.4 //

उत्पद्यते प्रतीत्येमान् इतीमे प्रत्ययाः किल / यावन् नोत्पद्यत इमे तावन् नाप्रत्ययाः कथम् // mmk_1.5 //

नैवासतो नैव सतः प्रत्ययो ऽर्थस्य युज्यते / असतः प्रत्ययः कस्य सतश् च प्रत्ययेन किम् // mmk_1.6 //

न सन् नासन् न सद् असन् धर्मो निर्वर्तते यदा / कथं निर्वर्तको हेतुर् एवं सति हि युज्यते // mmk_1.7 //

अनारम्बण एवायं सन् धर्म उपदिश्यते / अथानारम्बणे धर्मे कुत आरम्बणं पुनः // mmk_1.8 //

अनुत्पन्नेषु धर्मेषु निरोधो नोपपद्यते / नानन्तरम् अतो युक्तं निरुद्धे प्रत्ययश् च कः // mmk_1.9 //

भावानां निःस्वभावानां न सत्ता विद्यते यतः / सतीदम् अस्मिन् भवतीत्य् एतन् नैवोपपद्यते // mmk_1.10 //

न च व्यस्तसमस्तेषु प्रत्ययेष्वस्ति तत् फलम् / प्रत्ययेभ्यः कथं तच् च भवेन् न प्रत्ययेषु यत् // mmk_1.11 //

अथासद् अपि तत् तेभ्यः प्रत्ययेभ्यः प्रवर्तते / अप्रत्ययेभ्यो ऽपि कस्मान् नाभिप्रवर्तते फलम् // mmk_1.12 //

फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः / फलमस्वमयेभ्यो यत्तत्प्रत्ययमयं कथम् // mmk_1.13 //

तस्मान् न प्रत्ययमयं नाप्रत्ययमयं फलम् / संविद्यते फलाभावात् प्रत्ययाप्रत्ययाः कुतः // mmk_1.14 //

गतं न गम्यते तावद् अगतं नैव गम्यते / गतागतविनिर्मुक्तं गम्यमानं न गम्यते // mmk_2.1 //

चेष्टा यत्र गतिस् तत्र गम्यमाने च सा यतः / न गते नागते चेष्टा गम्यमाने गतिस् ततः // mmk_2.2 //

गम्यमानस्य गमनं कथं नामोपपत्स्यते / गम्यमानं विगमनं यदा नैवोपपद्यते // mmk_2.3 //

गम्यमानस्य गमनं यस्य तस्य प्रसज्यते / ऋते गतेर् गम्यमानं गम्यमानं हि गम्यते // mmk_2.4 //

गम्यमानस्य गमने प्रसक्तं गमनद्वयम् / येन तद् गम्यमानं च यच् चात्र गमनं पुनः // mmk_2.5 //

द्वौ गन्तारौ प्रसज्येते प्रसक्ते गमनद्वये / गन्तारं हि तिरस्कृत्य गमनं नोपपद्यते // mmk_2.6 //

गन्तारं चेत् तिरस्कृत्य गमनं नोपपद्यते / गमने ऽसति गन्ताथ कुत एव भविष्यति // mmk_2.7 //

गन्ता न गच्छति तावद् अगन्ता नैव गच्छति / अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ गच्छति // mmk_2.8 //

गन्ता तावद् गच्छतीति कथम् एवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // mmk_2.9 //

पक्षो गन्ता गच्छतीति यस्य तस्य प्रसज्यते / गमनेन विना गन्ता गन्तुर् गमनम् इच्छतः // mmk_2.10 //

गमने द्वे प्रसज्येते गन्ता यद्युत गच्छति / गन्तेति चाज्यते येन गन्ता सन् यच् च गच्छति // mmk_2.11 //

गते नारभ्यते गन्तुं गन्तुं नारभ्यते ऽगते / नारभ्यते गम्यमाने गन्तुम् आरभ्यते कुह // mmk_2.12 //

न पूर्वं गमनारम्भाद् गम्यमानं न वा गतम् / यत्रारभ्येत गमनम् अगते गमनं कुतः // mmk_2.13 //

गतं किं गम्यमानं किम् अगतं किं विकल्प्यते / अदृश्यमान आरम्भे गमनस्यैव सर्वथा // mmk_2.14 //

गन्ता न तिष्ठति तावद् अगन्ता नैव तिष्ठति / अन्यो गन्तुर् अगन्तुश् च कस् तृतीयो ऽथ तिष्ठति // mmk_2.15 //

गन्ता तावत् तिष्ठतीति कथम् एवोपपत्स्यते / गमनेन विना गन्ता यदा नैवोपपद्यते // mmk_2.16 //

न तिष्ठति गम्यमानान् न गतान् नागताद् अपि / गमनं संप्रवृत्तिश् च निवृत्तिश् च गतेः समा // mmk_2.17 //

यद् एव गमनं गन्ता स एवेति न युज्यते / अन्य एव पुनर् गन्ता गतेर् इति न युज्यते // mmk_2.18 //

यद् एव गमनं गन्ता स एव हि भवेद् यदि / एकीभावः प्रसज्येत कर्तुः कर्मण एव च // mmk_2.19 //

अन्य एव पुनर् गन्ता गतेर् यदि विकल्प्यते / गमनं स्याद् ऋते गन्तुर् गन्ता स्याद् गमनाद् ऋते // mmk_2.20 //

एकीभावेन वा सिद्धिर् नानाभावेन वा ययोः / न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते // mmk_2.21 //

गत्या ययाज्यते गन्ता गतिं तां स न गच्छति / यस्मान् न गतिपूर्वो ऽस्ति कश्चिद् किंचिद् धि गच्छति // mmk_2.22 //

गत्या ययाज्यते गन्ता ततो ऽन्यां स न गच्छति / गती द्वे नोपपद्येते यस्माद् एके तु गन्तरि // mmk_2.23 //

सद्भूतो गमनं गन्ता त्रिप्रकारं न गच्छति / नासद्भूतो ऽपि गमनं त्रिप्रकारं स गच्छति // mmk_2.24 //

गमनं सदसद्भूतः त्रिप्रकारं न गच्छति / तस्माद् गतिश् च गन्ता च गन्तव्यं च न विद्यते // mmk_2.25 //

दर्शनं श्रवणं घ्राणं रसनं स्पर्शनं मनः / इन्द्रियाणि षड् एतेषां द्रष्टव्यादीनि गोचरः // mmk_3.1 //

स्वम् आत्मानं दर्शनं हि तत् तम् एव न पश्यति / न पश्यति यद् आत्मानं कथं द्रक्ष्यति तत् परान् // mmk_3.2 //

न पर्याप्तो ऽग्निदृष्टान्तो दर्शनस्य प्रसिद्धये / सदर्शनः स प्रत्युक्तो गम्यमानगतागतैः // mmk_3.3 //

नापश्यमानं भवति यदा किं चन दर्शनम् / दर्शनं पश्यतीत्य् एवं कथम् एतत् तु युज्यते // mmk_3.4 //

पश्यति दर्शनं नैव नैव पश्यत्य् अदर्शनम् / व्याख्यातो दर्शनेनैव द्रष्टा चाप्य् अवगम्यताम् // mmk_3.5 //

द्रष्टा नास्त्य् अतिरस्कृत्य तिरस्कृत्य च दर्शनम् / द्रष्टव्यं दर्शनं चैव द्रष्टर्य् असति ते कुतः // mmk_3.6 //

प्रतीत्य मातापितरौ यथोक्तः पुत्रसंभवः / चक्षूरूपे प्रतीत्यैवमुक्तो विज्ञानसंभवः // mmk_3.7 //

द्रष्टव्यदर्शनाभावाद् विज्ञानादिचतुष्टयम् / नास्तीत्य् उपादानादीनि भविष्यन्ति पुनः कथम् // mmk_3.8 //

व्याख्यातं श्रवणं घ्राणं रसनं स्पर्शनं मनः / दर्शनेनैव जानीयाच् छ्रोतृश्रोतव्यकादि च // mmk_3.9 //

रूपकारणनिर्मुक्तं न रूपम् उपलभ्यते / रूपेणापि न निर्मुक्तं दृश्यते रूपकारणम् // mmk_4.1 //

रूपकारणनिर्मुक्ते रूपे रूपं प्रसज्यते / आहेतुकं न चास्त्य् अर्थः कश्चिद् आहेतुकः क्व चित् // mmk_4.2 //

रूपेण तु विनिर्मुक्तं यदि स्याद् रूपकारणम् / अकार्यकं कारणं स्याद् नास्त्य् अकार्यं च कारणम् // mmk_4.3 //

रूपे सत्य् एव रूपस्य कारणं नोपपद्यते / रूपे ऽसत्य् एव रूपस्य कारणं नोपपद्यते // mmk_4.4 //

निष्कारणं पुना रूपं नैव नैवोपपद्यते / तस्माद् रूपगतान् कांश्चिन् न विकल्पान् विकल्पयेत् // mmk_4.5 //

न कारणस्य सदृशं कार्यम् इत्य् उपपद्यते / न कारणस्यासदृशं कार्यम् इत्य् उपपद्यते // mmk_4.6 //

वेदनाचित्तसंज्ञानां संस्काराणां च सर्वशः / सर्वेषाम् एव भावानां रूपेणैव समः क्रमः // mmk_4.7 //

विग्रहे यः परीहारं कृते शून्यतया वदेत् / सर्वं तस्यापरिहृतं समं साध्येन जायते // mmk_4.8 //

व्याख्याने य उपालम्भं कृते शून्यतया वदेत् / सर्वं तस्यानुपालब्धं समं साध्येन जायते // mmk_4.9 //

नाकाशं विद्यते किंचित् पूर्वम् आकाशलक्षणात् / अलक्षणं प्रसज्येत स्यात् पूर्वं यदि लक्षणात् // mmk_5.1 //

