Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
महाप्रतिसरामहाविद्याराज्ञी
- Thông tin
- GRETIL — Gergely Hidas: Mahāpratisarā-Mahāvidyārājñī, The Great Amulet, Great Queen of Spells. Introduction, Critical Editions and Annotated Translation, New Delhi : International Academy of Indian Culture and Aditya Prakashan 2012 (Śata-Piṭaka Series : Indo-Asian Literatures, 636).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
महाप्रतिसरामहाविद्याराज्ञी
नमो भगवत्यै आर्यमहाप्रतिसरायै ।
लोकार्थसिद्धिपरमं बहुरत्नचित्रं सद्धर्मकोशम् असमं श्रवणाय धीराः । आयान्तु राक्षसमहोरगदैत्यसंघाः पूजाविधाननिरता गरुडा नरेन्द्राः ॥ 1 ॥
आर्याम् इमां प्रतिसरां स्मृतिमात्रनाथां रक्षाविधानचतुरां जगतः समन्तात् । संवर्णितां स्तुतिशतैश् च तथागतैस् तैः सर्वार्थसिद्धिनिचयां प्रणमामि भूयः ॥ 2 ॥
[1] एवं मया श्रुतम् । एकस्मिन् समये भगवान् महावज्रमेरुशिखरकूटागारे विहरति स्म । महावज्रसमाधिभूमिप्रतिष्ठाने महावज्रकल्पवृक्षसमलंकृते महावज्रपुष्किरिणीरत्नपद्मप्रभोद्भासिते महावज्रवालिकासंस्तृतभूमिभागे । महावज्राधिष्ठाने महावज्रमण्डलमात्रे । शक्रस्य देवानाम् इन्द्रस्य भवने । महावज्रसिंहासनकोटीनियुतशतसहस्रविराजिते धर्मदेशनाप्रातिहार्यसर्वबुद्धाधिष्ठानाधिष्ठिते सर्वधर्मसमताप्रवेशे सर्वज्ञतानिर्याते ।
[2] चतुरशीतिभिर् बोधिसत्त्वकोटीनियुतशतसहस्रैः सर्वैर् एकजातिप्रतिबद्धैर् अवैवर्तिकैर् अनुत्तरायां सम्यक्सम्बोधौ महास्थामप्राप्तैर् महावज्रविमोक्षसमाधिबुद्धक्षेत्रविकुर्वणप्रातिहार्यसंदर्शकैः । एकक्षणलवमुहूर्तसर्वसत्त्वचित्तचरितानुप्रवेशविचित्रमधुरोदारगम्भीरधर्मदेशनाप्रतिभानप्रातिहार्यसमन्वागतैर् अनेकबुद्धक्षेत्रतथागतमहापूजामेघार्चनाविमोक्षमुखधारणीसमाधिवशिताभिज्ञावेणिकबोध्यङ्गमार्गभूमिपारमितोपायकौशल्यसंग्रहवस्तुमैत्रीकरुणामुदितोपेक्षाबलविविक्तपर्यवदातचित्तसंतानैः ।
[3] तद्यथा । वज्रगर्भेण च बोधिसत्त्वेन महासत्त्वेन । वज्रगात्रेण च । वज्रमतिना च । वज्रहस्तेन च । वज्रसंहतेन च । वज्रनारायणेन च । वज्रविकुर्वितेन च । वज्रकूटेन च । वज्रराशिना च । सुवज्रेण च । वज्रकेतुना च बोधिसत्त्वेन महासत्त्वेन । एवम्प्रमुखैश् चतुरशीतिभिर् बोधिसत्त्वकोटीनियुतशतसहस्रैः ।
[4] सम्बहुलैश् च महाश्रावकैः सर्वैर् अर्हद्भिः क्षीणास्रवैर् उच्छिन्नभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सुविमुक्तप्रज्ञैर् अचिन्त्यऋद्धिबलप्रातिहार्यविकुर्वणमहास्थामप्राप्तैर् असङ्गज्ञानदर्शिभिः सर्वैर् विगतमलैर् निर्दग्धसर्वक्लेशवासनाबीजैः ।
[5] यद् उतायुष्मता च शारद्वतीपुत्रेण । आयुष्मता च पूर्णेन मैत्रायणीपुत्रेण । आयुष्मता च कफिणेन । आयुष्मता च सुभूतिना । आयुष्मता च महामौद्गल्यायनेन । आयुष्मता च चुन्देन । आयुष्मता च नन्देन । आयुष्मता च महाकाश्यपेन । आयुष्मता चोरुविल्वाकाश्यपेन । एवम्प्रमुखैः सम्बहुलैश् च महाश्रावकैः ।
[6] महेश्वरदेवपुत्रप्रमुखैश् चासंख्येयैर् अपरिमाणानभिलाप्यानभिलाप्यैः शुद्धावासकायिकैर् देवपुत्रैः । ब्रह्मणा च सहापतिना । ब्रह्मकायिकदेवपुत्रप्रमुखैः । सुयामेन च देवपुत्रेण । सुयामकायिकदेवपुत्रपरिवारेण । संतुषितेन च । निर्माणरतिना च । परनिर्मितवशवर्तिना च । शक्रेण च देवानाम् इन्द्रेण सर्वदेवपुत्रपरिवारेण ।
[7] वेमचित्रिणा चासुरेन्द्रेण । बलिना च । प्रह्लादेन च । राहुणा च । वैरोचनेन च । एवम्प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् असुरेन्द्रैः ।
[8] सागरेण च नागराजेन । तक्षकेन च । वासुकिना च । शङ्खपालेन च । कर्कोटकेन च । पद्मेन च । महापद्मेन च । एवम्प्रमुखैर् अपरिमिताप्रमेयासंख्येयैर् नागराजैः ।
[9] द्रुमेण च किंनरराजेन । अनेककिंनरराजपरिवारेण । पञ्चशिखेन च गन्धर्वराजेन । अनेकगन्धर्वराजपरिवारेण । सर्वार्थसिद्धेन च विद्याधरराजेन । अनेकविद्याधरराजपरिवारेण । सुपर्णाक्षेन च गरुडराजेन । अनेकगरुडराजपरिवारेण । वैश्रवणेन च । माणिभद्रेण च । पूर्णभद्रेण च । पाञ्चिकेन च महायक्षराजेन । अनेकयक्षराजपरिवारेण ।
[10] हारीत्या च पञ्चपुत्रशतपरिवारया । सप्तभिश् च लोकमातृभिः । सप्तभिश् च महाराक्षसीभिः । सप्तभिश् च महर्षिभिः । अन्तरीक्षचरैश् च । सर्वनक्षत्रग्रहदेवतैः । दिग्भिश् च विदिग्भिश् च । पृथिव्या च सरस्वत्या च । भूतैश् च । विघ्नैश् च । विनायकैश् च । प्रेतभूतमहर्धिकैः । सर्वैश् च पर्वतराजैः । वरुणेन च लोकपालेन सर्वसमुद्रपरिवारेण । विरूढकेन च । विरूपाक्षेण च । दण्डपाणिना च । नैरृतेन च । जातवेदसा च । सप्तभिश् च महावायुभिः । ईशानेन च सपत्नीकेन अनेकगणकोटीनियुतशतसहस्रपरिवारेण । नारायणेन च सपरिवारेण । दत्तकेन च । दामकेन च । लोहकेन च । महागणपतिना च । मेघोल्केन च । विनायकेन्द्रेण । अनेकविघ्नविनायकपरिवारेण । षष्ट्या च कोटरया । चतसृभिश् च भगिनीभिः सभ्रातृकाभिः । वज्रसंकलया च । चतुःषष्टिभिश् च वज्रदूतीभिः । वज्रसेनेन च । सुबाहुना च । मूर्धटकेन च । अनेकवज्रकुलपरिवारेण । तदन्यैश् च बुद्धधर्मसंघाभिप्रसन्नैर् अपरिमिताप्रमेयासंख्येयैर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगभूतप्रेतपिशाचोन्मादापस्मारसाध्यमहल्लकौस्तारकैः । सूर्येण च देवपुत्रेण । चन्द्रेण च देवपुत्रेण । संध्यया च देवतया । उषया च देवतया । सर्वैश् च ऋतुभिः । रोदसिन्या च सार्धम् ।
[11] इत्य् अपि भगवान् सुप्रवर्तितधर्मचक्रः सुपरिनिष्ठितबुद्धकार्यः सुपरिपूर्णपुण्यज्ञानसंभारः सुपरिगृहीतसर्वज्ञतामहाबोधिपारमिताभूमिलाभो ज्वलितद्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरश् चतुरशीत्यनुव्यञ्जनविराजितसर्वाङ्गावयवशोभः सर्वसत्त्वानवलोकितमूर्धानिर्जितः सर्वमारकर्मकोविदः सर्वसत्त्वज्ञानपञ्चविधचक्षुः सर्वाकारवरोपेतसर्वज्ञज्ञानसमन्वागतः सर्वबुद्धधर्मसमन्वागतः सर्वमारपरप्रवादिप्रमथन उद्गतकीर्तिशब्दश्लोक आर्षभसिंहनादनादी समुच्छिन्नाविद्यान्धकारो ऽसंख्येयापरिमाणकल्पकोटीनियुतशतसहस्रदानशीलक्षान्तिवीर्यध्यानप्रज्ञोपायबलप्रणिधानज्ञानपारमिताप्राप्तो दुष्करचर्याविनिवर्तितो द्वात्रिंशन्महापुरुषलक्षणचतुरशीत्यनुव्यञ्जनालंकृतगात्रशोभः महावज्ररत्नपद्मगर्भसिंहासने अनेकवज्ररत्नमुक्ताकिङ्किणीजालकलकलोन्नादिते अनेकवज्ररत्नवेदिकापादपीठसुप्रतिष्ठिते अनेकवज्ररत्नमकरमुखोद्गीर्णलोहितमुक्तावलीनिबद्धगण्डूषके अनेकवज्ररत्नपद्मकर्णिकाविलग्नकर्केतनेन्द्रनीलमहानीलपुष्परागरश्मिज्वालावभासिते समन्तप्रासादिके अनेकवज्ररत्नशलाकाविभूषितोद्दण्डातपत्रकोटीनियुतशतसहस्रकृतछायापरिकरे अनेककल्पद्रुमोपशोभितविस्तारे सुमेरुमात्रे वज्ररत्नपद्मासने निषण्णः । काञ्चनपर्वतराज इव श्रिया ज्वलन् सूर्यसहस्रातिरेकप्रभामण्डलविराजितभूमिभागः सुपरिपूर्णचन्द्र इव सर्वलोकप्रियदर्शनो महाकल्पवृक्ष इव बुद्धधर्मसंकुसुमितो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ।
[12] अथ खलु भगवान् मूर्ध्नः संधेर् ऊर्णाकोशात् सर्वबुद्धसंदर्शनं नाम रश्मिजालं प्रमुञ्चति स्म । तेन च रश्मिजालेनायं त्रिसाहस्रमहासाहस्रो लोकधातुर् अवभासितः स्फुटीकृतो ऽभूत् । यावन्ति च गङ्गानदीवालिकोपमानि बुद्धक्षेत्राणि तानि सर्वाणि तेनावभासेन स्फुटान्य् अभूवन् । ये च तेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो ऽनेकसिंहासनव्यूहकूटागारविमानेषु धर्मं देशयन्ति स्म सार्धं महाश्रावकैर् बोधिसत्त्वैर् महासत्त्वैर् भिक्षुभिक्षुण्युपासकोपासिकाभिर् देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगैः । अथ खलु भगवान् विस्तीर्णां पर्षदम् आमन्त्रयते स्म ।
