Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

धर्मधातुगर्भविवरण

Tác giả
नागार्जुन
Thông tin
GRETIL — Gyaltsen Namdrol: Pratityasamutpada hrdaya and Dharmadhatugarbhavivarana, Sarnath : Central Institute of Higher Tibetan Studies 1997.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

नागार्जुन: धर्मधातुगर्भविवरण

आचार्य नागार्जुनपादविरचितम् आर्यधर्मधातुगर्भविवरणम्

भारतीयभाषायाम्- आर्यधर्मधातुगर्भविवरणम्। भोटभाषायाम्- फग्-पा-छोस्-क्यि-यिङ्-क्यि-ञिङ्-पोई-नम-पर-डेल-पा।

नमो रत्नत्रयाय

ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥

इत्युक्तम् । अत्र ऽये धर्माऽ इति सप्तभिः प्रकारैरवगन्तव्याः । तद्यथा- विज्ञानं नामरूपं षडायतनं स्पर्शः वेदना जातिर्जरामरणमिति । इमे धर्माः अपि पञ्चभ्यः प्रकारेभ्य उत्पद्यन्त इति ऽहेतुप्रभवाःऽ इत्युक्तम् । के ते पञ्च हेतवः? अविद्या तृष्णा उपादानं संस्कारा भवश्चेति ।

सप्तविधानां धर्माणां पञ्चप्रकाराणां च तेषां हेतूनां निरोधस्तावद् ऽहेतुं तेषां च यो निरोधःऽ इत्यादिनाभिहितः । स एवोपशमः मोक्षो निर्वाणमिति । स च केनोक्तः? ऽतथागतो ह्यवदत् । इति । तेनोपदिष्ट इत्यभिप्रायेण तथा कथितम् ।

अर्थानां यथा स्थितिस्तथा (यथावत्) अवबोधात् ऽतथागतःऽ इत्युच्यते । वस्तूनां यथा स्थितिः, तस्या अभ्रान्ततया अन्येभ्यो देशनाद् वा ऽतथागतःऽ । एवंविधो यो देशकः, यश्चैवं स्वयं बोधकः श्रवणशीलयुक्तश्च स ऽएवंवादीऽ (महाश्रमणः) इत्युक्तः ।

ऽमहान्ऽ-शब्दः प्रधान-अद्भुतपरमप्रवरपर्यायः । यो वादी विद्वान् वीरः तपस्वी महोत्साहः तीव्रवीर्यः अद्भुतकर्मकारि च भवति, स एव ऽमहान्ऽ इति । (स) अशेषज्ञातव्यानां ज्ञानाद् ऽविद्वान्ऽ । अशेषक्लेशानां दमने समर्थत्वाद् ऽवीरःऽ । शीलस्य सम्यग्भावनया ऽतपस्वीऽ । गुणादिष्वपरिखेदाद् ऽमहोत्साहःऽ । यस्य शिरः कपालं वा अग्निना दीप्तम्, तदवान् इव ऽतीव्रवीर्यः तथा अद्भुतधर्माणां साक्षात्कारित्वाद् ऽअद्भुतकर्मकारीऽ इति । एतादृश एव ऽमहान्ऽ इत्युच्यते ।

श्रमणः इति पापानां क्लेशानां चोपशमाद् ऽश्रमणःऽ । सर्वपापानां प्रक्षालनाद् ऽब्राह्मणःऽ । क्लेशक्लमथपरिवर्जनाद् ऽश्रमणःऽ स्वकीयमलापसारणात् ऽप्रव्रजितःऽ इति । इत्येवंविधैर्गुणैः समन्वागत इति । भगवता बुद्धेनोक्त इत्यनेन योगः करणीयः । एवमेव दुःखसमुदयनिरोधमार्गसत्येष्वपि योगः करणीयः ।

अविद्याहेतोः संस्काराः, इत्यारभ्य जरामरणपर्यन्तं (स्वभावतः सिद्धं) कर्तारमनपेक्ष्य समुत्पादस्तावद् ऽअनुलोमःऽ । अविद्यादिहेतूनां निवृत्तेरवबोधः ऽप्रतिलोमःऽ इत्युक्तः ।

अविद्यानिवृत्तेः संस्कारादयो निवर्तन्त इत्युपदेशकारकत्वात् (भगवान् बुद्ध एव) ऽमहाश्रमणःऽ इति ।

॥ आचार्यनागार्जुनपादविरचितं ऽआर्यधर्मधातुगर्भविवरणम्ऽ समाप्तम् ॥

भारतीयोपाध्यायेन ज्ञानगर्भेण ऽमहालोचावा वन्दे पलचेक्महाभागेन चानूद्य संशोध्य च सुनिर्णीतम् ।

॥ भवतु सर्वमङ्गलम् ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.