अलक्षणो न कश्चिच् च भावः संविद्यते क्व चित् / असत्य् अलक्षणे भावे क्रमतां कुह लक्षणम् // mmk_5.2 //

नालक्षणे लक्षणस्य प्रवृत्तिर् न सलक्षणे / सलक्षणालक्षणाभ्यां नाप्य् अन्यत्र प्रवर्तते // mmk_5.3 //

लक्षणासंप्रवृत्तौ च न लक्ष्यम् उपपद्यते / लक्ष्यस्यानुपपत्तौ च लक्षणस्याप्य् असंभवः // mmk_5.4 //

तस्मान् न विद्यते लक्ष्यं लक्षणं नैव विद्यते / लक्ष्यलक्षणनिर्मुक्तो नैव भावो ऽपि विद्यते // mmk_5.5 //

अविद्यमाने भावे च कस्याभावो भविष्यति / भावाभावविधर्मा च भावाभावाव् अवैति कः // mmk_5.6 //

तस्मान्न भावो नाभावो न लक्ष्यं नापि लक्षणम् / आकाशम् आकाशसमा धातवः पञ्च ये ऽपरे // mmk_5.7 //

अस्तित्वं ये तु पश्यन्ति नास्तित्वं चाल्पबुद्धयः / भावानां ते न पश्यन्ति द्रष्टव्योपशमं शिवम् // mmk_5.8 //

रागाद् यदि भवेत् पूर्वं रक्तो रागतिरस्कृतः / तं प्रतीत्य भवेद् रागो रक्ते रागो भवेत् सति // mmk_6.1 //

रक्ते ऽसति पुना रागः कुत एव भविष्यति / सति वासति वा रागे रक्ते ऽप्य् एष समः क्रमः // mmk_6.2 //

सहैव पुनर् उद्भूतिर् न युक्ता रागरक्तयोः / भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् // mmk_6.3 //

नैकत्वे सहभावो ऽस्ति न तेनैव हि तत् सह / पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति // mmk_6.4 //

एकत्वे सहभावश् चेत् स्यात् सहायं विनापि सः / पृथक्त्वे सहभावश् चेत् स्यात् सहायं विनापि सः // mmk_6.5 //

पृथक्त्वे सहभावश् च यदि किं रागरक्तयोः / सिद्धः पृथक्पृथग्भावः सहभावो यतस् तयोः // mmk_6.6 //

सिद्धः पृथक्पृथग्भावो यदि वा रागरक्तयोः / सहभावं किमर्थम् तु परिकल्पयसे तयोः // mmk_6.7 //

पृथग् न सिध्यतीत्य् एवं सहभावं विकाङ्क्षसि / सहभावप्रसिद्ध्यर्थं पृथक्त्वं भूय इच्छसि // mmk_6.8 //

पृथग्भावाप्रसिद्धेश् च सहभावो न सिध्यति / कतमस्मिन् पृथग्भावे सहभावं सतीच्छसि // mmk_6.9 //

एवं रक्तेन रागस्य सिद्धिर् न सह नासह / रागवत् सर्वधर्माणां सिद्धिर् न सह नासह // mmk_6.10 //

यदि संस्कृत उत्पादस् तत्र युक्ता त्रिलक्षणी / अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम् // mmk_7.1 //

उत्पादाद्यास् त्रयो व्यस्ता नालं लक्षणकर्मणि / संस्कृतस्य समस्ताः स्युर् एकत्र कथम् एकदा // mmk_7.2 //

उत्पादस्थितिभङ्गानाम् अन्यत् संस्कृतलक्षणम् / अस्ति चेद् अनवस्थैवं नास्ति चेत् ते न संस्कृताः // mmk_7.3 //

उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम् / उत्पादोत्पादम् उत्पादो मौलो जनयते पुनः // mmk_7.4 //

उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि / मौलेनाजनितस् तं ते स कथं जनयिष्यति // mmk_7.5 //

स ते मौलेन जनितो मौलं जनयते यदि / मौलः स तेनाजनितस् तम् उत्पादयते कथम् // mmk_7.6 //

अयम् उत्पाद्यमानस् ते कामम् उत्पादयेद् इमम् / यदीमम् उत्पादयितुम् अजातः शक्नुयाद् अयम् // mmk_7.7 //

प्रदीपः स्वपरात्मानौ संप्रकाशयते यथा / उत्पादः स्वपरात्मानाव् उभाव् उत्पादयेत् तथा // mmk_7.8 //

प्रदीपे नान्धकारो ऽस्ति यत्र चासौ प्रतिष्ठितः / किं प्रकाशयते दीपः प्रकाशो हि तमोवधः // mmk_7.9 //

कथम् उत्पद्यमानेन प्रदीपेन तमो हतम् / नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा // mmk_7.10 //

अप्राप्यैव प्रदीपेन यदि वा निहतं तमः / इहस्थः सर्वलोकस्थं स तमो निहनिष्यति // mmk_7.11 //

प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि / तमो ऽपि स्वपरात्मानौ छादयिष्यत्य् असंशयम् // mmk_7.12 //

अनुत्पन्नो ऽयम् उत्पादः स्वात्मानं जनयेत् कथम् / अथोत्पन्नो जनयते जाते किं जन्यते पुनः // mmk_7.13 //

नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथं चन / उत्पद्यते तद् आख्यातं गम्यमानगतागतैः // mmk_7.14 //

उत्पद्यमानम् उत्पत्ताव् इदं न क्रमते यदा / कथम् उत्पद्यमानं तु प्रतीत्योत्पत्तिम् उच्यते // mmk_7.15 //

प्रतीत्य यद् यद् भवति तत् तच् छान्तं स्वभावतः / तस्माद् उत्पद्यमानं च शान्तम् उत्पत्तिर् एव च // mmk_7.16 //

यदि कश्चिद् अनुत्पन्नो भावः संविद्यते क्व चित् / उत्पद्येत स किं तस्मिन् भाव उत्पद्यते ऽसति // mmk_7.17 //

उत्पद्यमानम् उत्पादो यदि चोत्पादयत्य् अयम् / उत्पादयेत् तम् उत्पादम् उत्पादः कतमः पुनः // mmk_7.18 //

अन्य उत्पादयत्य् एनं यद्य् उत्पादो ऽनवस्थितिः / अथानुत्पाद उत्पन्नः सर्वम् उत्पद्यतां तथा // mmk_7.19 //

सतश् च तावद् उत्पत्तिर् असतश् च न युज्यते / न सतश् चासतश् चेति पूर्वम् एवोपपादितम् // mmk_7.20 //

निरुध्यमानस्योत्पत्तिर् न भावस्योपपद्यते / यश् चानिरुध्यमानस् तु स भावो नोपपद्यते // mmk_7.21 //

नास्थितस् तिष्ठते भावः स्थितो भावो न तिष्ठति / न तिष्ठते तिष्ठमानः को ऽनुत्पन्नश् च तिष्ठति // mmk_7.22 //

स्थितिर् निरुध्यमानस्य न भावस्योपपद्यते / यश् चानिरुध्यमानस् तु स भावो नोपपद्यते // mmk_7.23 //

जरामरणधर्मेषु सर्वभावेषु सर्वदा / तिष्ठन्ति कतमे भावा ये जरामरणं विना // mmk_7.24 //

स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते / उत्पादस्य यथोत्पादो नात्मना न परात्मना // mmk_7.25 //

निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते / तथा निरुध्यमानं च किम् अजातं निरुध्यते // mmk_7.26 //

स्थितस्य तावद् भावस्य निरोधो नोपपद्यते / नास्थितस्यापि भावस्य निरोध उपपद्यते // mmk_7.27 //

तयैवावस्थयावस्था न हि सैव निरुध्यते / अन्ययावस्थयावस्था न चान्यैव निरुध्यते // mmk_7.28 //

यदैव सर्वधर्माणाम् उत्पादो नोपपद्यते / तदैवं सर्वधर्माणां निरोधो नोपपद्यते // mmk_7.29 //

सतश् च तावद् भावस्य निरोधो नोपपद्यते / एकत्वे न हि भावश् च नाभावश् चोपपद्यते // mmk_7.30 //

असतो ऽपि न भावस्य निरोध उपपद्यते / न द्वितीयस्य शिरसश् छेदनं विद्यते यथा // mmk_7.31 //

न स्वात्मना निरोधो ऽस्ति निरोधो न परात्मना / उत्पादस्य यथोत्पादो नात्मना न परात्मना // mmk_7.32 //

उत्पादस्थितिभङ्गानाम् असिद्धेर् नास्ति संस्कृतम् / संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्य् असंस्कृतम् // mmk_7.33 //

यथा माया यथा स्वप्नो गन्धर्वनगरं यथा / तथोत्पादस् तथा स्थानं तथा भङ्ग उदाहृतम् // mmk_7.34 //

सद्भूतः कारकः कर्म सद्भूतं न करोत्ययम् / कारको नाप्य् असद्भूतः कर्मासद्भूतम् ईहते // mmk_8.1 //

सद्भूतस्य क्रिया नास्ति कर्म च स्याद् अकर्तृकम् / सद्भूतस्य क्रिया नास्ति कर्ता च स्याद् अकर्मकः // mmk_8.2 //

करोति यद्य् असद्भूतो ऽसद्भूतं कर्म कारकः / अहेतुकं भवेत् कर्म कर्ता चाहेतुको भवेत् // mmk_8.3 //

हेताव् असति कार्यं च कारणं च न विद्यते / तदभावे क्रिया कर्ता कारणं च न विद्यते // mmk_8.4 //

धर्माधर्मौ न विद्येते क्रियादीनाम् असंभवे / धर्मे चासत्य् अधर्मे च फलं तज्जं न विद्यते // mmk_8.5 //