[13] प्रतिसरां प्रवक्ष्यामि सर्वसत्त्वानुकम्पया । धारणी दुष्कृतस्यैषा सर्वदुष्टप्रमर्दनी ॥ 1 ॥
यस्याः श्रवणमात्रेण पापा गच्छन्ति संक्षयम् । सर्वसत्त्वसुखदा ह्य् एषा सर्वव्याधिप्रमोचनी ॥ 2 ॥
कारुण्यात् सर्वसत्त्वानां लोकनाथेन भाषिता । परित्राणाय सर्वेषां देहिनां दुर्गतिगामिणाम् ॥ 3 ॥
अनया कृतरक्षस् तु प्रविशेद् असुरालयम् । अडकवतीं तथा गच्छेद् राक्षसाणाम् आलयं भुवि ॥ 4 ॥
भूतनागपिशाचानां युद्धे भैरवदारुणे । अधृष्यः सर्वशत्रूणां सर्वभूतगणैर् अपि ॥ 5 ॥
ग्रहाः सर्वे विनश्यन्ति नामग्रहणकीर्तनैः । स्कन्दोन्मादा अपस्माराः पिशाचा डाकिनीस् तथा ॥ 6 ॥
ओजोभक्षा महातेजा हिंसन्ते मानुषीं प्रजाम् । ते सर्वे स्तम्भिता भोन्ति प्रतिसरस्यैव तेजसा ॥ 7 ॥
परचक्रा विनश्यन्ति काखोर्दा ये च दारुणाः । मन्त्रकर्मा न बाधन्ते मूलकर्माच् च मुच्यते ॥ 8 ॥
न विषं न गरं नाग्नि न शस्त्रं नैव चोदकम् । अशनिर् विद्युतश् चैव कालवायुर् न बाधते ॥ 9 ॥
सर्वशत्रून् प्रमथ्नाति विद्याराज्ञ्या हि तेजसा । सर्वे ऽर्थास् तस्य सिध्यन्ति जयं प्राप्नोति नित्यशः ॥ 10 ॥
यः कश्चिद् धारयेद् विद्यां कण्ठे बाहौ बद्धापि वा । तस्य सर्वाणि कार्याणि सिध्यन्ते नात्र संशयः ॥ 11 ॥
नित्यं रक्षन्ति देवेन्द्रा नागराजास् तथैव च । बोधिसत्त्वा महावीर्या बुद्धाः प्रत्येकनायकाः ॥ 12 ॥
श्रावकाः सर्वबुद्धानां विद्यादेव्यो महर्द्धिकाः । रक्षां कुर्वन्ति सततं प्रतिसराधारकस्य वै ॥ 13 ॥
वज्रपाणिश् च यक्षेन्द्रो राजानश् चतुरस् तथा । तस्य रक्षां करिष्यन्ति दिवारात्रौ न संशयः ॥ 14 ॥
शक्रश् च त्रिदशैः सार्धं ब्रह्मविष्णुमहेश्वराः । नन्दिकेशो महाकालः कार्त्तिकेयो गणेश्वरः ॥ 15 ॥
सर्वे मातृगणास् तस्य तथान्ये मारकायिकाः । ऋषयश् च महातेजा देवाश् चैव महर्द्धिकाः ॥ 16 ॥
नित्यं रक्षां करिष्यन्ति प्रतिसराधारकस्य वै । बुद्धाश् चैव महात्मानो विद्यादेव्यो महाबलाः ॥ 17 ॥
मामकी भृकुटी चैव तारादेवी तथाङ्कुशी । वज्रसंकलया श्वेता महाश्वेता तथैव च ॥ 18 ॥
महाकाली च दूत्यश् च वज्रदूत्यस् तथा पराः । सुपाशी वज्रपाशी च वज्रपाणिर् महाबला ॥ 19 ॥
वज्रमाला महाविद्या तथैवामृतकुण्डली । अपराजिता महादेवी कालकर्णी महाबला ॥ 20 ॥
तथा धन्या महाभागा पद्मकुण्डलिर् एव च । पुष्पदन्ती मणिचूडा स्वर्णकेशी च पिङ्गला ॥ 21 ॥
महातेजा तथा देवी धन्या च विद्युन्मालिनी । राक्षस्य् एकजटा चैव बुद्धा क्षितिकनायका ॥ 22 ॥
कापालिनी महाभागा धन्या लङ्केश्वरी तथा । अन्याश् च बहवो विद्याः सत्त्वानुग्रहकारिकाः ॥ 23 ॥
तस्य रक्षां करिष्यन्ति यस्य विद्या करे स्थिता । हारीती पाञ्चिकश् चैव शङ्खिनी कूटदन्तिनी ॥ 24 ॥
श्रीदेवी सरस्वती चैव तं रक्षन्ति सदानुगाः । महाप्रतिसराम् एतां या स्त्री धारयते सदा ॥ 25 ॥
सर्वसिद्धिर् भवेत् तस्याः पुत्रगर्भा च नित्यशः । सुखं गर्भाणि वर्धन्ते सुखं प्रसूयति गुर्विणी ॥ 26 ॥
व्याधयश् चापि नश्यन्ति सर्वपापा न संशयः । पुण्यवान् बलवान् नित्यं धनधान्यैः प्रवर्धते ॥ 27 ॥
आदेयवचनश् चापि पूजनीयो भविष्यति । शुचिर् धारयते यस् तु स्त्रियो वा पुरुषो ऽपि वा ॥ 28 ॥
स भवेत् सर्वसत्त्वानां मोक्षणार्थं समुद्यतः । सुखितश् च भवेन् नित्यं सर्वव्याधिविवर्जितः ॥ 29 ॥
राजानो वशगास् तस्य सान्तःपुरमहाजनाः । नित्यं च ज्वलते लक्ष्म्या पुण्यराशिर् विवर्धते ॥ 30 ॥
सिध्यन्ते सर्वकल्पाश् च प्रविष्टः सर्वमण्डले । सर्वत्र समयज्ञो ऽसौ जिनस्य वचनं यथा ॥ 31 ॥
दुःस्वप्ना न प्रबाधन्ते सर्वपापहरं परम् । किल्बिषाश् चैव नश्यन्ति प्रत्यमित्रास् तथैव च ॥ 32 ॥
सर्वग्रहविनाशार्थं भाषिता ज्ञानमहेश्वरैः । सर्वकामंददा ह्य् एषा भावयेद् यस् तु नित्यशः ॥ 33 ॥
तद् इदानीं संप्रवक्ष्यामि भूतसंघाः शृणोथ मे ।
[14] नमः सर्वतथागतानाम् । नमो नमः सर्वबुद्धबोधिसत्त्वसंघेभ्यः ।
ओं विपुलगर्भे । विपुलविमले । जयगर्भे । वज्रज्वालागर्भे । गतिगहने । गगनविशोधने । सर्वपापविशोधने । ओं गुणवति । गगनविचारिणि । गगरिणि । गिरि 2 । गमरि 2 । गह 2 । गर्गारि 2 । गगरि 2 । गम्भरि 2 । गभि 2 । गहि 2 । गमनि । गरे । गुह 2 । गुहनि 2 । चले । मुचिले । जये । विजये । सर्वभयविगते । गर्भसंभरणि । सिरि 2 मिरि 2 घिरि 2 । समन्ताकर्षणि । सर्वशत्रुप्रमथनि । रक्ष 2 मां सर्वसत्त्वानां च । चिरि 2 । विगतावरणे । आवरणविनाशनि । सुरि 2 मुरि 2 चिलि 2 । कमले । विमले । जये । जयावहे । जयवति । भगवति । रत्नमकुटमालाधरि । बहुविविधविचित्रवेषधारिणि । भगवति । महाविद्यादेवि । रक्ष 2 मां सर्वसत्त्वानां च समन्तात् सर्वत्र । सर्वपापविशोधनि । हुरु 2 । रक्ष 2 मां सर्वसत्त्वानां चानाथान् अत्राणान् अपरायणान् । परिमोचय मां सर्वदुःखेभ्यः । चण्डि 2 । चण्डिनि । वेगवति । सर्वदुष्टनिवारणि । विजयवाहिनि । हुरु 2 मुरु 2 चुरु 2 । आयुःपालनि । सुरवरमथनि । सर्वदेवगणपूजिते । धिरि 2 । समन्तावलोकिते । प्रभे 2 । सुप्रभविशुद्धे । सर्वपापविशोधनि । धर 2 । धरणिधरे । सुमु 2 । मुसु 2 । रुरु चले । चालय दुष्टान् । पूरय आशाम् । श्रीवपुर्धरे । जयकमले । क्षिणि 2 । वरदाङ्कुशे । ओं पद्मविशुद्धे । शोधय 2 । शुद्धे । भर 2 भिरि 2 भुरु 2 । मङ्गलविशुद्धे । पवित्रमुखि । खड्गिनि 2 । खर 2 । ज्वलितशिखरे । समन्तप्रसारितावभासितशुद्धे । ज्वल 2 । सर्वदेवगणसमाकर्षणि । सत्यव्रते । तर 2 । तारय 2 मां सर्वसत्त्वांश् च । नागविलोकिते । लहु 2 हुलु 2 हुतु 2 तुरु 2 किणि 2
क्षिणि 2 । सर्वग्रहभक्षणि । पिङ्गलि 2 । मुचु 2 चुमु 2 सुमु 2 । सुविचरे । तर 2 । नागविलोकिनि । तारय मां सर्वसत्त्वांश् च भगवति अष्टमहाभयेभ्यः सर्वत्र समन्तेन दिशाबन्धेन वज्रप्राकारवज्रपाशबन्धेन । वज्रज्वालाविशुद्धे । भुरि 2 । भगवति । गर्भवति । गर्भविशोधनि । कुक्षिसंपूरणि । ज्वल 2 । चल 2 । ज्वालिनि । वर्षतु देवः समन्तेन दिव्योदकेन । अमृतवर्षणि । देवतावतारिणि । अभिषिञ्चतु मां सर्वसत्त्वांश् च । सुगतवरवचनामृतवरवपुषे । रक्ष 2 मम सर्वसत्त्वांश् च सर्वत्र सर्वदा सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वव्याधिभ्यः सर्वदुष्टभयभीतस्य ।सर्वकलिकलहविग्रहविवाददुःस्वप्नदुर्निमित्तामङ्गल्यपापविशोधनि । सर्वयक्षराक्षसनागविदारिणि । बल 2 । बलवति । जय 2 । जयतु मां सर्वत्र सर्वकालं । सिध्यतु मे इयं महाविद्या । साधय मण्डलं घातय विघ्नान् । जय 2 । सिद्धे । सिध्य 2 । बुध्य 2 । पूरय 2 । पूरणि 2 । पूरय आशां । सर्वविद्योद्गतमूर्ते । जयोत्तरि । जयवति । तिष्ठ 2 । समयम् अनुपालय । तथागतहृदयशुद्धे । व्यवलोकय मां सर्वसत्त्वानां चाष्टमहादारुणभयेषु । सर 2 । प्रसर 2 । सर्वावरणविशोधनि। समन्ताकारमण्डलविशुद्धे । विगते 2 । विगतमले । विशोधनि । क्षिणि 2 । सर्वपापविशुद्धे । मलविगते । तेजोवति । वज्रवति । त्रैलोक्याधिष्ठिते स्वाहा । सर्वतथागतमूर्धाभिषिक्ते स्वाहा । सर्वबोधिसत्त्वाभिषिक्ते स्वाहा । सर्वदेवताभिषिक्ते स्वाहा । सर्वतथागतहृदयाधिष्ठितहृदये स्वाहा । सर्वतथागतसमयसिद्धे स्वाहा । इन्द्रे इन्द्रवति इन्द्रव्यवलोकिते स्वाहा
