Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

लोकातीतस्तव

Tác giả
नागार्जुन
Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नागार्जुन: लोकातीतस्तव

लोकातीत नमस् तुभ्यं विविक्तज्ञानवेदिने । यस् त्वं जगद्धितायैव खिन्नः करुणया चिरम् ॥ naglok_01

स्कन्धमात्रविनिर्मुक्तो न सत्त्वो ऽस्तीति ते मतम् । सत्त्वार्थं च परं खेदम् अगमस् त्वं महामुने ॥ naglok_02

ते ऽपि स्कन्धास् त्वया धीमन् धीमद्भ्यः संप्रकाशिताः । मायामरीचिगन्धर्वनगरस्वप्नसंनिभाः ॥ naglok_03

हेतुतः संभवो येषां तदभावान् न सन्ति ये । कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ naglok_04

भूतान्य् अचक्षुर्ग्राह्याणि तन्मयं चाक्षुषं कथम् । रूपं त्वयैवं ब्रुवता रूपग्राहो निवारितः ॥ naglok_05

वेदनीयं विना नास्ति वेदनातो निरात्मिका । तच् च वेद्यं स्वभावेन नास्तीत्य् अभिमतं तव ॥ naglok_06

संज्ञार्थयोर् अनन्यत्वे मुखं दह्येत वह्निना । अन्यत्वे ऽधिगमाभावस् त्वयोक्तं भूतवादिना ॥ naglok_07

कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः । परस्परापेक्षिकी तु सिद्धिस् ते ऽभिमतानयोः ॥ naglok_08

न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम् । यत् प्रतीत्य न तज् जातं प्रोक्तं वाचस्पते त्वया ॥ naglok_09

अज्ञायमानं न ज्ञेयं विज्ञानं तद् विना न च । तस्मात् स्वभावतो न स्तो ज्ञानज्ञेये त्वम् ऊचिवान् ॥ naglok_10

लक्ष्याल् लक्षणम् अन्यच् चेत् स्यात् तल् लक्ष्यम् अलक्षणम् । तयोर् अभावो ऽनन्यत्वे विस्पष्टं कथितं त्वया ॥ naglok_11

लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् । शान्तं जगद् इदं दृष्टं भवता ज्ञानचक्षुषा ॥ naglok_12

न सन्न् उत्पद्यते भावो नाप्य् असन् सदसन् न च । न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ॥ naglok_13

न सतः स्थितियुक्तस्य विनाश उपपद्यते । नासतो ऽश्वविषाणेन समस्य शमता कथम् ॥ naglok_14

भावान् नार्थान्तरं नाशो नाप्य् अनर्थान्तरं मतम् । अर्थान्तरे भवेन् नित्यो नाप्य् अनर्थान्तरे भवेत् ॥ naglok_15

एकत्वे न हि भावस्य विनाश उपपद्यते । पृथक्त्वे न हि भावस्य विनाश उपपद्यते ॥ naglok_16

विनष्टात् कारणात् तावत् कार्योत्पत्तिर् न युज्यते । न चाविनष्टात् स्वप्नेन तुल्योत्पत्तिर् मता तव ॥ naglok_17

न निरुद्धान् नानिरुद्धाद् बीजाद् अङ्कुरसंभवः । मायोत्पादवद् उत्पादः सर्व एव त्वयोच्यते ॥ naglok_18

अतस् त्वया जगद् इदं परिकल्पसमुद्भवम् । परिज्ञातम् असद्भूतम् अनुत्पन्नम् न नश्यति ॥ naglok_19

नित्यस्य संसृतिर् नास्ति नैवानित्यस्य संसृतिः । स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर ॥ naglok_20

स्वयंकृतं परकृतं द्वाभ्यां कृतम् अहेतुकम् । तार्किकैर् इष्यते दुःखं त्वया तूक्तं प्रतीत्यजम् ॥ naglok_21

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता । भावः स्वतन्त्रो नास्तीति सिंहनादस् तवातुलः ॥ naglok_22

सर्वसंकल्पनाशाय शून्यतामृतदेशना । यस्य तस्याम् अपि ग्राहस् त्वयासाव् अवसादितः ॥ naglok_23

निरीहा वशिकाः शून्या मायावत् प्रत्ययोद्भवाः । सर्वधर्मास् त्वया नाथ निःस्वभावाः प्रकाशिताः ॥ naglok_24

न त्वयोत्पादितं किं चिन् न च किं चिन् निरोधितम् । यथा पूर्वं तथा पश्चात् तथतां बुद्धवान् असि ॥ naglok_25

आर्यैर् निसेविताम् एनाम् अनागम्य हि भावनाम् । नानिमित्तम् हि विज्ञानं भवतीह कथं चन ॥ naglok_26

अनिमित्तम् अनागम्य मोक्षो नास्ति त्वम् उक्तवान् । अतस् त्वया महायाने तत् साकल्येन देशितम् ॥ naglok_27

यद् अवाप्तं मया पुण्यं स्तुत्वा त्वां स्तुतिभाजनम् । निमित्तबन्धनापेतं भूयात् तेनाखिलं यगत् ॥ naglok_28

॥ इति लोकातीतस्तवः समाप्तः ॥

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

copyright (c) 2003 by chr. lindtner - denmark

%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.