फले ऽसति न मोक्षाय न स्वर्गायोपपद्यते / मार्गः सर्वक्रियाणां च नैरर्थक्यं प्रसज्यते // mmk_8.6 //

कारकः सदसद्भूतः सदसत् कुरुते न तत् / परस्परविरुद्धं हि सच् चासच् चैकतः कुतः // mmk_8.7 //

सता च क्रियते नासन् नासता क्रियते च सत् / कर्त्रा सर्वे प्रसज्यन्ते दोषास् तत्र त एव हि // mmk_8.8 //

नासद्भूतं न सद्भूतः सदसद्भूतम् एव वा / करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः // mmk_8.9 //

नासद्भूतो ऽपि सद्भूतं सदसद्भूतम् एव वा / करोति कारकः कर्म पूर्वोक्तैर् एव हेतुभिः // mmk_8.10 //

करोति सदसद्भूतो न सन् नासच् च कारकः / कर्म तत् तु विजानीयात् पूर्वोक्तैर् एव हेतुभिः // mmk_8.11 //

प्रतीत्य कारकः कर्म तं प्रतीत्य च कारकम् / कर्म प्रवर्तते नान्यत् पश्यामः सिद्धिकारणम् // mmk_8.12 //

एवं विद्याद् उपादानं व्युत्सर्गाद् इति कर्मणः / कर्तुश् च कर्मकर्तृभ्यां शेषान् भावान् विभावयेत् // mmk_8.13 //

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / भवन्ति यस्य प्राग् एभ्यः सो ऽस्तीत्य् एके वदन्त्युत // mmk_9.1 //

कथं ह्य् अविद्यमानस्य दर्शनादि भविष्यति / भावस्य तस्मात् प्राग् एभ्यः सो ऽस्ति भावो व्यवस्थितः // mmk_9.2 //

दर्शनश्रवणादिभ्यो वेदनादिभ्य एव च / यः प्राग् व्यवस्थितो भावः केन प्रज्ञप्यते ऽथ सः // mmk_9.3 //

विनापि दर्शनादीनि यदि चासौ व्यवस्थितः / अमून्य् अपि भविष्यन्ति विना तेन न संशयः // mmk_9.4 //

अज्यते केनचित् कश्चित् किंचित् केन चिद् अज्यते / कुतः किंचिद् विना कश्चित् किंचित् किंचिद् विना कुतः // mmk_9.5 //

सर्वेभ्यो दर्शनादिभ्यः कश्चित् पूर्वो न विद्यते / अज्यते दर्शनादिनाम् अन्येन पुनर् अन्यदा // mmk_9.6 //

सर्वेभ्यो दर्शनादिभ्यो यदि पूर्वो न विद्यते / एकैकस्मात् कथं पूर्वो दर्शनादेः स विद्यते // mmk_9.7 //

द्रष्टा स एव स श्रोता स एव यदि वेदकः / एकैकस्माद् भवेत् पूर्वम् एवं चैतन् न युज्यते // mmk_9.8 //

द्रष्टान्य एव श्रोतान्यो वेदको ऽन्यः पुनर् यदि / सति स्याद् द्रष्टरि श्रोता बहुत्वं चात्मनां भवेत् // mmk_9.9 //

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / भवन्ति येभ्यस् तेष्व् एष भूतेष्व् अपि न विद्यते // mmk_9.10 //

दर्शनश्रवणादीनि वेदनादीनि चाप्य् अथ / न विद्यते चेद् यस्य स न विद्यन्त इमान्य् अपि // mmk_9.11 //

प्राक् च यो दर्शनादिभ्यः सांप्रतं चोर्ध्वम् एव च / न विद्यते ऽस्ति नास्तीति निवृत्तास् तत्र कल्पनाः // mmk_9.12 //

यद् इन्धनं स चेद् अग्निर् एकत्वं कर्तृकर्मणोः / अन्यश् चेद् इन्धनाद् अग्निर् इन्धनाद् अप्य् ऋते भवेत् // mmk_10.1 //

नित्यप्रदीप्त एव स्याद् अप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यम् एवं चाकर्मकः सति // mmk_10.2 //

परत्र निरपेक्षत्वाद् अप्रदीपनहेतुकः / पुनरारम्भवैयर्थ्यं नित्यदीप्तः प्रसज्यते // mmk_10.3 //

तत्रैतत् स्याद् इध्यमानम् इन्धनं भवतीति चेत् / केनेध्यताम् इन्धनं तत् तावन्मात्रम् इदं यदा // mmk_10.4 //

अन्यो न प्राप्स्यते ऽप्रप्तो न धक्ष्यत्य् अदहन् पुनः / न निर्वास्यत्य् अनिर्वाणः स्थास्यते वा स्वलिङ्गवान् // mmk_10.5 //

अन्य एवन्धनाद् अग्निर् इन्धनं प्राप्नुयाद् यदि / स्त्री संप्राप्नोति पुरुषं पुरुषश् च स्त्रियं यथा // mmk_10.6 //

अन्य एवेन्धनाद् अग्निर् इन्धनं कामम् आप्नुयात् / अग्नीन्धने यदि स्याताम् अन्योन्येन तिरस्कृते // mmk_10.7 //

यदीन्धनम् अपेक्ष्याग्निर् अपेक्ष्याग्निं यदीन्धनम् / कतरत् पूर्वनिष्पन्नं यद् अपेक्ष्याग्निर् इन्धनम् // mmk_10.8 //

यदीन्धनम् अपेक्ष्याग्निर् अग्नेः सिद्धस्य साधनम् / एवं सतीन्धनं चापि भविष्यति निरग्निकम् // mmk_10.9 //

यो ऽपेक्ष्य सिध्यते भावस् तम् एवापेक्ष्य सिध्यति / यदि यो ऽपेक्षितव्यः स सिध्यतां कम् अपेक्ष्य कः // mmk_10.10 //

यो ऽपेक्ष्य सिध्यते भावः सो ऽसिद्धो ऽपेक्षते कथम् / अथाप्य् अपेक्षते सिद्धस् त्व् अपेक्षास्य न युज्यते // mmk_10.11 //

अपेक्ष्येन्धनम् अग्निर् न नानपेक्ष्याग्निर् इन्धनम् / अपेक्ष्येन्धनम् अग्निं न नानपेक्ष्याग्निम् इन्धनम् // mmk_10.12 //

आगच्छत्य् अन्यतो नाग्निर् इन्धने ऽग्निर् न विद्यते / अत्रेन्धने शेषम् उक्तं गम्यमानगतागतैः // mmk_10.13 //

इन्धनं पुनर् अग्निर् न नाग्निर् अन्यत्र चेन्धनात् / नाग्निर् इन्धनवान् नाग्नाव् इन्धनानि न तेषु सः // mmk_10.14 //

अग्नीन्धनाभ्यां व्याख्यात आत्मोपादानयोः क्रमः / सर्वो निरवशेषेण सार्धं घटपटादिभिः // mmk_10.15 //

आत्मनश् च सतत्त्वं ये भावानां च पृथक् पृथक् / निर्दिशन्ति न तान् मन्ये शासनस्यार्थकोविदान् // mmk_10.16 //

पूर्वा प्रज्ञायते कोटिर् नेत्य् उवाच महामुनिः / संसारो ऽनवराग्रो हि नास्यादिर् नापि पश्चिमम् // mmk_11.1 //

नैवाग्रं नावरं यस्य तस्य मध्यं कुतो भवेत् / तस्मान् नात्रोपपद्यन्ते पूर्वापरसहक्रमाः // mmk_11.2 //

पूर्वं जातिर् यदि भवेज् जरामरणम् उत्तरम् / निर्जरा मरणा जातिर् भवेज् जायेत चामृतः // mmk_11.3 //

पश्चाज् जातिर् यदि भवेज् जरामरणम् आदितः / अहेतुकम् अजातस्य स्याज् जरामरणं कथम् // mmk_11.4 //

न जरामरणं चैव जातिश् च सह युज्यते / म्रियेत जायमानश् च स्याच् चाहेतुकतोभयोः // mmk_11.5 //

यत्र न प्रभवन्त्य् एते पूर्वापरसहक्रमाः / प्रपञ्चयन्ति तां जातिं तज् जरामरणं च किम् // mmk_11.6 //

कार्यं च कारणं चैव लक्ष्यं लक्षणम् एव च / वेदना वेदकश् चैव सन्त्य् अर्था ये च के चन // mmk_11.7 //

पूर्वा न विद्यते कोटिः संसारस्य न केवलम् / सर्वेषाम् अपि भावानां पूर्वा कोटी न विद्यते // mmk_11.8 //

स्वयं कृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् / दुःखम् इत्य् एक इच्छन्ति तच् च कार्यं न युज्यते // mmk_12.1 //

स्वयं कृतं यदि भवेत् प्रतीत्य न ततो भवेत् / स्कन्धान् इमान् अमी स्कन्धाः संभवन्ति प्रतीत्य हि // mmk_12.2 //

यद्य् अमीभ्य इमे ऽन्ये स्युर् एभ्यो वामी परे यदि / भवेत् परकृतं दुःखं परैर् एभिर् अमी कृताः // mmk_12.3 //

स्वपुद्गलकृतं दुःखं यदि दुःखं पुनर् विना / स्वपुद्गलः स कतमो येन दुःखं स्वयं कृतम् // mmk_12.4 //

परपुद्गलजं दुःखं यदि यस्मै प्रदीयते / परेण कृत्वा तद् दुःखं स दुःखेन विना कुतः // mmk_12.5 //

परपुद्गलजं दुःखं यदि कः परपुद्गलः / विना दुःखेन यः कृत्वा परस्मै प्रहिणोति तत् // mmk_12.6 //