। ब्रह्मे ब्रह्माध्युषिते स्वाहा । विष्णुनमस्कृते स्वाहा । महेश्वरवन्दितपूजितायै स्वाहा । वज्रधरवज्रपाणिबलवीर्याधिष्ठिते स्वाहा । धृतराष्ट्राय स्वाहा । विरूढकाय स्वाहा । विरूपाक्षाय स्वाहा । वैश्रवणाय स्वाहा । चतुर्महाराजनमस्कृताय स्वाहा । यमाय स्वाहा । यमपूजितनमस्कृताय स्वाहा । वरुणाय स्वाहा । मारुताय स्वाहा । महामारुताय स्वाहा । अग्नये स्वाहा । नागविलोकिताय स्वाहा । देवगणेभ्यः स्वाहा । नागगणेभ्यः स्वाहा । यक्षगणेभ्यः स्वाहा । राक्षसगणेभ्यः स्वाहा । गन्धर्वगणेभ्यः स्वाहा । असुरगणेभ्यः स्वाहा । गरुडगणेभ्यः स्वाहा । किंनरगणेभ्यः स्वाहा । महोरगगणेभ्यः स्वाहा । मनुष्यगणेभ्यः स्वाहा । अमनुष्यगणेभ्यः स्वाहा । सर्वग्रहेभ्यः स्वाहा । सर्वभूतेभ्यः स्वाहा । सर्वप्रेतेभ्यः स्वाहा । पिशाचेभ्यः स्वाहा । अपस्मारेभ्यः स्वाहा । कुम्भाण्डेभ्यः स्वाहा । ओं धुरु 2 स्वाहा । तुरु 2 स्वाहा । मुरु 2 स्वाहा । हन 2 सर्वशत्रूणां स्वाहा । दह 2 सर्वदुष्टाणां स्वाहा । पच 2 सर्वप्रत्यर्थिकप्रत्यमित्राणां स्वाहा । ये मम अहितैषिणस् तेषां सर्वेषां शरीरं ज्वालय सर्वदुष्टचित्तानां स्वाहा । ज्वलिताय स्वाहा । प्रज्वलिताय स्वाहा । दीप्तज्वालाय स्वाहा । समन्तज्वालाय स्वाहा । माणिभद्राय स्वाहा । पूर्णभद्राय स्वाहा । महाकालाय स्वाहा । मातृगणाय स्वाहा । यक्षिणीनां स्वाहा । राक्षसीनां स्वाहा । आकाशमातृर्णां स्वाहा । समुद्रवासिनीनां स्वाहा । रात्रिचराणां स्वाहा । दिवसचराणां स्वाहा । त्रिसंध्याचराणां स्वाहा । वेलाचराणां स्वाहा । अवेलाचराणां स्वाहा । गर्भहरेभ्यः स्वाहा । गर्भसंधारणि स्वाहा । हुलु 2 स्वाहा । ओं स्वाहा । स्वः स्वाहा । भूः स्वाहा । भुवः स्वाहा
। भूर् भुवः स्वाहा । चिटि 2 स्वाहा । विटि 2 स्वाहा । धरणि स्वाहा । धारणि स्वाहा । अग्नि स्वाहा । तेजोवपु स्वाहा । चिलि 2 स्वाहा । सिलि 2 स्वाहा । मिलि 2 स्वाहा । बुध्य 2 स्वाहा । सिध्य 2 स्वाहा । मण्डलबन्धे स्वाहा । सीमाबन्धनि स्वाहा । सर्वशत्रूणां भञ्जय 2 स्वाहा । जम्भय 2 स्वाहा । स्तम्भय 2 स्वाहा । छिन्द 2 स्वाहा । भिन्द 2 स्वाहा । भञ्ज 2 स्वाहा । बन्ध 2 स्वाहा । मोहय 2 स्वाहा । मणिविशुद्धे स्वाहा । सूर्ये सूर्यविशुद्धे स्वाहा । विशोधनि स्वाहा । चन्द्रे 2 पूर्णचन्द्रे स्वाहा । ग्रहेभ्यः स्वाहा । नक्षत्रेभ्यः स्वाहा । शिवे स्वाहा । शान्ति स्वाहा । स्वस्त्ययने स्वाहा । शिवंकरि स्वाहा । शान्तिकरि स्वाहा । पुष्टिकरि स्वाहा । बलवर्धनि स्वाहा । श्रीकरि स्वाहा । श्रीवर्धनि स्वाहा। श्रीज्वालिनि स्वाहा । नमुचि स्वाहा । मरुचि स्वाहा । वेगवति स्वाहा । ओं सर्वतथागतमूर्ते । प्रवरविगतभये । शमयस्व मे भगवति सर्वपापान् । स्वस्तिर् भवतु मम सर्वसत्त्वानां च । मुनि 2 । विमुनि । चरि । चलने । भयविगते । भयहरणि । बोधि 2 । बोधय 2 । बुद्धिलि 2 । सर्वतथागतहृदयजुष्टे स्वाहा । ओं मुनि 2 । मुनिवरे । अभिषिञ्चन्तु मां सर्वसत्त्वांश् च सर्वतथागताः सर्वविद्याभिषेकैर् महावज्रकवचमुद्रामुद्रितैः । सर्वतथागतहृदयाधिष्ठितवज्रे स्वाहा ।
समन्तज्वालामालाविशुद्धिस्फुरितचिन्तामणिमुद्राहृदयापराजिता धारणी अस्या महाप्रतिसरामहाविद्याराज्ञ्याः ।
[15] सहश्रवणमात्रेणायं महाब्राह्मण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सर्वपापविनिर्मुक्तिर् भवति । यस्य पुनर् इयं हृदयगता भवति स महाब्राह्मण वज्रकाय इति वेदितव्यः । नाग्निस् तस्य काये क्रमिष्यति । किम् इति संज्ञातम् ।
[16] यदा कपिलवस्तुनि महानगरवरे राहुलभद्रः कुमारो मातुः कुक्षिगतो ऽभूत् तदा गोपया शाक्यकन्यया आत्मानम् अग्निखदायां प्रक्षिप्तः । तत्र पद्मिनी प्रादुर्भूता । तदा राहुलभद्रः कुमारः कुक्षिगत इमां विद्यां मनस्य् अकार्षीत् । अस्या विद्याया अनुस्मरणमात्रेण सो ऽग्निस् तस्मिन् क्षणे शीतीभावम् उपगतः । ततो गोपायाः शाक्यकन्यायाः शरीरम् अग्निना न स्पृष्टम् इति ।
[17] तत् कस्य हेतोः । एषा विद्या सर्वतथागताधिष्ठानाधिष्ठिता । तेन हेतुना महाब्राह्मणाग्निर् न दहति । न च विषेण शक्यं जीविताद् व्यपरोपयितुम् । तत् कथम् इति ।
[18] यदा महाब्राह्मण शूर्पारके महानगरवरे कोशबलिकस्य श्रेष्ठिनः पुत्रो विद्यावादिको बभूव तेन तद्विद्याबलेन तक्षको नागराजा आकर्षितः । आकर्षयित्वा च प्रमादवशाद् बद्धो न दान्तः । यावत् तेनासौ क्रोधाद् दष्टः स तीव्रां वेदनां वेदयति । जानाति च यथा मे जीवितं निरुद्धम् इति । तत्र बहवो वादिका आहूता न च कश्चिच् छक्नोति विषं चेष्टयितुम् । अथ तत्रैव शूर्पारके महानगरे विमलशुद्धिर् नामोपासिका प्रतिवसति महाकरुणासमन्वागता । तस्या इयं महाविद्याराज्ञी मुखाग्रे ऽभूत् । सा तस्यान्तिकम् उपसंक्रान्ता उपसंक्रम्येमां महाविद्यां प्रवर्तयाम् आस । एकवेलायाम् अनुस्मृतमात्रेण निर्विषं स्मृतिं प्रतिलब्धं कृत्वा ततो महाव्यसनात् परिमोचयित्वा इमाम् एव महाविद्यां हृदयगतां कारयति स्म यथा विधिवद् अनुज्ञातम् इति ।
[19] अपि च महाब्राह्मण किं परिज्ञातम् इति ।
वाराणस्यां महानगर्याम् अनुपूर्वेणानुविचरमाणो राजा ब्रह्मदत्त इति संख्यां गच्छति । तस्य प्रातिसीमिको बलचक्रराजा चतुरङ्गं बलकायं संनाह्य वाराणसीं महानगरीं परिवार्य विनाशयितुम् आरब्धः । ततो राज्ञो ब्रह्मदत्तस्यामात्यैर् निवेदितम् । देव परचक्रेण नगरम् अपहृतम् । किं नु खलु वयम् उपायं कुर्यामो येनैतत् परचक्रं विनश्येत् । आज्ञां प्रयच्छ । राजा कथयति । अल्पोत्सुका भवन्तो भवथ । अस्ति मम महाप्रतिसरा नाम महाविद्याराज्ञी येनाहम् इमं चतुरङ्गं बलकायं पराजयिष्यामि भस्मीकरिष्यामि च । अमात्याः शिरसा प्रणिपत्योचुः । किम् इदं महाराज । नास्माभिः कदाचिद् अपि श्रुतम् इति । राजा प्राह । अहम् इदानीं प्रत्यक्षदर्शनं करिष्यामि । अथ स राजा ब्रह्मदत्तो नानागन्धोदकेन स्नातशिरः शुचिवस्त्रं प्रावृत्य इमं महाविद्याराजं यथाविधिनालिख्य शिरःकोशे स्थाप्य इमाम् एव विद्याराज्ञीकवचं कृत्वा संग्राममध्ये ऽवतीर्य एकाकिनैव सर्वो ऽसौ चतुरङ्गबलकायः पराजितः । आमर्द्य च तावद् अनया शरणं गत इति कृत्वासौ बलचक्रराजा मुक्त
[20] इति महाब्राह्मण प्रत्यक्षमहानुभावेयं महाविद्याराज्ञी सर्वतथागतहृदयमुद्राधिष्ठिता प्रत्यक्ष एवेति धारयितव्या । सर्वतथागतसमैषा द्रष्टव्या । पश्चिमे काले पश्चिमे समये अल्पायुष्काणां मन्दपुण्यानां परीत्तभाग्यानां सत्त्वानां हिताय द्रष्टव्या । यः कश्चिन् महाब्राह्मण इमां महाप्रतिसरां महाविद्याराज्ञीं यथाविधिना लिखित्वा बाहौ कण्ठे वा धारयिष्यति स सर्वतथागताधिष्ठितो वेदितव्यः । सर्वतथागतकाय इति वेदितव्यः । वज्रकाय इति वेदितव्यः । सर्वतथागतधातुगर्भ इति वेदितव्यः । सर्वतथागतनेत्र इति वेदितव्यः । ज्वलितार्चिःशरीर इति वेदितव्यः । अभेद्यकवच इति वेदितव्यः । सर्वशत्रूणां प्रमथन इति वेदितव्यः । सर्वपापावरणनिर्दहन इति वेदितव्यः । नरकगतिविशोधक इति वेदितव्यः । किम् इति पूर्वपरिज्ञातं महाब्राह्मण ।
[21] अन्यतमस्मिन् प्रदेशे भिक्षुर् अश्राद्धस् तथागतकुलशिक्षाखण्डकः अदत्तादायी । सुखायद्वारहारिकः सांघिकं चातुर्दिशिकं गणप्राप्तं च यद् द्रव्यं तत् पौद्गलिकं सर्वम् अधिष्ठाय भक्षयति । यावद् अपरेण समयेन महता व्याधिना स्पृष्टः महतीं दुःखां वेदनाम् अनुभवति । स तपस्वी अत्राणो ऽप्रतिसरणो महान्तम् उत्क्रोशनशब्दं करोति । अथ तस्मिन्न् एव प्रदेशे उपासको ब्राह्मणः प्रतिवसति । तेन तच्छब्दं श्रुतम् । श्रुत्वा च पुनर् येन स भिक्षुस् तेनोपसंक्रान्त उपसंक्रम्य तस्य भिक्षोर् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा कण्ठे बध्नाति स्म । समनन्तरबद्धे च महाप्रतिसरे तस्य भिक्षोः सर्वा वेदनाः प्रशान्ताः सर्वव्याधिभिः परिमुक्तः स्वस्थः संवृत्त इति । स तस्या एव रात्र्या अत्ययात् सूपस्थितस्मृतिः कालगतः । स तस्मिन् कडेवरे उत्सृष्टे ऽवीचौ महानरके उपपन्नः । तच् च तस्य मृतशरीरं भिक्षुभिः कूटे स्थापितम् । सा तस्य महाप्रतिसरा महाविद्याराज्ञी कण्ठे बद्धैवावस्थिता । समनन्तरोपपन्नस्य तस्य भिक्षोस् तस्मिन्न् अवीचौ तेषां नारकाणां सत्त्वानां सर्वदुःखवेदनाः प्रशान्ताः । ते च नारकाः सत्त्वाः सर्वसुखसमर्पिता अभूवन् । ये च ते महान्ता आवीचिका अग्निस्कन्धास् ते ऽपि सर्वेण सर्वम् उपशान्ता इति । अथ ते यमपुरुषा विस्पन्दमाना यमस्य धर्मराजस्येमं निश्चयं विस्तरेणारोचयन्ति स्म ।