स्वयं कृतस्याप्रसिद्धेर् दुःखं परकृतं कुतः / परो हि दुःखं यत् कुर्यात् तत् तस्य स्यात् स्वयं कृतम् // mmk_12.7 //

न तावत् स्वकृतं दुःखं न हि तेनैव तत् कृतम् / परो नात्मकृतश् चेत् स्याद् दुःखं परकृतं कथम् // mmk_12.8 //

स्याद् उभाभ्यां कृतं दुःखं स्याद् एकैककृतं यदि / पराकारास्वयंकारं दुःखम् अहेतुकं कुतः // mmk_12.9 //

न केवलं हि दुःखस्य चातुर्विध्यं न विद्यते / बाह्यानाम् अपि भावानां चातुर्विध्यं न विद्यते // mmk_12.10 //

तन् मृषा मोषधर्म यद् भगवान् इत्य् अभाषत / सर्वे च मोषधर्माणः संस्कारास् तेन ते मृषा // mmk_13.1 //

तन् मृषा मोषधर्म यद् यदि किं तत्र मुष्यते / एतत् तूक्तं भगवता शून्यतापरिदीपकम् // mmk_13.2 //

भावानां निःस्वभावत्वम् अन्यथाभावदर्शनात् / नास्वभावश् च भावो ऽस्ति भावानां शून्यता यतः // mmk_13.3 //

कस्य स्याद् अन्यथाभावः स्वभावश् चेन् न विद्यते / कस्य स्याद् अन्यथाभावः स्वभावो यदि विद्यते // mmk_13.4 //

तस्यैव नान्यथाभावो नाप्य् अन्यस्यैव युज्यते / युवा न जीर्यते यस्माद् यस्माज् जीर्णो न जीर्यते // mmk_13.5 //

तस्य चेद् अन्यथाभावः क्षीरम् एव भवेद् दधि / क्षीराद् अन्यस्य कस्यचिद् दधिभावो भविष्यति // mmk_13.6 //

यद्य् अशून्यं भवेत् किंचित् स्याच् छून्यम् इति किं चन / न किंचिद् अस्त्य् अशून्यं च कुतः शून्यं भविष्यति // mmk_13.7 //

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं जिनैः / येषां तु शून्यतादृष्टिस् तान् असाध्यान् बभाषिरे // mmk_13.8 //

द्रष्टव्यं दर्शनं द्रष्टा त्रीण्य् एतानि द्विशो द्विशः / सर्वशश् च न संसर्गम् अन्योन्येन व्रजन्त्य् उत // mmk_14.1 //

एवं रागश् च रक्तश् च रञ्जनीयं च दृश्यताम् / त्रैधेन शेषाः क्लेशाश् च शेषाण्य् आयतनानि च // mmk_14.2 //

अन्येनान्यस्य संसर्गस् तच् चान्यत्वं न विद्यते / द्रष्टव्यप्रभृतीनां यन् न संसर्गं व्रजन्त्य् अतः // mmk_14.3 //

न च केवलम् अन्यत्वं द्रष्टव्यादेर् न विद्यते / कस्यचित् केनचित् सार्धं नान्यत्वम् उपपद्यते // mmk_14.4 //

अन्यद् अन्यत् प्रतीत्यान्यन् नान्यद् अन्यद् ऋते ऽन्यतः / यत् प्रतीत्य च यत् तस्मात् तद् अन्यन् नोपपद्यते // mmk_14.5 //

यद्य् अन्यद् अन्यद् अन्यस्माद् अन्यस्माद् अप्य् ऋते भवेत् / तद् अन्यद् अन्यद् अन्यस्माद् ऋते नास्ति च नास्त्य् अतः // mmk_14.6 //

नान्यस्मिन् विद्यते ऽन्यत्वम् अनन्यस्मिन् न विद्यते / अविद्यमाने चान्यत्वे नास्त्य् अन्यद् वा तद् एव वा // mmk_14.7 //

न तेन तस्य संसर्गो नान्येनान्यस्य युज्यते / संसृज्यमानं संसृष्टं संस्रष्टा च न विद्यते // mmk_14.8 //

न संभवः स्वभावस्य युक्तः प्रत्ययहेतुभिः / हेतुप्रत्ययसंभूतः स्वभावः कृतको भवेत् // mmk_15.1 //

स्वभावः कृतको नाम भविष्यति पुनः कथम् / अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च // mmk_15.2 //

कुतः स्वभावस्याभावे परभावो भविष्यति / स्वभावः परभावस्य परभावो हि कथ्यते // mmk_15.3 //

स्वभावपरभावाभ्याम् ऋते भावः कुतः पुनः / स्वभावे परभावे च सति भावो हि सिध्यति // mmk_15.4 //

भावस्य चेद् अप्रसिद्धिर् अभावो नैव सिध्यति / भावस्य ह्य् अन्यथाभावम् अभावं ब्रुवते जनाः // mmk_15.5 //

स्वभावं परभावं च भावं चाभावम् एव च / ये पश्यन्ति न पश्यन्ति ते तत्त्वं बुद्धशासने // mmk_15.6 //

कात्यायनाववादे चास्तीति नास्तीति चोभयम् / प्रतिषिद्धं भगवता भावाभावविभाविना // mmk_15.7 //

यद्य् अस्तित्वं प्रकृत्या स्यान् न भवेद् अस्य नास्तिता / प्रकृतेर् अन्यथाभावो न हि जातूपपद्यते // mmk_15.8 //

प्रकृतौ कस्य वासत्याम् अन्यथात्वं भविष्यति / प्रकृतौ कस्य वा सत्याम् अन्यथात्वं भविष्यति // mmk_15.9 //

अस्तीति शाश्वतग्राहो नास्तीत्य् उच्छेददर्शनम् / तस्माद् अस्तित्वनास्तित्वे नाश्रीयेत विचक्षणः // mmk_15.10 //

अस्ति यद् धि स्वभावेन न तन् नास्तीति शाश्वतम् / नास्तीदानीम् अभूत् पूर्वम् इत्य् उच्छेदः प्रसज्यते // mmk_15.11 //

संस्काराः संसरन्ति चेन् न नित्याः संसरन्ति ते / संसरन्ति च नानित्याः सत्त्वे ऽप्य् एष समः क्रमः // mmk_16.1 //

पुद्गलः संसरति चेत् स्कन्धायतनधातुषु / पञ्चधा मृग्यमाणो ऽसौ नास्ति कः संसरिष्यति // mmk_16.2 //

उपादानाद् उपादानं संसरन् विभवो भवेत् / विभवश् चानुपादानः कः स किं संसरिष्यति // mmk_16.3 //

संस्काराणां न निर्वाणं कथं चिद् उपपद्यते / सत्त्वस्यापि न निर्वाणं कथं चिद् उपपद्यते // mmk_16.4 //

न बध्यन्ते न मुच्यन्त उदयव्ययधर्मिणः / संस्काराः पूर्ववत् सत्त्वो बध्यते न न मुच्यते // mmk_16.5 //

बन्धनं चेद् उपादानं सोपादानो न बध्यते / बध्यते नानुपादानः किमवस्थो ऽथ बध्यते // mmk_16.6 //

बध्नीयाद् बन्धनं कामं बन्ध्यात् पूर्वं भवेद् यदि / न चास्ति तच् छेषम् उक्तं गम्यमानगतागतैः // mmk_16.7 //

बद्धो न मुच्यते तावद् अबद्धो नैव मुच्यते / स्यातां बद्धे मुच्यमाने युगपद् बन्धमोक्षणे // mmk_16.8 //

निर्वास्याम्य् अनुपादानो निर्वाणं मे भविष्यति / इति येषां ग्रहस् तेषाम् उपादानमहाग्रहः // mmk_16.9 //

न निर्वाणसमारोपो न संसारापकर्षणम् / यत्र कस् तत्र संसारो निर्वाणं किं विकल्प्यते // mmk_16.10 //

आत्मसंयमकं चेतः परानुग्राहकं च यत् / मैत्रं स धरमस् तद् बीजं फलस्य प्रेत्य चेह च // mmk_17.1 //

चेतना चेतयित्वा च कर्मोक्तं परमर्षिणा / तस्यानेकविधो भेदः कर्मणः परिकीर्तितः // mmk_17.2 //

तत्र यच् चेतनेत्य् उक्तं कर्म तन् मानसं स्मृतम् / चेतयित्वा च यत् तूक्तं तत् तु कायिकवाचिकम् // mmk_17.3 //

वाग्विष्पन्दो ऽविरतयो याश् चाविज्ञप्तिसंज्ञिताः / अविज्ञप्तय एवान्याः स्मृता विरतयस् तथा // mmk_17.4 //

परिभोगान्वयं पुण्यम् अपुण्यं च तथाविधम् / चेतना चेति सप्तैते धर्माः कर्माञ्जनाः स्मृताः // mmk_17.5 //

तिष्ठत्य् आ पाककालाच् चेत् कर्म तन् नित्यताम् इयात् / निरुद्धं चेन् निरुद्धं सत् किं फलं जनयिष्यति // mmk_17.6 //

यो ऽङ्कुरप्रभृतिर् बीजात् संतानो ऽभिप्रवर्तते / ततः फलम् ऋते बीजात् स च नाभिप्रवर्तते // mmk_17.7 //

बीजाच् च यस्मात् संतानः संतानाच् च फलोद्भवः / बीजपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् // mmk_17.8 //

यस् तस्माच् चित्तसंतानश् चेतसो ऽभिप्रवर्तते / ततः फलम् ऋते चित्तात् स च नाभिप्रवर्तते // mmk_17.9 //

चित्ताच् च यस्मात् संतानः संतानाच् च फलोद्भवः / कर्मपूर्वं फलं तस्मान् नोच्छिन्नं नापि शाश्वतम् // mmk_17.10 //

धर्मस्य साधनोपायाः शुक्लाः कर्मपथा दश / फलं कामगुणाः पञ्च धर्मस्य प्रेत्य चेह च // mmk_17.11 //

बहवश् च महान्तश् च दोषाः स्युर् यदि कल्पना / स्याद् एषा तेन नैवैषा कल्पनात्रोपपद्यते // mmk_17.12 //

इमां पुनः प्रवक्ष्यामि कल्पनां यात्र योज्यते / बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् चानुवर्णिताम् // mmk_17.13 //

पत्त्रं यथा ऽविप्रणाशस्तथर्णम् इव कर्म च / चतुर्विधो धातुतः स प्रकृत्याव्याकृतश् च सः // mmk_17.14 //

प्रहाणतो न प्रहेयो भावनाहेय एव वा / तस्माद् अविप्रणाशेन जायते कर्मणां फलम् // mmk_17.15 //

प्रहाणतः प्रहेयः स्यात् कर्मणः संक्रमेण वा / यदि दोषाः प्रसज्येरंस् तत्र कर्मवधादयः // mmk_17.16 //

सर्वेषां विसभागानां सभागानां च कर्मणाम् / प्रतिसंधौ सधातूनाम् एक उत्पद्यते तु सः // mmk_17.17 //

कर्मणः कर्मणो दृष्टे धर्म उत्पद्यते तु सः / द्विप्रकारस्य सर्वस्य विपक्वे ऽपि च तिष्ठति // mmk_17.18 //

फलव्यतिक्रमाद् वा स मरणाद् वा निरुध्यते / अनास्रवं सास्रवं च विभागं तत्र लक्षयेत् // mmk_17.19 //

शून्यता च न चोच्छेदः संसारश् च न शाश्वतम् / कर्मणो ऽविप्रणाशश् च धर्मो बुद्धेन देशितः // mmk_17.20 //

कर्म नोत्पद्यते कस्मान् निःस्वभावं यतस् ततः / यस्माच् च तद् अनुत्पन्नं न तस्माद् विप्रणश्यति // mmk_17.21 //

कर्म स्वभावतश् चेत् स्याच् छाश्वतं स्याद् असंशयम् / अकृतं च भवेत् कर्म क्रियते न हि शाश्वतम् // mmk_17.22 //

अकृताभ्यागमभयं स्यात् कर्माकृतकं यदि / अब्रह्मचर्यवासश् च दोषस्तत्र प्रसज्यते // mmk_17.23 //

व्यवहारा विरुध्यन्ते सर्व एव न संशयः / पुण्यपापकृतोर् नैव प्रविभागश् च युज्यते // mmk_17.24 //

तद् विपक्वविपाकं च पुनर् एव विपक्ष्यति / कर्म व्यवस्थितं यस्मात् तस्मात् स्वाभाविकं यदि // mmk_17.25 //

कर्म क्लेशात्मकं चेदं ते च क्लेशा न तत्त्वतः / न चेत् ते तत्त्वतः क्लेशाः कर्म स्यात् तत्त्वतः कथम् // mmk_17.26 //

कर्म क्लेशाश् च देहानां प्रत्ययाः समुदाहृताः / कर्म क्लेशाश् च ते शून्या यदि देहेषु का कथा // mmk_17.27 //

अविद्यानिवृतो जन्तुस् तृष्णासंयोजनश् च सः / स भोक्ता स च न कर्तुर् अन्यो न च स एव सः // mmk_17.28 //

न प्रत्ययसमुत्पन्नं नाप्रत्ययसमुत्थितम् / अस्ति यस्माद् इदं कर्म तस्मात् कर्तापि नास्त्य् अतः // mmk_17.29 //

कर्म चेन् नास्ति कर्ता च कुतः स्यात् कर्मजं फलम् / असत्य् अथ फले भोक्ता कुत एव भविष्यति // mmk_17.30 //

यथा निर्मितकं शास्ता निर्मिमीत र्द्धिसंपदा / निर्मितो निर्मिमीतान्यं स च निर्मितकः पुनः // mmk_17.31 //

तथा निर्मितकाकारः कर्ता यत् कर्म तत् कृतम् / तद्यथा निर्मितेनान्यो निर्मितो निर्मितस् तथा // mmk_17.32 //

क्लेशाः कर्माणि देहाश् च कर्तारश् च फलानि च / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // mmk_17.33 //

आत्मा स्कन्धा यदि भवेद् उदयव्ययभाग् भवेत् / स्कन्धेभ्यो ऽन्यो यदि भवेद् भवेद् अस्कन्धलक्षणः // mmk_18.1 //

आत्मन्य् असति चात्मीयं कुत एव भविष्यति / निर्ममो निरहंकारः शमाद् आत्मात्मनीनयोः // mmk_18.2 //

निर्ममो निरहंकारो यश् च सो ऽपि न विद्यते / निर्ममं निरहंकारं यः पश्यति न पश्यति // mmk_18.3 //

ममेत्य् अहम् इति क्षीणे बहिर्धाध्यात्मम् एव च / निरुध्यत उपादानं तत्क्षयाज् जन्मनः क्षयः // mmk_18.4 //

कर्मक्लेशक्षयान् मोक्षः कर्मक्लेशा विकल्पतः / ते प्रपञ्चात् प्रपञ्चस् तु शून्यतायां निरुध्यते // mmk_18.5 //

आत्मेत्य् अपि प्रज्ञपितम् अनात्मेत्य् अपि देशितम् / बुद्धैर् नात्मा न चानात्मा कश्चिद् इत्य् अपि देशितम् // mmk_18.6 //

निवृत्तम् अभिधातव्यं निवृत्तश् चित्तगोचरः / अनुत्पन्नानिरुद्धा हि निर्वाणम् इव धर्मता // mmk_18.7 //

सर्वं तथ्यं न वा तथ्यं तथ्यं चातथ्यम् एव च / नैवातथ्यं नैव तथ्यम् एतद् बुद्धानुशासनम् // mmk_18.8 //

अपरप्रत्ययं शान्तं प्रपञ्चैर् अप्रपञ्चितम् / निर्विकल्पम् अनानार्थम् एतत् तत्त्वस्य लक्षणम् // mmk_18.9 //

प्रतीत्य यद् यद् भवति न हि तावत् तद् एव तत् / न चान्यदपि तत्तस्मान्नोच्छिन्नं नापि शाश्वतम् // mmk_18.10 //

अनेकार्थम् अनानार्थम् अनुच्छेदम् अशाश्वतम् / एतत् तल् लोकनाथानां बुद्धानां शासनामृतम् // mmk_18.11 //

संबुद्धानाम् अनुत्पादे श्रावकाणां पुनः क्षये / ज्ञानं प्रत्येकबुद्धानाम् असंसर्गात् प्रवर्तते // mmk_18.12 //

प्रत्युत्पन्नो ऽनागतश् च यद्य् अतीतम् अपेक्ष्य हि / प्रत्युत्पन्नो ऽनागतश् च काले ऽतीते भविष्यतः // mmk_19.1 //

प्रत्युत्पन्नो ऽनागतश् च न स्तस् तत्र पुनर् यदि / प्रत्युत्पन्नो ऽनागतश् च स्यातां कथम् अपेक्ष्य तम् // mmk_19.2 //

अनपेक्ष्य पुनः सिद्धिर् नातीतं विद्यते तयोः / प्रत्युत्पन्नो ऽनागतश् च तस्मात् कालो न विद्यते // mmk_19.3 //

एतेनैवावशिष्टौ द्वौ क्रमेण परिवर्तकौ / उत्तमाधममध्यादीन् एकत्वादींश् च लक्षयेत् // mmk_19.4 //

नास्थितो गृह्यते कालः स्थितः कालो न विद्यते / यो गृह्येतागृहीतश् च कालः प्रज्ञप्यते कथम् // mmk_19.5 //

भावं प्रतीत्य कालश् चेत् कालो भावाद् ऋते कुतः / न च कश् चन भावो ऽस्ति कुतः कालो भविष्यति // mmk_19.6 //

हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि / फलमस्ति च सामग्र्यां सामग्र्या जायते कथम् // mmk_20.1 //

हेतोश् च प्रत्ययानां च सामग्र्या जायते यदि / फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम् // mmk_20.2 //

हेतोश् च प्रत्ययानां च सामग्र्याम् अस्ति चेत् फलम् / गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते // mmk_20.3 //

हेतोश् च प्रत्ययानां च सामग्र्यां नास्ति चेत् फलम् / हेतवः प्रत्ययाश् च स्युर् अहेतुप्रत्ययैः समाः // mmk_20.4 //

हेतुं फलस्य दत्त्वा च यदि हेतुर् निरुध्यते / यद् दत्तं यन् निरुधं च हेतोर् आत्मद्वयं भवेत् // mmk_20.5 //

हेतुं फलस्यादत्त्वा च यदि हेतुर् निरुध्यते / हेतौ निरुद्धे जातं तत् फलम् आहेतुकं भवेत् // mmk_20.6 //

फलं सहैव सामग्र्या यदि प्रादुर्भवेत् पुनः / एककालौ प्रसज्येते जनको यश् च जन्यते // mmk_20.7 //

पूर्वम् एव च सामग्र्याः फलं प्रादुर्भवेद् यदि / हेतुप्रत्ययनिर्मुक्तं फलम् आहेतुकं भवेत् // mmk_20.8 //

निरुद्धे चेत् फलं हेतौ हेतोः संक्रमणं भवेत् / पूर्वजातस्य हेतोश् च पुनर्जन्म प्रसज्यते // mmk_20.9 //

जनयेत् फलम् उत्पन्नं निरुद्धो ऽस्तंगतः कथम् / हेतुस् तिष्ठन्न् अपि कथं फलेन जनयेद् वृतः // mmk_20.10 //