अतिविस्मयम् इदं देव दृश्यते नरकसंकटे । प्रशान्ता दारुणा दुःखाः सत्त्वानां कर्मजाश् च ये ॥ 1 ॥
प्रशान्तास् ते ऽपि अङ्गारा देहस्था देहिनां सदा । करपत्त्रा न बाधन्ते क्षुरधारा न सज्जते ॥ 2 ॥
अस्त्राश् च भग्नाः सर्वे प्रशान्ता लोहकुम्भयः । असिपत्त्रवने पत्त्रा न बाधन्ते कर्मजाः पुनः ॥ 3 ॥
यमस् त्वं धर्मराजो ऽसि धर्मेण शासयसे नृणाम् । इदं तु कारणं नाल्पं त्वम् अस्माकं वक्तुम् अर्हसि ॥ 4 ॥
ततो ऽसौ धर्मराजा धर्मात्मा धर्मनिश्चयः । करुणाशयनष्टानां वचनं श्रुत्वेदम् ईदृशम् ॥ 5 ॥
किम् एतत् कथ्यतां शीघ्रं कथम् एतत् पुनर् ब्रुवन् । ततस् ते दुष्टसत्त्वानां यमपुरुषाः सुदारुणाः ॥ 6 ॥
यमस्य धर्मराजस्य इदं वचनम् अब्रुवन् । अयं देव महासत्त्व उत्पन्नो नरकसंकटे ॥ 7 ॥
अवीचिर् यस्य नामेदं तेनासौ संकट उच्यते । कर्मणां यस्य वैचित्र्यं सत्त्वा येन सुखीकृताः ॥ 8 ॥
सुखितो ह्य् एष सर्वत्र पुनर् यास्यति सुरालयम् । यमो ऽपि धर्मराजा वै दृष्ट्वा कथयति विस्मितः ॥ 9 ॥
महर्द्धिको ऽयं महच् चास्य शरीरं पौर्वजन्मिकम् । यथा धातुशतैर् वृन्दैः स्तूपं शोभति शास्तुनः ॥ 10 ॥
तथास्य शोभते कायः प्रतिसराबद्धकण्ठकः ।
[22] अथ ते नरकपालका यक्षा यमस्य धर्मराजस्येदं वचनम् अब्रुवन् । कथम् इदं देव प्रतिसरेत्य् उच्यते । धर्मराज उवाच ।
प्रतिपत् स्मारयेद् यस् तु स न गच्छति दुर्गतिम् । सुगतिं गच्छते ह्य् असौ प्रतिसराभावभावितः ॥ 11 ॥
अथवा नरकपाला वै गच्छथ पुष्कलावतीम् । तद् द्रक्ष्यथ महाकूटं देवतैः परिवारितम् ॥ 12 ॥
तद् दृष्ट्वा सर्वसत्त्वेषु मैत्रचित्ता भविष्यथ ।
[23] अथ ते यमपुरुषा तस्याम् एव रात्र्यां पुष्कलावतीं गताः ।
ते पश्यन्ति तदा तत्र राजधानीसमीपतः । तच् च कूटं समन्तेन एकज्वालासमाकुलम् ॥ 13 ॥
मृतशरीरं च पश्यन्ति प्रतिसराबद्धकण्ठकम् । देवा नागाश् च गन्धर्वा यक्षराक्षसकिंनरैः ॥ 14 ॥
परिवारितं समन्तेन पूजां कुर्वन्त्य् अनुत्तराम् ।
[24] यावत् तस्य तैर् यक्षैः प्रतिसरकूटो नाम स्थापितः । अथ ते यक्षाः पुनर् आगत्य यमस्य धर्मराजस्य निश्चयं विस्तरेणारोचयन्ति स्म । एवम् एतद् देव यथा त्वयाभिहितम् । समनन्तरारोचिते ऽस्मिन् वचनपर्यवसाने स महासत्त्वस् तं नारकं शरीरं विजह्य त्रयस्त्रिंशेषु देवेषूपपन्नः । तेन हेतुना प्रतिसरपूर्वी देवपुत्र इत्य् उच्यते ।
[25] तेन हि महाब्राह्मण परिज्ञातपूर्वम् । तस्माद् अवश्यम् एवेयं महाप्रतिसरेति धारयितव्या वाचयितव्या लिखितव्या यथाविधिना नित्यं शरीरगतां कृत्वा धारयितव्या । स नित्यं सर्वव्यसनदुःखेभ्यः परिमुच्यते । सर्वदुर्गतिभयभैरवेभ्य उत्तरति । न च विद्युता शक्यं पातयितुम् । किम् इति विद्युता परिज्ञातपूर्वम् ।
[26] महाब्राह्मण हिङ्गुमर्दने महानगरवरे विमलशङ्खो नाम श्रेष्ठी महाधनकनकसमृद्धः परिपूर्णकोशकोष्ठागारसंपन्नो बभूव । सार्थवाह इति ख्यातवान् । अथ स महासार्थवाहो यानपात्रम् आसाद्य महासमुद्रे ऽवतीर्णः । यावत् तिमिङ्गिलैः सो ऽस्य पोतो ऽवष्टब्धः । विनाशयितुकामा नागाश् च संक्षुब्धा महान्तं गर्जनास्फोटं कुर्वन्ति विद्युदुल्काम् उत्सृजन्ति वज्राशनिं प्रवर्षितुम् आरब्धाः । ततस् ते वणिजो महता दुःखेनाभ्याहतचित्तास् तं महान्तं नागसंक्षोभं विद्युदुल्कां वज्राशनिं चोत्सृजन्तं तैश् च तिमिङ्गिलैः पोतम् अवष्टब्धं दृष्ट्वा महान्तम् उत्क्रोशनाशब्दं कर्तुम् आरब्धाः । ते देवताविशेषान् आयाचयन्ति । न च कश्चित् तेषां परित्राणं भवति । ततस् ते सार्थवाहस्योपगम्य करुणकरुणम् इदं वचनम् अब्रुवन् ।
परित्रायस्व महासत्त्व मोचयास्मान् महाभयात् । अथ खलु महासार्थवाहो दृढचित्तो महामतिः ॥ 1 ॥
वणिजो विक्लवीभूतान् इदं वचनम् अब्रवीत् । मा भैर् मा भैर् वणिजो भवन्तो धीरतां व्रजत ॥ 2 ॥
अहं वो मोचयिष्यामि अतो दुःखमहार्णवात् । ततो धीरमनसो भूत्वा वणिज इदं वचनम् अब्रुवन् ॥ 3 ॥
किम् एतन् महासत्त्व ब्रूहि शीघ्रम् अविघ्नतः । यावज् जीवितम् अस्माकं त्वत्प्रभावान् महामते ॥ 4 ॥
कथ्यतां ज्ञानमाहात्म्यं पश्चात् त्वं किं करिष्यसि । ततः सार्थपतिस् तेषाम् इमां विद्याम् उदाहरत् ॥ 5 ॥
अस्ति मे महाविद्या प्रतिसरानामविश्रुता । दमनी सर्वदुष्टानां महाबलपराक्रमा ॥ 6 ॥
तेनाहं मोचयिष्यामि अतिदुःखमहाभयात् ।
[27] ततः स महासार्थवाहस् तस्यां वेलायाम् इमां महाप्रतिसरां महाविद्याराज्ञीं लिखित्वा ध्वजाग्रावरोपितां कारयति स्म । समनन्तरध्वजाग्रावरोपिते ऽस्मिन् महाप्रतिसरे सर्व एव ते तिमिङ्गिलास् तत् पोतम् एकज्वालीभूतं पश्यन्ति । ततस् ते नागा मैत्रमनसस् तेषाम् अन्तिके ऽवतीर्य पूजां कर्तुम् आरब्धाः । ते च तिमिङ्गिला अस्या एव महाप्रतिसराविद्याराज्ञ्या अनुभावेन दह्यमाना निष्पलायिता विलयं गतास् ते च सार्थिकास् तैर् महानागैर् महति महारत्नद्वीपे प्रापिता इति ।
[28] ज्ञानवती महाविद्या महाप्रतिसरा सर्वतथागताधिष्ठिता । तेन हेतुनेयं महाब्राह्मण महाविद्येति ख्याता । अवश्यम् एवेयं ध्वजाग्रावरोपितां कृत्वा धारयितव्या । सर्ववातशीताकालमेघविद्युदशनिं प्रशमयति । सर्वदेवमनुष्यामनुष्यविग्रहविवादेषु परिमोचयति । सर्वदंशमशकशलभप्राणकजाता विविधरूपाः सस्यविनाशका न प्रभवन्ति । प्रशमं गच्छन्ति । सर्वे च दुष्टचित्ता मृगपक्षिणो दंष्ट्रिणो विनश्यन्ति । सर्वाणि च पुष्पफलपत्त्रवनस्पत्योषधिसस्यादीन्य् अभिवर्धन्ते । सुरसानि स्वादूनि मृदूनि च भविष्यन्ति । सम्यग् एव परिपाचितानि भविष्यन्ति । अतिवृष्ट्यनावृष्टिदोषाः सर्वेण सर्वं न भविष्यन्ति । कालवृष्टिर् भविष्यति नाकालवृष्टिः । ये च तस्मिन् विषये महानागास् ते च सम्यग् एव कालेन कालं वर्षधारा उत्सृजन्ति । यस्मिन् विषये इयं महाविद्याराज्ञी महाप्रतिसरा नाम प्रचरिष्यति तत्र तैः सत्त्वैर् ज्ञात्वा पूजासत्कारं कृत्वा नानागन्धैर् नानाधूपैर् नानापुष्पैर् नानावस्त्रैः परिवेष्टयित्वा चैत्यस्योपरि ध्वजाग्रावरोपितां कृत्वा नानावाद्यतूर्यसंगीतिभिर् वाद्यमानाभिः प्रदक्षिणीकर्तव्या । तेषां महासत्त्वानां यथाचिन्तितम् आशां परिपूरयिष्यन्ति देवताः शक्रब्रह्मप्रभृतयः । अथवा यथा यथा विधिना लिख्यते तथा तथा समृध्यते ।
पुत्रार्थी लभते पुत्रं गर्भसंधारिणी परा । सुखेन वर्धते गर्भः सुखेन च प्रसूयते ॥ 1 ॥
कालेन वर्धते गर्भः कालेन परिमुच्यते ।
[29] किम् इति महाब्राह्मण पूर्ववच् छ्रूयताम् ।
इहैव मगधविषये राजा प्रसारितपाणिर् नाम्ना । स चापुत्रको बभूव । किम् इति प्रसारितपाणिर् इति ख्यातवान् । तेन राज्ञा जातमात्रेण पाणिं प्रसार्य मातुः स्तनं गृहीत्वा यावद् आप्तं क्षीरं पीतम् । तौ च स्तनौ सहस्पर्शमात्रेण सुवर्णवर्णौ संवृत्तौ । नित्यकालं च महाक्षीरेण प्रवर्धते । तेन कारणेन राज्ञः प्रसारितपाणिर् इति नाम स्थापितम् अभूत् । अन्यच् च तस्य राज्ञो यदा याचनकजना आगच्छन्ति तदा स राजा दक्षिणं पाणिं प्रसारयत्य् अन्तरीक्षे । बोधिसत्त्वः स राजा तेन हेतुना तस्य बुद्धाभिप्रसन्ना देवता दिव्यै रत्नविशेषैः सुवर्णमणिभिश् च पाणिं परिपूरयन्ति । स राजा तेभ्यो याचनकजनपदेभ्यो ऽनुप्रयच्छति । यथाचिन्तितमात्रेण सर्वयाचनकानां सर्वसुखसंपत्तिकामान् ददाति । देवानां च महान्ति महापूजासत्काराणि करोति पुत्रहेतोर् न च पुत्रं प्रतिलभते । स पौराणां तथागतचैत्यानां पुनः पुनः सत्कारं कर्तुम् आरब्धः । महान्ति पूजासत्काराणि करोति । दानानि ददाति । उपवासम् उपवसति । महान्ति पुण्यानि करोति । अक्षीणान्य् एव दानानि ददाति । तत् कस्य हेतोः ।