अथावृतः फलेनासौ कतमज् जनयेत् फलम् / न ह्य् अदृष्ट्वा न दृष्ट्वापि हेतुर् जनयते फलम् // mmk_20.11 //

नातीतस्य ह्य् अतीतेन फलस्य सह हेतुना / नाजातेन न जातेन संगतिर् जातु विद्यते // mmk_20.12 //

न जातस्य ह्य् अजातेन फलस्य सह हेतुना / नातीतेन न जातेन संगतिर् जातु विद्यते // mmk_20.13 //

नाजातस्य हि जातेन फलस्य सह हेतुना / नाजातेन न नष्टेन संगतिर् जातु विद्यते // mmk_20.14 //

असत्यां संगतौ हेतुः कथं जनयते फलम् / सत्यां वा संगतौ हेतुः कथं जनयते फलम् // mmk_20.15 //

हेतुः फलेन शून्यश् चेत् कथं जनयते फलम् / हेतुः फलेनाशून्यश् चेत् कथं जनयते फलम् // mmk_20.16 //

फलं नोत्पत्स्यते ऽशून्यम् अशून्यं न निरोत्स्यते / अनिरुद्धम् अनुत्पन्नम् अशून्यं तद् भविष्यति // mmk_20.17 //

कथम् उत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते / शून्यम् अप्य् अनिरुद्धं तद् अनुत्पन्नं प्रसज्यते // mmk_20.18 //

हेतोः फलस्य चैकत्वं न हि जातूपपद्यते / हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते // mmk_20.19 //

एकत्वे फलहेत्वोः स्याद् ऐक्यं जनकजन्ययोः / पृथक्त्वे फलहेत्वोः स्यात् तुल्यो हेतुर् अहेतुना // mmk_20.20 //

फलं स्वभावसद्भूतं किं हेतुर् जनयिष्यति / फलं स्वभावासद्भूतं किं हेतुर् जनयिष्यति // mmk_20.21 //

न चाजनयमानस्य हेतुत्वम् उपपद्यते / हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति // mmk_20.22 //

न च प्रत्ययहेतूनाम् इयम् आत्मानम् आत्मना / या सामग्री जनयते सा कथं जनयेत् फलम् // mmk_20.23 //

न सामग्रीकृतं फलं नासामग्रीकृतं फलम् / अस्ति प्रत्ययसामग्री कुत एव फलं विना // mmk_20.24 //

विना वा सह वा नास्ति विभवः संभवेन वै / विना वा सह वा नास्ति संभवो विभवेन वै // mmk_21.1 //

भविष्यति कथं नाम विभवः संभवं विना / विनैव जन्म मरणं विभवो नोद्भवं विना // mmk_21.2 //

संभवेनैव विभवः कथं सह भविष्यति / न जन्म मरणं चैवं तुल्यकालं हि विद्यते // mmk_21.3 //

भविष्यति कथं नाम संभवो विभवं विना / अनित्यता हि भावेषु न कदाचिन् न विद्यते // mmk_21.4 //

संभवो विभवेनैव कथं सह भविष्यति / न जन्म मरणं चैव तुल्यकालं हि विद्यते // mmk_21.5 //

सहान्योन्येन वा सिद्धिर् विनान्योन्येन वा ययोः / न विद्यते तयोः सिद्धिः कथं नु खलु विद्यते // mmk_21.6 //

क्षयस्य संभवो नास्ति नाक्षयस्यास्ति संभवः / क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च // mmk_21.7 //

संभवो विभवश् चैव विना भावं न विद्यते / संभवं विभवं चैव विना भावो न विद्यते // mmk_21.8 //

संभवो विभवश् चैव न शून्यस्योपपद्यते / संभवो विभवश् चैव नाशून्यस्योपपद्यते // mmk_21.9 //

संभवो विभवश् चैव नैक इत्य् उपपद्यते / संभवो विभवश् चैव न नानेत्य् उपपद्यते // mmk_21.10 //

दृश्यते संभवश्चैव विभवश् चैव ते भवेत् / दृश्यते संभवश्चैव मोहाद् विभव एव च // mmk_21.11 //

न भावाज् जायते भावो भावो ऽभावान् न जायते / नाभावाज् जायते ऽभावो ऽभावो भावान् न जायते // mmk_21.12 //

न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश् चैव जायते जायते कुतः // mmk_21.13 //

भावम् अभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् / प्रसज्यते स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत् // mmk_21.14 //

भावम् अभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् / उदयव्ययसंतानः फलहेत्वोर् भवः स हि // mmk_21.15 //

उदयव्ययसंतानः फलहेत्वोर् भवः स चेत् / व्ययस्यापुनरुत्पत्तेर् हेतूच्छेदः प्रसज्यते // mmk_21.16 //

सद्भावस्य स्वभावेन नासद्भावश् च युज्यते / निर्वाणकाले चोच्छेदः प्रशमाद् भवसंततेः // mmk_21.17 //

चरमे न निरुद्धे च प्रथमो युज्यते भवः / चरमे नानिरुद्धे च प्रथमो युज्यते भवः // mmk_21.18 //

निरुध्यमाने चरमे प्रथमो यदि जायते / निरुध्यमान एकः स्याज् जायमानो ऽपरो भवेत् // mmk_21.19 //

न चेन् निरुध्यमानश् च जायमानश् च युज्यते / सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते // mmk_21.20 //

एवं त्रिष्व् अपि कालेषु न युक्ता भवसंततिः / त्रिषु कालेषु या नास्ति सा कथं भवसंततिः // mmk_21.21 //

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः / तथागतः स्कन्धवान् न कतमो ऽत्र तथागतः // mmk_22.1 //

बुद्धः स्कन्धान् उपादाय यदि नास्ति स्वभावतः / स्वभावतश् च यो नास्ति कुतः स परभावतः // mmk_22.2 //

प्रतीत्य परभावं यः सो ऽनात्मेत्य् उपपद्यते / यश् चानात्मा स च कथं भविष्यति तथागतः // mmk_22.3 //

यदि नास्ति स्वभावश् च परभावः कथं भवेत् / स्वभावपरभावाभ्याम् ऋते कः स तथागतः // mmk_22.4 //

स्कन्धान् यद्य् अनुपादाय भवेत् कश्चित् तथागतः / स इदानीम् उपादद्याद् उपादाय ततो भवेत् // mmk_22.5 //

स्कन्धांश् चाप्य् अनुपादाय नास्ति कश्चित् तथागतः / यश् च नास्त्य् अनुपादाय स उपादास्यते कथम् // mmk_22.6 //

न भवत्य् अनुपादत्तम् उपादानं च किं चन / न चास्ति निरुपादानः कथं चन तथागतः // mmk_22.7 //

तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश् च पञ्चधा / उपादानेन स कथं प्रज्ञप्यते तथागतः // mmk_22.8 //

यद् अपीदम् उपादानं तत् स्वभावान् न विद्यते / स्वभावतश् च यन् नास्ति कुतस् तत् परभावतः // mmk_22.9 //

एवं शून्यम् उपादानम् उपादाता च सर्वशः / प्रज्ञप्यते च शून्येन कथं शून्यस् तथागतः // mmk_22.10 //

शून्यम् इति न वक्तव्यम् अशून्यम् इति वा भवेत् / उभयं नोभयं चेति प्रज्ञप्त्यर्थं तु कथ्यते // mmk_22.11 //

शाश्वताशाश्वताद्य् अत्र कुतः शान्ते चतुष्टयम् / अन्तानन्तादि चाप्य् अत्र कुतः शान्ते चतुष्टयम् // mmk_22.12 //

घनग्राहो गृहीतस् तु येनास्तीति तथागतः / नास्तीति स विकल्पयन् निर्वृतस्यापि कल्पयेत् // mmk_22.13 //

स्वभावतश् च शून्ये ऽस्मिंश् चिन्ता नैवोपपद्यते / परं निरोधाद् भवति बुद्धो न भवतीति वा // mmk_22.14 //

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतम् अव्ययम् / ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् // mmk_22.15 //

तथागतो यत्स्वभावस् तत्स्वभावम् इदं जगत् / तथागतो निःस्वभावो निःस्वभावम् इदं जगत् // mmk_22.16 //

संकल्पप्रभवो रागो द्वेषो मोहश् च कथ्यते / शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि // mmk_23.1 //

शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये / ते स्वभावान् न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः // mmk_23.2 //

आत्मनो ऽस्तित्वनास्तित्वे न कथं चिच् च सिध्यतः / तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् // mmk_23.3 //

कस्य चिद् धि भवन्तीमे क्लेशाः स च न सिध्यति / कश्चिद् आहो विना कंचित् सन्ति क्लेशा न कस्यचित् // mmk_23.4 //

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा / स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्व् अपि न पञ्चधा // mmk_23.5 //

स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः / प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् // mmk_23.6 //

रूपशब्दरसस्पर्शा गन्धा धर्माश् च षड्विधम् / वस्तु रागस्य दोषस्य मोहस्य च विकल्प्यते // mmk_23.7 //

रूपशब्दरसस्पर्शा गन्धा धर्माश् च केवलाः / गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः // mmk_23.8 //

अशुभं वा शुभं वापि कुतस् तेषु भविष्यति / मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च // mmk_23.9 //

अनपेक्ष्य शुभं नास्त्य् अशुभं प्रज्ञपयेमहि / यत् प्रतीत्य शुभं तस्माच् छुभं नैवोपपद्यते // mmk_23.10 //

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि / यत् प्रतीत्याशुभं तस्माद् अशुभं नैव विद्यते // mmk_23.11 //

अविद्यमाने च शुभे कुतो रागो भविष्यति / अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति // mmk_23.12 //

अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः / नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः // mmk_23.13 //

अनित्ये नित्यम् इत्य् एवं यदि ग्राहो विपर्ययः / अनित्यम् इत्य् अपि ग्राहः शून्ये किं न विपर्ययः // mmk_23.14 //

येन गृह्णाति यो ग्राहो ग्रहीता यच् च गृह्यते / उपशान्तानि सर्वाणि तस्माद् ग्राहो न विद्यते // mmk_23.15 //

अविद्यमाने ग्राहे च मिथ्या वा सम्यग् एव वा / भवेद् विपर्ययः कस्य भवेत् कस्याविपर्ययः // mmk_23.16 //

न चापि विपरीतस्य संभवन्ति विपर्ययाः / न चाप्य् अविपरीतस्य संभवन्ति विपर्ययाः // mmk_23.17 //

न विपर्यस्यमानस्य संभवन्ति विपर्ययाः / विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः // mmk_23.18 //

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः / विपर्ययेष्व् अजातेषु विपर्ययगतः कुतः // mmk_23.19 //

न स्वतो जायते भावः परतो नैव जायते / न स्वतः परतश् चेति विपर्ययगतः कुतः // mmk_23.20 //

आत्मा च शुचि नित्यं च सुखं च यदि विद्यते / आत्मा च शुचि नित्यं च सुखं च न विपर्ययः // mmk_23.21 //

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते / अनात्मा ऽशुच्य् अनित्यं च नैव दुःखं च विद्यते // mmk_23.22 //

एवं निरुध्यते ऽविद्या विपर्ययनिरोधनात् / अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते // mmk_23.23 //

यदि भूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् / कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति // mmk_23.24 //

यद्य् अभूताः स्वभावेन क्लेशाः केचिद् धि कस्यचित् / कथं नाम प्रहीयेरन् को ऽसद्भावं प्रहास्यति // mmk_23.25 //

यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते // mmk_24.1 //

परिज्ञा च प्रहाणं च भावना साक्षिकर्म च / चतुर्णाम् आर्यसत्यानाम् अभावान् नोपपद्यते // mmk_24.2 //

तदभावान् न विद्यन्ते चत्वार्य् आर्यफलानि च / फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः // mmk_24.3 //

संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः / अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते // mmk_24.4 //

धर्मे चासति संघे च कथं बुद्धो भविष्यति / एवं त्रीण्य् अपि रत्नानि ब्रुवाणः प्रतिबाधसे // mmk_24.5 //

शून्यतां फलसद्भावम् अधर्मं धर्मम् एव च / सर्वसंव्यवहारांश् च लौकिकान् प्रतिबाधसे // mmk_24.6 //

अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम् / शून्यतां शून्यतार्थं च तत एवं विहन्यसे // mmk_24.7 //

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना / लोकसंवृतिसत्यं च सत्यं च परमार्थतः // mmk_24.8 //

ये ऽनयोर् न विजानन्ति विभागं सत्ययोर् द्वयोः / ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने // mmk_24.9 //

व्यवहारम् अनाश्रित्य परमार्थो न देश्यते / परमार्थम् अनागम्य निर्वाणं नाधिगम्यते // mmk_24.10 //

विनाशयति दुर्दृष्ता शून्यता मन्दमेधसम् / सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता // mmk_24.11 //

अतश् च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः / धर्मं मत्वास्य धर्मस्य मन्दैर् दुरवगाहताम् // mmk_24.12 //

शून्यतायाम् अधिलयं यं पुनः कुरुते भवान् / दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते // mmk_24.13 //

सर्वं च युज्यते तस्य शून्यता यस्य युज्यते / सर्वं न युज्यते तस्य शून्यं यस्य न युज्यते // mmk_24.14 //

स त्वं दोषान् आत्मनीयान् अस्मासु परिपातयन् / अश्वम् एवाभिरूढः सन्न् अश्वम् एवासि विस्मृतः // mmk_24.15 //

स्वभावाद् यदि भावानां सद्भावम् अनुपश्यसि / अहेतुप्रत्ययान् भावांस् त्वम् एवं सति पश्यसि // mmk_24.16 //

कार्यं च कारणं चैव कर्तारं करणं क्रियाम् / उत्पादं च निरोधं च फलं च प्रतिबाधसे // mmk_24.17 //

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे / सा प्रज्ञप्तिर् उपादाय प्रतिपत् सैव मध्यमा // mmk_24.18 //

अप्रतीत्य समुत्पन्नो धर्मः कश्चिन् न विद्यते / यस्मात् तस्माद् अशून्यो हि धर्मः कश्चिन् न विद्यते // mmk_24.19 //

यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / चतुर्णाम् आर्यसत्यानाम् अभावस् ते प्रसज्यते // mmk_24.20 //

अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति / अनित्यम् उक्तं दुःखं हि तत् स्वाभाव्ये न विद्यते // mmk_24.21 //

स्वभावतो विद्यमानं किं पुनः समुदेष्यते / तस्मात् समुदयो नास्ति शून्यतां प्रतिबाधतः // mmk_24.22 //

न निरोधः स्वभावेन सतो दुःखस्य विद्यते / स्वभावपर्यवस्थानान् निरोधं प्रतिबाधसे // mmk_24.23 //

स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते / अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते // mmk_24.24 //

यदा दुःखं समुदयो निरोधश् च न विद्यते / मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति // mmk_24.25 //

स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम् / परिज्ञानं ननु किल स्वभावः समवस्थितः // mmk_24.26 //

प्रहाणसाक्षात्करणे भावना चैवम् एव ते / परिज्ञावन् न युज्यन्ते चत्वार्य् अपि फलानि च // mmk_24.27 //

स्वभावेनानधिगतं यत् फलं तत् पुनः कथम् / शक्यं समधिगन्तुं स्यात् स्वभावं परिगृह्णतः // mmk_24.28 //

फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः / संघो नास्ति न चेत् सन्ति ते ऽष्टौ पुरुषपुद्गलाः // mmk_24.29 //

अभावाच् चार्यसत्यानां सद्धर्मो ऽपि न विद्यते / धर्मे चासति संघे च कथं बुद्धो भविष्यति // mmk_24.30 //

अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते / अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते // mmk_24.31 //

यश् चाबुद्धः स्वभावेन स बोधाय घटन्न् अपि / न बोधिसत्त्वचर्यायां बोधिं ते ऽधिगमिष्यति // mmk_24.32 //

न च धर्मम् अधर्मं वा कश्चिज् जातु करिष्यति / किम् अषून्यस्य कर्तव्यं स्वभावः क्रियते न हि // mmk_24.33 //

विना धर्मम् अधर्मं च फलं हि तव विद्यते / धर्माधर्मनिमित्तं च फलं तव न विद्यते // mmk_24.34 //

धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम् / धर्माधर्मसमुत्पन्नम् अशून्यं ते कथं फलम् // mmk_24.35 //

सर्वसंव्य्वहारांश् च लौकिकान् प्रतिबाधसे / यत् प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे // mmk_24.36 //

न कर्तव्यं भवेत् किंचिद् अनारब्धा भवेत् क्रिया / कारकः स्याद् अकुर्वाणः शून्यतां प्रतिबाधतः // mmk_24.37 //

अजातम् अनिरुद्धं च कूटश्थं च भविष्यति / विचित्राभिर् अवस्थाभिः स्वभावे रहितं जगत् // mmk_24.38 //

असंप्राप्तस्य च प्राप्तिर् दुःखपर्यन्तकर्म च / सर्वक्लेशप्रहाणं च यद्य् अशून्यं न विद्यते // mmk_24.39 //

यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति / दुःखं समुदयं चैव निरोधं मार्गम् एव च // mmk_24.40 //

यदि शून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते // mmk_25.1 //

यद्य् अशून्यम् इदं सर्वम् उदयो नास्ति न व्ययः / प्रहाणाद् वा निरोधाद् वा कस्य निर्वाणम् इष्यते // mmk_25.2 //

अप्रहीणम् असंप्राप्तम् अनुच्छिन्नम् अशाश्वतम् / अनिरुद्धम् अनुत्पन्नम् एतन् निर्वाणम् उच्यते // mmk_25.3 //

भावस् तावन् न निर्वाणं जरामरणलक्षणम् / प्रसज्येतास्ति भावो हि न जरामरणं विना // mmk_25.4 //

भावश् च यदि निर्वाणं निर्वाणं संस्कृतं भवेत् / नासंस्कृतो हि विद्यते भावः क्व चन कश् चन // mmk_25.5 //

भावश् च यदि निर्वाणम् अनुपादाय तत् कथम् / निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते // mmk_25.6 //

भावो यदि न निर्वाणम् अभावः किं भविष्यति / निर्वाणं यत्र भावो न नाभावस् तत्र विद्यते // mmk_25.7 //

यद्य् अभावश् च निर्वाणम् अनुपादाय तत् कथम् / निर्वाणं न ह्य् अभावो ऽस्ति यो ऽनुपादाय विद्यते // mmk_25.8 //

य आजवंजवीभाव उपादाय प्रतीत्य वा / सो ऽप्रतीत्यानुपादाय निर्वाणम् उपदिश्यते // mmk_25.9 //

प्रहाणं चाब्रवीच् छास्ता भवस्य विभवस्य च / तस्मान् न भावो नाभावो निर्वाणम् इति युज्यते // mmk_25.10 //

भवेद् अभावो भावश् च निर्वाणम् उभयं यदि / भवेद् अभावो भावश् च मोक्षस् तच् च न युज्यते // mmk_25.11 //

भवेद् अभावो भावश् च निर्वाणम् उभयं यदि / नानुपादाय निर्वाणम् उपादायोभयं हि तत् // mmk_25.12 //

भवेद् अभावो भावश् च निर्वाणम् उभयं कथम् / असंस्कृतं हि निर्वाणं भावाभावौ च संस्कृतौ // mmk_25.13 //