[30] भूतपूर्वं महाब्राह्मण अस्मिन्न् एव मगधविषये मल्ला नाम जनपदे कुशिनगरे महापत्तनवरे भगवतः प्रभूतरत्नस्य शासने समुत्पन्नो धर्मचित्तकः कश्चिन् महासत्त्वो धर्ममतिर् नाम श्रेष्ठी प्रतिवसति । स सर्वसत्त्वानाम् अन्तिके महाकरुणाचित्तम् उपस्थाप्येमाम् एव महाविद्यां महाप्रतिसराम् आरभ्य धर्मं देशयति । अथ कश्चिद् एव दरिद्रपुरुषस् तं धर्मं श्रुत्वा तस्य महाश्रेष्ठिन इदं वचनम् अब्रवीत् । अहम् आर्यस्य निवेशने भृतिकर्म करिष्यामि धर्मं च श्रोष्यामि । यदा मम किंचिद् भविष्यति तदाहं धर्मं पूजयिष्यामि । तस्य गृहव्यापारं कुर्वतो धर्मं च शृण्वतो अपरेण समयेन तेन श्रेष्ठिना तस्यैकं दीनारं दत्तम् । तेन सर्वसत्त्वपरित्राणार्थं बोधिचित्तम् उत्पाद्य सर्वसत्त्वसाधारणं कृत्वा महाप्रतिसररत्नेति निर्यातितम् । एवं च प्रणिधानं कृतम् । अनेन दानमहाफलेन मम सर्वसत्त्वानां च दारिद्र्यसमुच्छेदः स्यात् । तेन कारणेन तद् दानं परिक्षयं न गच्छति ।
[31] एवं बहुविधानेकविधः पुण्याभिसंस्कारः कृतो देवताश् च पूजिता यावन्तो बुद्धा भगवन्तः पूजितास् तदा शुद्धावासकायिकाभिर् देवताभिः स्वप्ने दर्शनं दत्तम् एवं चाभिहितम् । भो महाराज समन्तज्वालामालाविशुद्धिस्फुरितचिन्तामणिमुद्राहृदयापराजिता महाधारणी विद्याराज्ञी महाप्रतिसरा नाम । यथाविधिनालिख्य यथाविधिना कल्पो ऽभिहित उपवासोषिताया यथाविधिना अग्रमहिष्या देव्याः शरीरे बद्ध्वा ततस् ते पुत्रप्रतिलाभो भविष्यति । अथ स राजा प्रतिविबुद्धस् तस्या रात्र्या अत्ययेन संख्यालिपिनक्षत्रग्रहविपञ्चकान् कुलब्राह्मणान् संनिपात्य यथाविधिना कल्पोपदिष्टे पुष्यनक्षत्रराजे प्रतिपन्ने सुस्नातगात्राया उपवासोषिताया अग्रमहिष्या देव्या यथाविधिनालिख्येमां महाप्रतिसरां विद्याराज्ञीं कण्ठे बद्धवान् । महतीं महाबुद्धचैत्येषु पूजाम् अकार्षीत् । अनेकानि च रत्नविशेषानि सत्त्वानां दानानि दत्तानि । ततो नवानां मासानाम् अत्ययात् पुत्रो जातः । अभिरूपः प्रासादिको दर्शनीयः परमया शुभवर्णपुष्कलतया समन्वागतः ।
[32] इति ज्ञात्वा महाब्राह्मण सर्वकामंगमापराजिता महाप्रतिसररत्नेति विश्रुता महाविद्याराज्ञी सर्वतथागतपूजिता । शक्रस्यापीयं चूडामणिः सर्वथा ।
[33] यदा शक्रो देवेन्द्रो महासंग्रामम् असुरैः सार्धं कर्तुकामस् तदा इमाम् एव कवचं कृत्वा चूडायाम् अवस्थाप्य सर्वासुरान् निर्जित्य पराजित्य सुखं स्वस्तिना क्षेमेन देवपुरं प्रविशति । सर्वासुरैर् अधृष्यो भवति ।
[34] एवं हि महाब्राह्मण प्रथमचित्तोत्पादम् उपादाय बोधिसत्त्वस्येमां महाप्रतिसरां महाविद्याराज्ञीं धारयतः सर्वमारैर् अनवमृद्यता भवति । यस्यैषा कायकण्ठगता भविष्यति स सर्वतथागताधिष्ठितो भविष्यति । सर्वबोधिसत्त्वसंरक्षितो भविष्यति । सर्वदेवमनुष्यराजराजामात्यब्राह्मणगृहपतिभिश् च सततसमितं वन्दितः पूजितः संमानितो भविष्यति । सर्वदेवासुरगरुडकिंनरमहोरगाभ्यर्चितः पूजितो भविष्यति । स महासत्त्व इत्य् उवाच भगवान् मारबलप्रमर्दकः । सर्वव्याधिविगतो भविष्यति । सर्वेत्युपद्रवोपसर्गाश् चास्य प्रशाम्यन्ति । तस्य महासत्त्वस्य सर्वशोकविगमो भविष्यति । सर्वदेवताश् चास्य सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति ।
[35] इमानि चानेन चत्वार्य् अपराजितामहामन्त्रहृदयानि सततसमितं लिखित्वा कायगतानि कृत्वा धारयितव्यानि सततसमितं मनसिकर्तव्यानि स्वाध्यायितव्यानि भावयितव्यानि चाध्याशयेन । सर्वदुःस्वप्नदुर्निमित्तामङ्गल्यभावा विनश्यन्ति सर्वसुखसंपत्तयश् च प्रादुर्भविष्यन्ति ।
अत्र मन्त्रपदाः सिद्धाः सर्वकर्मकराः शुभाः ।
ओं अमृतवरे वर 2 प्रवरविशुद्धे हूं 2 फट् 2 स्वाहा ।
ओं अमृतविलोकिनि गर्भसंरक्षणि आकर्षणि हूं 2 फट् 2 स्वाहा ।
अपराजिताहृदयम् ।
ओं विमले जयवरे अमृते हूं 2 फट् 2 स्वाहा ।
ओं भर 2 संभर इन्द्रियबलविशोधनि हूं 2 फट् 2 रुरु चले स्वाहा ।
उपहृदयविद्या ।
[36] अशेषैः सर्वबुद्धबोधिसत्त्वैश् च एकसंनिपाते एकस्वरनिर्घोषेण इमानि धारणीमन्त्रपदानि भाषितानि । महाप्रतिसरामहाविद्याराज्ञीहृदयकवचान्य् एतानि मन्त्रपदानि सर्वतथागतमुद्रया मुद्रितानि । अतिदुर्लभम् अप्य् एषां श्रवणं किं पुनर् लिखनपठनवाचनधारणपरदेशना । बुद्धकृत्यम् एतद् इति ज्ञातव्यम् । इयं ह्य् अतीव सर्वतथागतैः प्रशंसितानुमोदिता व्याकृता । परमदुर्लभेयं महाधारणी । अपराजिता महाप्रतिसरा । नामधेयम् अपि परमदुर्लभं सर्वपापक्षयंकरी महाबलपराक्रमा महातेजा महाप्रभावा महागुणोद्भावनी सर्वमारकायिकदेवताविध्वंसनकरी सर्ववासनानुसंधिमारपाशच्छेदनकरी । परमन्त्रमुद्राविषकाखोर्दचूर्णकिरणप्रयोगविद्वेषणाभिचारुकाणां च दुष्टचित्तानां विध्वंसनकरी । बुद्धबोधिसत्त्वार्यगणवरपूजाभिरतानां परिपालनकरी । महायानोद्ग्रहणलिखनवाचनपठनस्वाध्यायनश्रवणधारणाभियुक्तानां परिपालिकेयं महाधारणी । यावद्बुद्धबोधिपरिपूरयित्रीयं महाब्राह्मण महाप्रतिसरा विद्याराज्ञी न क्वचित् प्रतिहन्यते । सर्वत्र च महापूजां प्राप्नोति यथाहं शास्ता जितविद्विषः ।
[37] किम् इति । पूर्वं परिज्ञातवतीयं महाविद्या सर्वविघ्नविनायकानां विध्वंसयित्री ।
यदा च भगवान् विपुलप्रहसितवदनमणिकनकरत्नोज्ज्वलरश्मिप्रभासाभ्युद्गतराजस् तथागतो ऽर्हन् सम्यक्संबुद्धः प्रथमाभिसंबुद्धो येन बोधिमण्डस् तेनोपसंक्रान्तः सर्वबुद्धप्रशस्तं धर्मचक्रं प्रवर्तयितुकामस् तदा तस्य भगवतः सर्वमारैः सपरिवारैर् अनेकमारकोटीनियुतशतसहस्रपरिवृतैर् नानारूपविरूपभयभैरवशब्दाकुलैर् बहुविविधमारविषयविकुर्वणाधिष्ठानैर् नानाप्रहरणवृष्टिम् अभिनिर्मायागत्य चतुर्दिशं परिवार्यानन्तापर्यन्तमारकोटीनियुतशतसहस्रातिरेकाः पापीयांसो अन्तरायं कर्तुम् आरब्धाः । ततः स भगवान् विपुलप्रहसितवदनमणिकनकरत्नोज्ज्वलरश्मिप्रभासाभ्युद्गतराजो मुहूर्तं तूष्णीम् आस्थाय इमां महाप्रतिसरां महाविद्यां मनसा सप्तकृत्वः प्रवर्तयाम् आस । समनन्तरप्रवर्तिते ऽस्मिन् महाप्रतिसरे विद्याराजे तत्क्षणाद् एव सर्वे ते माराः पापीयांसो ददृशुर् भगवत एकैकस्माद् रोमविवराद् अनेककोटीनियुतशतसहस्राणि संनद्धबद्धकवचानां ज्वलितखड्गपरशुपाशमुद्गरासित्रिशूलहस्तानाम् एवं वाचं प्रव्याहरमाणानि निर्गच्छन्ति । गृह्नत 2 बन्धत 2 दुष्टमारां विध्वंसयत दुष्टचित्तानां विचूर्णयत जीवितं सर्वदुष्टग्रहविघ्नविनायकानां ये भगवतो विहेठां कुर्वन्ति । ततस् ते सर्वदुष्टमारान् मैत्रीखड्गेनाभिनिर्जितान् कृत्वा केचिच् छिक्षापदानि ग्राहिताः केचिद् यावद् अनुत्तरायां सम्यक्संबोधौ व्याकृतास् तत्र महानुभावाः । अन्ये पुनस् तांस् तथागतरोमविवरविनिर्गतान् महापुरुषान् दृष्ट्वा तस्मिन् नगरे विह्वलीभूता ऋद्धिपरिहीना प्रतिभानबलपराक्रमप्रनष्टा विध्वस्ताः समस्ताः प्रपलीना इति । ततो भगवता धर्मचक्रं प्रवर्तितं यथान्यैर् बुद्धैर् इति । सर्वविघ्नविनायकान् मारांश् च पापीयांसो विध्वंसयित्वा उत्तीर्णः पारंगतः ।
[38] एवं हि महाब्राह्मण महाबलवेगऋद्धिपारमिताप्राप्तेयं महाप्रतिसरा महाविद्याराज्ञी स्मरणमात्रेण सर्वव्यसनभयभैरवेभ्यः परिमोचयति आशयपरिशुद्धानां सत्त्वानां नान्येषां दुष्टचेतसाम् । तस्मात् तर्हि महाब्राह्मण नित्यम् एवानुस्मरणेन मनसिकारेण मनसिकर्तव्या । सर्वकालं च लिखित्वा कायगतां कृत्वा धारयितव्या । [39] किम् इति पूर्वोक्तवती वाक् ।