भवेद् अभावो भावश् च निर्वाण उभयं कथम् / तयोर् अभावो ह्य् एकत्र प्रकाशतमसोर् इव // mmk_25.14 //

नैवाभावो नैव भावो निर्वाणम् इति या ऽञ्जना / अभावे चैव भावे च सा सिद्धे सति सिध्यति // mmk_25.15 //

नैवाभावो नैव भावो निर्वाणं यदि विद्यते / नैवाभावो नैव भाव इति केन तद् अज्यते // mmk_25.16 //

परं निरोधाद् भगवान् भवतीत्य् एव नाज्यते / न भवत्य् उभयं चेति नोभयं चेति नाज्यते // mmk_25.17 //

तिष्ठमानो ऽपि भगवान् भवतीत्य् एव नाज्यते / न भवत्य् उभयं चेति नोभयं चेति नाज्यते // mmk_25.18 //

न संसारस्य निर्वाणात् किंचिद् अस्ति विशेषणम् / न निर्वाणस्य संसारात् किंचिद् अस्ति विशेषणम् // mmk_25.19 //

निर्वाणस्य च या कोटिः कोटिः संसरणस्य च / न तयोर् अन्तरं किंचित् सुसूक्ष्मम् अपि विद्यते // mmk_25.20 //

परं निरोधाद् अन्ताद्याः शाश्वताद्याश् च दृष्टयः / निर्वाणम् अपरान्तं च पूर्वान्तं च समाश्रिताः // mmk_25.21 //

शून्येषु सर्वधर्मेषु किम् अनन्तं किम् अन्तवत् / किम् अनन्तम् अन्तवच् च नानन्तं नान्तवच् च किम् // mmk_25.22 //

किं तद् एव किम् अन्यत् किं शाश्वतं किम् अशाश्वतम् / अशाश्वतं शाश्वतं च किं वा नोभयम् अप्य् अथ // mmk_25.23 //

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः / न क्व चित् कस्यचित् कश्चिद् धर्मो बुद्धेन देशितः // mmk_25.24 //

पुनर्भवाय संस्कारान् अविद्यानिवृतस् त्रिधा / अभिसंस्कुरुते यांस् तैर् गतिं गच्छति कर्मभिः // mmk_26.1 //

विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ / संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते // mmk_26.2 //

निषिक्ते नामरूपे तु षडायतनसंभवः / षडायतनम् आगम्य संस्पर्शः संप्रवर्तते // mmk_26.3 //

चक्षुः प्रतीत्य रूपं च समन्वाहारम् एव च / नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते // mmk_26.4 //

संनिपातस् त्रयाणां यो रूपविज्ञानचक्षुषाम् / स्पर्शः स तस्मात् स्पर्शाच् च वेदना संप्रवर्तते // mmk_26.5 //

वेदनाप्रत्यया तृष्णा वेदनार्थं हि तृष्यते / तृष्यमाण उपादानम् उपादत्ते चतुर्विधम् // mmk_26.6 //

उपादाने सति भव उपादातुः प्रवर्तते / स्याद् धि यद्य् अनुपादानो मुच्येत न भवेद् भवः // mmk_26.7 //

पञ्च स्कन्धाः स च भवो भवाज् जातिः प्रवर्तते / जरामरणदुःखादि शोकाः सपरिदेवनाः // mmk_26.8 //

दौर्मनस्यम् उपायासा जातेर् एतत् प्रवर्तते / केवलस्यैवम् एतस्य दुःखस्कन्धस्य संभवः // mmk_26.9 //

संसारमूलं संस्कारान् अविद्वान् संस्करोत्य् अतः / अविद्वान् कारकस् तस्मान् न विद्वांस् तत्त्वदर्शनात् // mmk_26.10 //

अविद्यायां निरुद्धायां संस्काराणाम् असंभवः / अविद्याया निरोधस् तु ज्ञानस्यास्यैव भावनात् // mmk_26.11 //

तस्य तस्य निरोधेन तत् तन् नाभिप्रवर्तते / दुःखस्कन्धः केवलो ऽयम् एवं सम्यग् निरुध्यते // mmk_26.12 //

अभूम् अतीतम् अध्वानं नाभूवम् इति दृष्टयः / यास् ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः // mmk_27.1 //

दृष्टयो न भविष्यामि किम् अन्यो ऽनागते ऽध्वनि / भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः // mmk_27.2 //

अभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते / यो हि जन्मसु पूर्वेषु स एव न भवत्य् अयम् // mmk_27.3 //

स एवात्मेति तु भवेद् उपादानं विशिष्यते / उपादानविनिर्मुक्त आत्मा ते कतमः पुनः // mmk_27.4 //

उपादानविनिर्मुक्तो नास्त्य् आत्मेति कृते सति / स्याद् उपादानम् एवात्मा नास्ति चात्मेति वः पुनः // mmk_27.5 //

न चोपादानम् एवात्मा व्येति तत् समुदेति च / कथं हि नामोपादानम् उपादाता भविष्यति // mmk_27.6 //

अन्यः पुनर् उपादानाद् आत्मा नैवोपपद्यते / गृह्येत ह्य् अनुपादानो यद्य् अन्यो न च गृह्यते // mmk_27.7 //

एवं नान्य उपादानान् न चोपादानम् एव सः / आत्मा नास्त्य् अनुपादानो नापि नास्त्य् एष निश्चयः // mmk_27.8 //

नाभूम् अतीतम् अध्वानम् इत्य् एतन् नोपपद्यते / यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्य् अयम् // mmk_27.9 //

यदि ह्य् अयं भवेद् अन्यः प्रत्याख्यायापि तं भवेत् / तथैव च स संतिष्ठेत् तत्र जायेत चामृतः // mmk_27.10 //

उच्छेदः कर्मणां नाशः कृतम् अन्येन कर्म च / प्रतिसंवेदयेद् अन्य एवम् आदि प्रसज्यते // mmk_27.11 //

नाप्य् अभूत्वा समुद्भूतो दोषो ह्य् अत्र प्रसज्यते / कृतको वा भवेद् आत्मा संभूतो वाप्य् अहेतुकः // mmk_27.12 //

एवं दृष्तिर् अतीते या नाभूम् अहम् अभूम् अहम् / उभयं नोभयं चेति नैषा समुपपद्यते // mmk_27.13 //

अध्वन्य् अनागते किं नु भविष्यामीति दर्शनम् / न भविष्यामि चेत्य् एतद् अतीतेनाध्वना समम् // mmk_27.14 //

स देवः स मनुष्यश् चेद् एवं भवति शाश्वतम् / अनुत्पन्नश् च देवः स्याज् जायते न हि शाश्वतम् // mmk_27.15 //

देवाद् अन्यो मनुष्यश् चेद् अशाश्वतम् अतो भवेत् / देवाद् अन्यो मनुष्यश् चेत् संततिर् नोपपद्यते // mmk_27.16 //

दिव्यो यद्य् एकदेशः स्याद् एक्देशश् च मानुषः / अशाश्वतं शाश्वतं च भवेत् तच् च न युज्यते // mmk_27.17 //

अशाश्वतं शाश्वतं च प्रसिद्धम् उभयं यदि / सिद्धे न शाश्वतं कामं नैवाशाश्वतम् इत्य् अपि // mmk_27.18 //

कुतश्चिद् आगतः कश्चित् किंचिद् गच्छेत् पुनः क्व चित् / यदि तस्माद् अनादिस् तु संसारः स्यान् न चास्ति सः // mmk_27.19 //

नास्ति चेच् छाश्वतः कश्चित् को भविष्यत्य् अशाश्वतः / शाश्वतो ऽशाश्वतश् चापि द्वाभ्याम् आभ्यां तिरस्कृतः // mmk_27.20 //

अन्तवान् यदि लोकः स्यात् परलोकः कथं भवेत् / अथाप्य् अनन्तवाल् लोकः परलोकः कथं भवेत् // mmk_27.21 //

स्कन्धानाम् एष संतानो यस्माद् दीपार्चिषाम् इव / तस्मान् नानन्तवत्त्वं च नान्तवत्त्वं च युज्यते // mmk_27.22 //

पूर्वे यदि च भज्येरन्न् उत्पद्येरन् न चाप्य् अमी / स्कन्धाः स्कन्धान् प्रतीत्येमान् अथ लोको ऽन्तवान् भवेत् // mmk_27.23 //

पूर्वे यदि न भज्येरन्न् उत्पद्येरन् न चाप्यमी / स्कन्धाः स्कन्धान् प्रतीत्येमाल् लोको ऽनन्तो भवेद् अथ // mmk_27.24 //

अन्तवान् एकदेशश् चेद् एकदेशस् त्व् अनन्तवान् / स्याद् अन्तवान् अनन्तश् च लोकस् तच् च न युज्यते // mmk_27.25 //

कथं तावद् उपादातुर् एकदेशो विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेश एवं चैतन् न युज्यते // mmk_27.26 //

उपादानैकदेशश् च कथं नाम विनङ्क्ष्यते / न नङ्क्ष्यते चैकदेशो नैतद् अप्य् उपपद्यते // mmk_27.27 //

अन्तवच् चाप्य् अनन्तं च प्रसिद्धम् उभयं यदि / सिद्धे नैवान्तवत् कामं नैवानन्तवद् इत्य् अपि // mmk_27.28 //

अथ वा सर्वभावानां शून्यत्वाच् छाश्वतादयः / क्व कस्य कतमाः कस्मात् संभविष्यन्ति दृष्टयः // mmk_27.29 //

सर्वदृष्टिप्रहाणाय यः सद्धर्मम् अदेशयत् / अनुकम्पाम् उपादाय तं नमस्यामि गौतमम् // mmk_27.30 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.