उज्जयन्यां महानगर्यां राज्ञो ब्रह्मदत्तस्य विजिते केनचित् पुरुषेणापराधः कृतः । स राज्ञा ब्रह्मदत्तेन वधकपुरुषेभ्य आज्ञप्तः । भवन्तो गच्छतैनं पुरुषं जीविताद् व्यपरोपयथ । अथ ते वधकपुरुषास् तं राज्ञाज्ञप्तं पुरुषं गृहीत्वा पर्वतविवरं गत्वासिं कोशान् निष्कास्य तं पुरुषं जीविताद् व्यवरोपयितुम् आरब्धाः । तदा स पुरुष इमां महाप्रतिसरां महाविद्याराज्ञीं मनसा स्मृतवान् । लिखितां च दक्षिने बाहौ धारयति स्म । तस्य महासत्त्वस्यास्या महाविद्यायाः प्रभावेनासिर् एकज्वालीभूता खण्डखण्डं यथा पांसुमयो विकीर्ण इति । ततस् ते वधकपुरुषा इमम् एव निश्चयं राज्ञो विस्तरेणारोचयाम् आसुः । ततो राजा प्रकुपितः कथयति । गच्छथ भोः पुरुषा अन्यतमस्मिन् प्रदेशे यक्षगुहास्ति । तत्र बहूनि यक्षशतसहस्राणि प्रतिवसन्ति पिशिताशिनः । तत्र नीत्वा छोरयत । ततः स पुरुषस् तैर् वधकपुरुषैस् तस्यां यक्षगुहायां छोरितः । समनन्तरछोरिते तस्मिन् यक्षगुहायां ततस् ते यक्षाः सर्वे तुष्टमनसः प्रधाविता मानुषं भक्षयिष्याम इति ते पश्यन्ति अस्या महाप्रतिसराया अनुभावेन तं पुरुषम् एकज्वालामालार्चिषं देदीप्यमानं दृष्ट्वा च सर्व एव संत्रस्ता दह्यमानं शरीरं पश्यन्ति । अथ ते यक्षा विस्मयम् आपन्नास् तं पुरुषं गृहीत्वा बहिर्द्वारे ऽवस्थाप्य प्रदक्षिणं कर्तुम् आरब्धाः । यावत् तैर् वधकपुरुषै राज्ञो ऽयं निश्चयो विस्तरेणारोचितः । ततो भूयो राजा कुपितश् चण्डीभूतः कथयति । यद्य् एवं भवन्तो गच्छथैनं पुरुषं बद्ध्वा नद्यां प्रक्षिपथ । स तैः पुरुषैर् बद्ध्वा नद्यां प्रक्षिप्तः । समनन्तरप्रक्षिप्ते च तस्मिन् महापुरुषे सा नदी निरुदकीभूता यथा स पुरुषः स्थलगत एव तिष्ठति । ते च बन्धनाः खण्डखण्डं विचूर्णिताः । राज्ञा श्रुतम् । ततो राजा विस्मयोत्फुल्लितवदनः कथयति । अहो विस्मयम् इदं पुरुषस्य । किम् अत्र कारणं स्याद् इति मे वितर्कः । अथ स राजा तं पुरुषं आहूयैवम् आह । किं त्वं भोः पुरुष जानासि । पुरुष उवाच । नाहं महाराज किंचिद् अपि जानामि अन्यत्र महाप्रतिसरां महाविद्यां धारयामि । तस्या एव देव प्रभावः । राजा आह । अहो आश्चर्यं महत् । महाविद्या सुभाषिता ।
मोहनी मृत्युदण्डस्य सर्वबुद्धैर् अधिष्ठिता । तारणी सर्वसत्त्वानां रुजादुःखप्रमोचनी ॥ 1 ॥
महाविद्या महातेजाकालमृत्युप्रमोचनी । भाषिता कारुणिकैर् नाथैर् महारोगनिवारणी ॥ 2 ॥
[40] ततो राज्ञा प्रहृष्टमानसेन महाप्रतिसरा महाविद्याराज्ञी पूजिताभिनन्दिता । तस्य पुरुषस्य पट्टबन्धं कृत्वा स्वकस्य जनपदस्य पुरस्तान् नगरज्येष्ठतायाम् अभिषेको दत्तः ।
[41] एवं महाब्राह्मणेयं महाप्रतिसरा विद्याराज्ञी सर्वत्र महतीं पूजां लभते । अनतिक्रमणीया सर्वदुष्टचित्तैः सत्त्वैः । पूर्वम् इयं परिज्ञाता महाविद्याराज्ञी न क्वचित् प्रतिहन्यते । तस्माद् अवश्यं कायगतां कृत्वा धारयितव्या । अपि तु महाब्राह्मण सुनक्षत्रेणेयं सुप्रशस्तविधानेन लिखितव्या । अथ स महाब्राह्मणो ऽतीवप्रहृष्टमना भगवन्तं पञ्चमण्डलकेनाभिप्रणम्य प्रष्टुम् आरब्धः । कीदृशेन भगवन् विधानेनेयं महाविद्याराज्ञी लिखितव्या । भगवान् आह । शृणु महाब्राह्मण त्वाम् अहं वक्ष्ये सर्वसत्त्वानुकम्पया ।
[42] येन सत्त्वाः सुखिनो भोन्ति मुच्यन्ते कर्मसंकटात् । व्याधितानां च मोक्षार्थं स्त्रीनां गर्भसमुद्भवम् ॥ 1 ॥
भविष्यति च सत्त्वानां दारिद्र्यव्रणरोहणम् । उपवासोषितो भूत्वा नक्षत्रे पुष्यसंमते ॥ 2 ॥
बुद्धपूजापरो भूत्वा चित्तम् उत्पाद्य बोधये । करुणाम्रेडितचित्तेन मैत्र्या चापि समन्वितः ॥ 3 ॥
हिताधानपरश् चापि सर्वसत्त्वेषु नित्यशः । स्नात्वा चन्दनकर्पूरैः सकस्तूर्योदकेन च ॥ 4 ॥
शुचिवस्त्राणि प्रावृत्य धूपितानि च धूपनैः । ततो मण्डलकं कृत्वा मृद्गोमयसमन्वितम् ॥ 5 ॥
पूर्णकुम्भांश् च चत्वारः पञ्चमं मध्यमण्डले । पुष्पधूपाश् च गन्धाश् च दातव्यात्र महार्हाः ॥ 6 ॥
धूपनं चन्दनं चैव स्पृक्कागरु तथैव च । पञ्चशर्करास् तुरुष्काश् च दातव्यानि विधानतः ॥ 7 ॥
नानाविधानि पुष्पानि यथाकालं यथाविधि । सर्वपुष्पफलैर् बीजैर् गन्धैश् चापि सुमण्डितान् ॥ 8 ॥
घृतमाक्षिकदुग्धैश् च पावकैः पायसादिभिः । पूरयेद् बलिकुम्भांश् च लक्षणाढ्यान् सुमङ्गलान् ॥ 9 ॥
स्थापयेच् चतुरो दिक्षु पञ्चमं मध्यमण्डले । स्थापनीयाः शरावाश् च कोणेषु गन्धपूरिताः ॥ 10 ॥
चत्वारः कीलकाश् चापि खादिरा दृढवेष्टिताः । पञ्चरङ्गेन सूत्रेण वेष्टयित्वा विचक्षणः ॥ 11 ॥
समभागेन माप्यैतान् निखन्यान् मण्डलाद् बहिः । एवं कृते लिखेद् विप्र यद् इच्छेत् सिद्धिम् आत्मनः ॥ 12 ॥
शुक्लभोजनभुक्तेन लिखितव्यं सुखैषिणा । पटे वा वस्त्रभूर्जे वान्यत्र वा यत्र कुत्रचित् ॥ 13 ॥
लिखेत् स्त्रीषु पुत्रार्थी सम्यग् गोरोचनेन वै । मध्ये च दारकं कुर्यात् सर्वालंकारविभूषितम् ॥ 14 ॥
रत्नपूर्णं तथा पात्रं वामहस्तेन धारयेत् । कार्यः पद्मे निषण्णो ऽसौ प्रफुल्लितविभूषिते ॥ 15 ॥
मणिहारसुवर्णं च नानारत्नं विशेषतः । दुर्धर्षाश् चापि कर्तव्याश् चतुःकोणेषु पर्वताः ॥ 16 ॥
एवं लिखेत् प्रयत्नेन यद् इच्छेज् जीवितुं सुखम् । कुङ्कुमेन लिखेत् वापि पुरुषानां तु विशेषतः ॥ 17 ॥
तस्येप्सितानि कार्याणि सिध्यन्ते नात्र संशयः । नानारूपाश् च कर्तव्या मुद्राचिह्नाश् च पद्मिनी ॥ 18 ॥
द्वे पद्मे अथवा त्रीणि चत्वारि पञ्च वा लिखेत् । पद्मानां च तथा कुर्यात् केसराणि समन्ततः ॥ 19 ॥
सुपुष्पितं पद्मं कुर्वीत सदण्डं पट्टबद्धकम् । त्रिशूलं पद्मं कुर्वीताष्टकोणं पट्टबद्धकम् ॥ 20 ॥
सपरशुं तथा पद्मम् अष्टपत्त्रं समन्ततः । सखड्गं पद्मं कुर्वीत स पद्मं सितम् एव च ॥ 21 ॥
शङ्खं पद्मे तथा कुर्यात् सर्वत्र विधिविस्तरम् इति । सर्वत्र विधिचिह्नानि कारयेद् विचक्षणः ॥ 22 ॥
वर्जयेद् बालरूपाणि यत्र चित्तं प्रदुष्यति । देवरूपं च कर्तव्यं नानालंकारभूषितम् ॥ 23 ॥
भिक्षुं वज्रधरं कुर्याद् दुष्टतर्जनतत्परम् । चतुरश् च महाराज्ञश् चतुःपार्श्वेषु संलिखेत् ॥ 24 ॥
ब्राह्मणे ईश्वरो लेख्यः क्षत्रियेषु महेश्वरः । शूद्रेषु सदा सौम्यं चक्रस्वामिनम् आलिखेत् ॥ 25 ॥
वैश्येषु वैश्रवणम् इन्द्रं चैव सुरेश्वरम् । दारके सदा लेख्यः प्रजापतिर् महामतिः ॥ 26 ॥
श्यामवर्णा भवेद् या तु रौद्रं तस्याः समालिखेत् । गौराया रूपसंपन्नं लिखेन् नित्यं यशस्विनम् ॥ 27 ॥
स्थूलायां माणिभद्रश् च लिखितव्यः प्रयत्नतः । कृषायां पूर्णभद्रस् तु मया ह्य् उक्तं स्वयम्भुवा ॥ 28 ॥
गुर्विण्याश् च महाकालं लिखेच् च ब्रह्मदेवताम् । अन्यांश् चापि यथापूर्वं विधिनोक्तान् समालिखेत् ॥ 29 ॥
लिखित्वैवं प्रयत्नेन विधिदृष्टेन कर्मणा । धारयेत् सततं कण्ठे भद्रकं तस्य भविष्यति ॥ 30 ॥
ज्वालाग्रं चिन्तामणिं कुर्याद् वज्राग्रे पद्मसंस्थितम् । पद्मस्य केसरे पाशं चक्रं चापि तथा परम् ॥ 31 ॥
वज्रं पद्मे समालिख्य मुद्गरं पद्मसंस्थितम् । शक्तिं लिखेत् तथा पद्मे यथा विधिषु दृश्यते ॥ 32 ॥
ज्वालाग्रा मणयः सर्वे विस्फुलिङ्गसमाकुलाः । पट्टबद्धाश् च कर्तव्या यथा विधिषु कीर्तिताः ॥ 33 ॥
नागाश् च फणिनः कार्या मणिज्वाला नवशीर्षाः । ते ऽपि सर्वे प्रयत्नेन हृदि वज्रप्रतिष्ठिताः ॥ 34 ॥
पार्थिवानां बलं नित्यं सार्थवाहं लिखेद् बुधः । विद्याधराणां च सर्वेषां विद्यादेवीं समालिखेत् ॥ 35 ॥
चन्द्रसूर्यौ सनक्षत्रौ राहुकेतुग्रहाष्टकम् । लिखेच् च षण्डपण्डानां पुत्रलाभो भविष्यति ॥ 36 ॥
निश्चयाद् विधिनालिख्य सर्वसिद्धिर् भविष्यति । तस्मात् सर्वप्रयत्नेन धारयेन् मतिमान् नरः ॥ 37 ॥
[43] सर्वसिद्धिकरं ह्य् एतन् मङ्गल्यं पापनाशनम् । प्राप्नोति परमं स्थानं स्वयम्भूवचनं यथा ॥ 38 ॥
लोके ऽस्मिन् परमं सौख्यं परलोके सुखं परम् । त्रयस्त्रिंशभवनादौ स्थानं तस्य सुरालयम् ॥ 39 ॥
जम्बुद्वीपे शुभे रम्ये विशिष्टे कुलसंमते । क्षत्रियेषु विशिष्टेषु ब्राह्मणेषु विशेषतः ॥ 40 ॥
जन्म तस्य महात्मस्य विद्या सुखं च नित्यशः । सर्वबुद्धैर् न शक्यं हि पुण्यस्कन्धं प्रकीर्तितुम् ॥ 41 ॥
यत् पुण्यं समवाप्नोति प्रतिसराधारको नरः । नरकद्वाराः पिथिताः सर्वस्वर्गद्वारा अपावृताः ॥ 42 ॥
सुखसंपत्तिसंपन्नो भविष्यति महामतिः । बुद्धाश् च बोधिसत्त्वाश् च आश्वासयन्ति च नित्यशः ॥ 43 ॥
कायेन सुखसंपन्नो बलेन महता भवेत् । यथापि तद् वै जिनेन्द्रोक्तं चक्रवर्ती भविष्यति ॥ 44 ॥
आश्वासनं नृदेवानां त्रासनं दुष्टचेतसाम् । भविष्यत्य् अचिरेणासौ यस्य विद्या सुभाषिता ॥ 45 ॥
नासौ हन्यति शस्त्रेण न विषेण न चाग्निना । नाकालमरणं चास्य दूरे गच्छन्ति पापकाः ॥ 46 ॥
दर्शनात् स्पर्शनाच् चैव श्रवणाद् एव सर्वतः । भूतग्रहविवादाश् च उदकाग्निभयं तथा ॥ 47 ॥
मृगा व्याडाहयो नागा व्याधयश् च सुदारुणाः । ते सर्वे न भविष्यन्ति येषां विद्या सुभाषिता ॥ 48 ॥
सर्वथा सर्वमारैस् तु शृणु वक्ष्यामि तत्त्वतः । पूजनीया भविष्यन्ति सर्वसत्त्वोत्तमा हि ते ॥ 49 ॥
महाविद्याराजस्यायं महाप्रतिसरस्य कल्पः समाप्तः ।
[44] अथातो विद्याधरस्य रक्षाविधानकल्पं व्याख्यास्यामि सर्वसत्त्वानुकम्पया ।
येन रक्षाविधानेन महासिद्धिर् भविष्यति । यत्र तत्र कृता रक्षा भवत्य् अवध्यो न संशयः ॥ 1 ॥
निर्भयं निर्ज्वरं चैव सर्वग्रहनिवारणम् । नक्षत्रानुकूलं च कर्मसंकलछेदनम् ॥ 2 ॥
दुर्भुक्तं दुर्लङ्घितं चैव सर्वशत्रुगणैः कृतम् । दुःप्रेक्षितं दुर्लिखितं काखोर्दा ये च दारुणाः ॥ 3 ॥
चूर्णमन्त्रकृतं चैव विषभुक्तं तथा गरम् । सर्वे तस्य प्रशाम्यन्ति रक्षां धारयते ऽत्र यः ॥ 4 ॥
प्रत्यङ्गिरा विपच्यन्ते यो विद्यां समतिक्रमेत् । परचक्रा दारुणा ये ऽपि प्रत्यमित्रा महाभयाः ॥ 5 ॥
सर्वे ते प्रलयं यान्ति प्रतिसराशापतर्जिताः । बुद्धा रक्षन्ति सर्वज्ञा बोधिसत्त्वाश् च सूरताः ॥ 6 ॥
रक्षन्ति प्रत्येकबुद्धाः श्रावकाश् च महातपाः । अन्ये च बहुविधा भूयो देवा नागा महर्द्धिकाः ॥ 7 ॥
रक्षां कुर्वन्ति तस्येमे अस्मिन् युक्तस्य नित्यशः । अस्याः श्रवणमात्रेण विद्यारक्षा अनुत्तरा ॥ 8 ॥
निर्भयं भवति सर्वत्र इत्य् एवं मुनिर् अब्रवीत् । दुःस्वप्ना दुष्कृता ये च उपसर्गा ये च दारुणाः ॥ 9 ॥
व्याधिस्पृष्टा महारोगैर् ये ग्रस्ता राजयक्ष्मणा । अन्ये च बहुविधा रोगा गण्डलूता विचर्चिकाः ॥ 10 ॥
ईतयो दारुणा ये च ग्रसन्ते मानुषीं प्रजाम् । मनुष्याणां विनाशार्थं हिंसकाः परमदारुणाः ॥ 11 ॥
सर्वे ते विनश्यन्ति रक्षा यत्र महाबला । अनेन कृतरक्षस् तु वध्यप्राप्तो ऽपि मुच्यते ॥ 12 ॥
यदि ग्रस्तः कालपाशेन नीतश् चापि यमालयम् । तस्य आयुर् विवर्धेत प्रतिसरालिखनाद् अपि ॥ 13 ॥
परिक्षीणायुषो यस् तु सप्ताहमृत एव च । यावल् लिखितमात्रेण रक्षा एषा अनुत्तरा ॥ 14 ॥
अथवा श्रवणमात्रेण कृतरक्षाविधानतः । सर्वस्वस्तिं अवाप्नोति सुखं जीवति ईप्सया ॥ 15 ॥
अष्टषष्टिसहस्राणि कोटीनियुतशतानि च । त्रायस्त्रिंशाश् च ये देवाः सर्वे शक्रपुरोगमाः ॥ 16 ॥
रक्षार्थं तस्य सत्त्वस्य पृष्ठतः समुपस्थिताः । चत्वारो लोकपालाश् च वज्रपाणिर् महाबलः ॥ 17 ॥
विद्याकुलशतैः सार्धं रक्षां कुर्वन्ति नित्यशः । सोमः सुमनाः सूर्यब्रह्मविष्णुमहेश्वराः ॥ 18 ॥
यमश् च माणिभद्रश् च बलदेवो महाबलः । पूर्णभद्रो महावीरो हारीती च सपुत्रिका ॥ 19 ॥
पञ्चालः पाञ्चिकश् चैव कार्त्तिकेयो गणेश्वरः । श्रीर् अपि च महादेवी वैश्रवणश् च सरस्वती ॥ 20 ॥
शङ्खिनी पुष्पदन्ती च तथैवैकजटापि च । धन्या एता महायक्षा रक्षां कुर्वन्ति नित्यशः ॥ 21 ॥
षण्डानां पुत्रजननं गर्भस्थानविवर्धनम् । रक्षेयं महती तस्य यावज् जीवं भविष्यति ॥ 22 ॥
पुरुषाणां जयदा नित्यं युद्धे संग्रामभैरवे । अनेन वरदा भोन्ति देवता धर्मनिश्चिताः ॥ 23 ॥
अथवा पापविनाशे तु लिखनाद् एव मुच्यते । तथागता विलोकयन्ति बोधिसत्त्वास् तथैव च ॥ 24 ॥
यशश् च वर्धते तस्य पुण्यम् आयुश् च वर्धते । धनधान्यसमृद्धिश् च भविष्यति न संशयः ॥ 25 ॥
सुखं स्वपिति मेधावी सुखं च प्रतिविबुध्यते । अधृष्यः सर्वश्त्रूणां सर्वभूतगणैर् अपि ॥ 26 ॥
संग्रामे वर्तमानस्य जयो भवति नित्यशः । विद्यायां साध्यमानायाम् इयं रक्षा अनुत्तरा ॥ 27 ॥
सुखं च साधयेद् विद्यां विघ्नो ऽस्य न भविष्यति । सिध्यन्ति सर्वकल्पाश् च प्रविष्टः सर्वमण्डले ॥ 28 ॥
क्षिप्रं च समयज्ञो ऽसौ भवेत् सर्वत्र जातिषु । वैश्वासिको भवेत् तत्र जिनानां गुह्यधारणे ॥ 29 ॥
सर्वमङ्गलसंपूर्णः सर्वसिद्धिमनोरथः । अनया लिखितमात्रेण सर्वसौख्यं समृध्यति ॥ 30 ॥
सुखं कालक्रियां कृत्वा भवेत् स्वर्गपरायणः । विवादे कलहे चैव विग्रहे परमदारुणे ॥ 31 ॥
सर्वभयविनिर्मुक्तो जिनोक्तं वचनं यथा । स नित्यं जातिस्मरो भोति जातौ जातौ न संशयः ॥ 32 ॥
राजानो वशगास् तस्य सान्तःपुरमहाजनाः । स मान्यश् च भवेन् नित्यं साधुभिर् लोकसंमतैः ॥ 33 ॥
सर्वेषां च प्रियो भवति ये देवा ये च मानुषाः । रक्षां तस्य करिष्यन्ति दिवारात्रौ न संशयः ॥ 34 ॥
[45] अत्र मन्त्रपदाः सिद्धाः सम्यक्संबुद्धभाषिताः ।
नमो बुद्धाय । नमो धर्माय । नमः संघाय । नमो भगवते शाक्यमुनये महाकारुणिकाय तथागतायार्हते सम्यक्संबुद्धाय । नमस् तेभ्यः सम्यक्संबुद्धेभ्यः ।
भावेनैतान् नमस्कृत्य बुद्धशासनवृद्धये । अहम् इदानीं संप्रवक्ष्यामि सर्वसत्त्वानुकम्पया ॥ 1 ॥
इमां विद्यां महातेजां महाबलपराक्रमाम् । यस्यां भाषितमात्रायां मुनीनां वज्रासने ॥ 2 ॥
माराश् च मारकायाश् च ग्रहाः सर्वविनायकाः । विघ्नाश् च सन्ति ये केचित् तत्क्षणाद् विलयं गताः ॥ 3 ॥
[46] तद्यथा ।
ओं गिरि 2 । गिरिणि । गिरिवति । गुणवति । आकाशवति । आकाशशुद्धे । पापविगते । आकाशे । गगनतले । आकाशविचारिणि । ज्वलितशिखरे । मणिमौक्तिकखचितमौलिधरे । सुकेशे । सुवक्त्रे । सुनेत्रे । सुवर्णे । सुवर्णगौरे । अतीते । अनुत्पन्ने । अनागते । प्रत्युत्पन्ने । नमः सर्वेषां बुद्धानां ज्वलिततेजसाम् । बुद्धे । सुबुद्धे । भगवति । सुरक्षणि । सुक्षमे । सुप्रभे । सुदमे । सुदान्ते । वरे । भगवति । भद्रवति । भद्रे । सुभद्रे । विमले । जयभद्रे । प्रचण्डे । चण्डे । वज्रचण्डे । महाचण्डे । घोरि । गन्धारि । गौरि । चण्डालि । मातङ्गि । वर्चसि । सुमति । पुक्कसि । शवरि । शावरि । शङ्करि । द्रमिडि । द्रामिडि । रौद्रिणि । सर्वार्थसाधनि । हन 2 सर्वशत्रूणाम् । दह 2 सर्वदुष्टानां प्रेतपिशाचडाकिनीनां मनुष्यामनुष्याणाम् । पच 2 हृदयं विध्वंसय जीवितं सर्वदुष्टग्रहाणाम् । नाशय 2 सर्वपापानि मे भगवति । रक्ष 2 मां सर्वसत्त्वानां च सर्वत्र सर्वभयोपद्रवेभ्यः । सर्वदुष्टानां बन्धनं कुरु । सर्वकिल्बिषनाशनि । मार्तण्डे । मृत्युदण्डनिवारणि । मानदण्डे । मानिनि । महामानिनि । चले । चिटि 2 । विटि 2 । निटि 2 । निटिनि । तुटे । घोरिणि । वीरिणि । प्रवरसमरे । चण्डालि । मातङ्गि । रुन्धसि । सरसि । वर्चसि । सुमति । पुक्कसि । शवरि । शावरि । शङ्करि । द्रमिडि । द्रामिडि । दहनि । पचनि । मर्दनि । सरले 2 । सरलम्भे । हीनमध्योत्कृष्टविदारिणि । विधारिणि । महिले 2 । महामहिले । निगडे । निगडभञ्जे । मत्ते । मत्तिनि । दान्ते । चक्रे । चक्रवाकिनि । ज्वले 2 । ज्वाले 2 । ज्वलिनि । शवरि । शावरि । सर्वव्याधिहरणि । चूडि 2 । चूडिनि 2
। निमि 2 । निमिन्धरि । त्रिलोकजननि । त्रिलोकालोककरि । त्रैधातुकव्यवलोकनि । वज्रपरशुपाशमुद्गरखड्गशङ्खचक्रत्रिशूलचिन्तामणिमहाविद्याधारिणि । रक्ष 2 मां सर्वसत्त्वानां च सर्वत्र सर्वस्थानगतं सर्वदुष्टभयेभ्यः सर्वमनुष्यामनुष्यभयेभ्यः सर्वव्याधिभ्यः । वज्रे । वज्रवति । वज्रपाणिधरे । हिलि 2 । मिलि 2 । किलि 2 । चिलि 2 । सिलि 2 । वर 2 । वरदे । सर्वत्र जयलब्धे स्वाहा । पापविदारिणि स्वाहा । सर्वव्याधिहरणि स्वाहा । सर्वत्र भयहरणि स्वाहा । स्वस्तिर् भवतु मम सर्वसत्त्वानां च स्वाहा । शान्ति स्वाहा । पुष्टि स्वाहा । जयतु जये । जयवति । जय । विमले । विपुले स्वाहा । सर्वतथागतमूर्ते स्वाहा । ओं भूरि 2 । वज्रवति । तथागतहृदयपूरणि । संधारणि । बल 2 । जयविद्ये हूं 2 फट् 2 स्वाहा ।
[47] यस्य कस्यचिन् महाब्राह्मण अनया तथागतमूर्त्या विद्यामन्त्रपदधारण्या रक्षा कृता परित्राणं परिग्रहः परिपालनं शान्तिः स्वस्त्ययनं कृतं भवेत् तस्य परिक्षीणम् आयुः पुनर् एव विवर्धते । सुचिरं सुखं च जीवति । स्मृतिसंपन्नश् च भवति । उच्चारणमात्रेण वा वज्रावमार्जनेन वाकालमरणान् महाव्याधिभ्यश् च परिमुच्यते । सर्वरोगाश् चास्य प्रशाम्यन्ति । दैर्घ्यग्लान्यम् अवमार्जनमात्रेण प्रशमं गच्छति । दिने दिने स्वाध्यायं कुर्यान् महाप्राज्ञो भवति । तेजोबलवीर्यप्रतिभानसंपन्नो भवति । सर्वपापकर्मावरणानि चास्य नियतवेदनीयानि निरवशेषं परिक्षयं यास्यन्ति । सर्वबुद्धबोधिसत्त्वदेवनागयक्षादीनि चास्य ओजोबलवीर्यं काये प्रक्षेप्स्यन्ति । महाप्रीतिबहुलो भविष्यति । अन्तशो महाब्राह्मण इयं महाविद्यामन्त्रपदरक्षा तिर्यग्योनिगतानाम् अपि मृगपक्षिणां कर्णपुटे निपतिष्यति ते सर्वे ऽवैवर्तिका भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ । कः पुनर् वादो य इमां महाप्रतिसरां धारणीं श्राद्धः कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा राजा वा राजपुत्रो वा ब्राह्मणो वा क्षत्रियो वा तदन्यो वा यः कश्चित् सकृच् छ्रोष्यति श्रुत्वा च महत्या श्रद्धया गौरवेणाध्याशयेन लिखिष्यति लिखापयिष्यति धारयिष्यति वाचयिष्यति तीव्रेण मनसा भावयिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति तस्य महाब्राह्मण अष्टाव् अकालमरणानि सर्वथा न प्रतिकाङ्क्षितव्यानि । न चास्य काये महाव्याधयो भविष्यन्ति । न चास्य शरीरे ऽग्निर् न विषं न शस्त्रं न गरं न काखोर्दकिरणं न मन्त्रकर्म न चूर्णयोगो न चाङ्गशूलं न ज्वरो न शिरो
ऽर्तिर् वा । एकाहिकद्वैतीयकत्रैतीयकचातुर्थकसप्ताहिका वा ज्वराः काये न क्रमिष्यन्ति । स स्मृत एव सुखं स्वपिति । स्मृत एव विबुध्यते । महापरिनिर्वाणलाभी भविष्यति । सकृत् सहधर्मेण महति महैश्वर्यं चाधिगच्छति । यत्र यत्रोपपद्यते तत्र तत्र जातौ जातौ जातिस्मरो भविष्यति । सर्वसत्त्वानां च प्रियो भविष्यति । वन्दनीयश् च भविष्यति । सर्वनरकतिर्यग्योनिगतिगहनप्रेतोपपत्तिभ्यश् च परिमुक्तो भविष्यति । यथा चार्कमण्डलं सर्वसत्त्वानां तथा रश्म्येव भासकरो भविष्यति । यथा चन्द्रमण्डलम् अमृतेन प्रभवतां सर्वसत्त्वानां कायं प्रह्लादयति तथा धर्मामृतेन सर्वसत्त्वानां चित्तसंतानानि प्रह्लादयिष्यति । सर्वदुष्टयक्षराक्षसभूतप्रेतपिशाचापस्मारडाकिनीग्रहविघ्नविनायकादयः सर्वे ऽस्य महाप्रतिसरविद्याराजप्रभावेन न शक्ता विहेठनां कर्तुम् । उपसंक्रमतां च तेषाम् अयं महाविद्याराजा स्मर्तव्या । ततस् ते सर्वदुष्टचित्ता विद्याधरस्य वश्या आज्ञाश्रवणविधेया भवन्ति । अस्या एवानुभावेन यद् उत महाप्रतिसराविद्याराज्ञ्या न चास्य शत्रुभयं भविष्यति । अनतिक्रमणीयश् च भविष्यति सर्वशत्रुगणै राजराजमहामात्यैर् ब्राह्मणगृहपतिभिश् च । अन्तशो ऽपि च वध्यार्हो वधकपुरुषैर् उच्छ्रितान्य् अपि शस्त्राणि खण्डखण्डं गच्छन्ति पांसुमयानीव विशीर्यन्ते । तस्मिंश् च समये सर्वधर्मा अस्यामुखीभविष्यन्ति । महच् चास्य स्मृतिबलं भविष्यति ।
[48] रक्षोघ्नं परमं ह्य् एतत् पवित्रं पापनाशनम् । श्रीकरं धीकरं चापि सर्वगुणविवर्धनम् ॥ 1 ॥
सर्वमङ्गलकरी ह्य् एषा सर्वामङ्गलनाशनी । सुस्वप्नदर्शनी चापि दुःस्वप्नस्य विनाशनी ॥ 2 ॥
स्त्रीपुंसयोः परा रक्षा विद्येयं हि महाबला । अटवीकान्तारदुर्गेषु नित्यं मुञ्चति तत्क्षणात् ॥ 3 ॥
सर्वकामांश् च लभते संबुद्धवचनं यथा । पथ उत्पथम् आपन्न एतां विद्याम् अनुस्मरेत् ॥ 4 ॥
पन्थानं लभते शीघ्रं भोजनं पानम् उत्तमम् । कायेन मनसा वाचा यत् कृतं पूर्वजन्मसु ॥ 5 ॥
अशुभं बहुविधं किंचित् तत् सर्वं क्षपयिष्यति । स्मरणाद् धारणाच् चैव उद्ग्रहाल् लेखनाद् अपि ॥ 6 ॥
पठनाद् वाचनाच् चैव जपनात् परदेशनात् । भविष्यत्य् अचिरेणासौ सर्वधर्मगतिंगतः ॥ 7 ॥
एवं हि धर्मरसे प्राप्ते पापा गच्छन्ति संक्षयम् । सिध्यन्ते सर्वकार्याणि मनसा यद् यद् ईप्सितम् ॥ 8 ॥
सर्वमृत्युभयेष्व् एषा त्राणं तस्य भविष्यति । राजाग्निर् उदकं चैव विद्युद् वा तस्करो ऽपि वा ॥ 9 ॥
युद्धसंग्रामकलहा दंष्ट्रिणो ये च दारुणाः । ते सर्वे प्रलयं यान्ति विद्याया लक्षजापतः ॥ 10 ॥
विद्येमां परमां सिद्धां सर्वबुद्धेहि देशिताम् । कीर्तमाना न सीदन्ति बोधिसंभारपूरये ॥ 11 ॥
सर्वेषु चैव स्थानेषु इमां विद्यां प्रयोजयेत् । यानि चेच्छन्ति कार्याणि स्वपरार्थप्रसिद्धये ॥ 12 ॥
सिध्यन्त्य् अयत्नतस् तानि विद्यातो नात्र संशयः ।
[49] इदानीं सम्प्रवक्ष्यामि आतुराणां चिकित्सनम् । चतुरश्रं मण्डलं कुर्यान् मृद्गोमयसमन्वितम् ॥ 1 ॥
पञ्चरङ्गिकचूर्णेन चित्रयेन् मण्डलं शुभम् । चतुरः पूर्णकुम्भांश् च स्थापयेद् विधिना बुधः ॥ 2 ॥
पुष्पाण्य् अवकिरेत् तत्र धूपयेद् धूपम् उत्तमम् । बलिकर्म च कुर्वीत महासाहस्रप्रमर्दनम् ॥ 3 ॥
पूर्ववद् गन्धपुष्पांश् च दद्याच् चात्र विधानवित् । चतस्रस् तीरिकाः स्थाप्याः सर्वाश् च पट्टबद्धिकाः ॥ 4 ॥
स्नापयित्वातुरं पश्चाच् छुचिवस्त्रसमावृतम् । शुभगन्धानुलिप्ताङ्गं प्रवेशयेन् मध्यमण्डलम् ॥ 5 ॥
पूर्वामुखं निषाद्यैनं विद्याम् एताम् उदाहरेत् । सप्तशो जप्तया चास्य रक्षां कुर्याद् विचक्षणः ॥ 6 ॥
आतुरस्य ततो ऽर्थाय वारांश् चाप्य् एकविंशति । उदाहरेद् इमां विद्यां सर्वरोगोपशान्तये ॥ 7 ॥
भूयश् च सप्त वारान् वै बलिकुम्भसुमन्त्रितम् । पश्चान् निवेदयेन् मन्त्री बलिपुष्पान् यथाविधि ॥ 8 ॥
इत्य् एवं दक्षिणे पार्श्वे क्षिपेत सप्त एव तु । पश्चिमायां च सप्तैव उत्तरायां तथा दिशि ॥ 9 ॥
अध ऊर्ध्वं तु सप्तैव कृता रक्षा भविष्यति । एवं कृते द्विजश्रेष्ठ सर्वदुःखात् प्रमुच्यते ॥ 10 ॥
एषा रक्षा समाख्याता शाक्यसिंहेन तायिना । नास्त्य् अस्याः परा काचिद् रक्षाविद्या त्रिधातुके ॥ 11 ॥
[50] न तस्य मृत्युर् न जरा न रोगो न चाप्रियं नापि च विप्रयोगः । यस्येयं विद्या सुभाषितात्मा भविष्यति मृत्युगणेन पूजितः ॥ 1 ॥
यमो ऽपि तस्य वरधर्मराजा करिष्यते पूजां सगौरवेण । कथयिष्यते देवपुरं हि गच्छ क्षणिकं ममेदं नरकं करिष्यसि ॥ 2 ॥
ततो विमानैश् च बहुप्रकारैर् महर्द्धिको याति सुरालयं शुभम् । एवं ह्य् असौ किंनरयक्षराक्षसैः संपूजितस् तत्र सदा भविष्यति ॥ 3 ॥
[51] वज्रपाणिश् च यक्षेन्द्र इन्द्रश् चैव शचीपतिः । हारीती पाञ्चिकश् चैव लोकपाला महर्द्धिकाः ॥ 1 ॥
चन्द्रसूर्यौ सनक्षत्रौ ये ग्रहाः परमदारुणाः । ते च सर्वे महानागा देवता ऋषयस् तथा ॥ 2 ॥
असुरा गरुडा गन्धर्वाः किंनराश् च महोरगाः । नित्यानुबद्धा रक्षार्थं यस्य विद्या महाबला ॥ 3 ॥
लिखितां धारयेत् प्राज्ञो बाहौ बद्ध्वा महर्द्धिकाम् । महतीं लभते पूजां संपदं चापि नित्यशः ॥ 4 ॥
[52] इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ।
महाप्रतिसराया महाविद्याराज्ञ्या रक्षाविधानकल्पो विद्याधरस्यायं समाप्तः ।
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
