Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

गर्भावक्रान्त्यवदान

Tác giả
क्षेमेन्द्र
Thông tin
GRETIL — Michael Hahn: "Kṣemendras Garbhāvakrāntyavadāna (Sanskrittexte aus dem tibetischen Tanjur II)", Journal of the European Ayurvedic Society 5 (1997), pp. 82-112. = KAvk_10.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

क्षेमेन्द्र: गर्भावक्रान्त्यवदान

चम्पोपान्ते विमलनलिनीतीरपर्यन्तवसी शास्ता पूर्वं सकलभुवनानुग्रहाय प्रवृत्तह् / पृष्टः स्पर्शावगतिरुचिना (?) भिक्षुणानन्दनाम्ना गर्भारम्भात् प्रभृति जनताजन्मवृत्तिं जगाद // kavk_10.1 //

शुक्लैः कृष्णैः शबलरुचिभिर् देहिनां कर्मसूत्रैश् चित्रं लोके बहुतरदशं दृश्यते जन्मवस्त्रम् / जीर्णस्यापि व्यसनमलिनस्नेहलीनः प्रयत्नैर् यस्यात्यन्तं चिरपरिणतेर् नैव निर्याति रागः // kavk_10.2 //

पुंसः शुक्रं विगलितधृतेर् आर्तवं योषितश् च स्पर्शावेशव्यतिकरजुषोः संगमे संनिपातात् / एकीभूतं व्रजति नियमात् कस्य चिद् बीजभावं यो ऽन्तस् तस्मिन् भवति सहसा संनिकाषे यथाग्निः // kavk_10.3 //

रागोद्गारः स्फटिकशकलं मेघम् अम्भोधिपाथः पुष्पामोदस् तिलं इव शनैः काञ्चनं वाग्नितापः / सो ऽयं गर्भं विशति नियतैर् अप्य् असंलक्ष्यवृत्तिर् वायुर् गन्धैर् इव बहुविधैः कर्मभिर् वास्यमानः // kavk_10.4 //

तस्मिन् सूक्ष्मक्रमपरिणतिर् मीनपर्युष्टके (?) ऽसौ नानाकारप्रचुररचनाचित्ररूपो ऽप्य् अलक्ष्यः / कं चित् कालं वहति विकृतिं निर्विकारायमानो मायूराण्डे जलमय इव व्यक्तभक्तिर् मयूरः // kavk_10.5 //

तत्राधानाद् घनकललताशल्यपेश्याद्यवस्थास् त्यक्त्वा तास् ता जठरजनितेनोष्मणा पच्यमानः / पूर्णैर् मासैर् नवभिर् अथवावर्तकर्मक्रमो ऽसौ क्लेशं भुङ्क्ते किम् अपि विषमं दुःखसंज्ञाप्रपन्नः // kavk_10.6 //

काले वृन्तात् स्वयं इव फलं विच्युतं कर्मपाकात् तत्कालोत्थैर् अविहतजवैः प्रेरितः पूतिवातैः / लक्ष्याभ्यासायतनसचिवैर् आचितः कर्मबन्धैर् निर्यात्य् अन्तः शर इव धनुर्यन्त्रणैर् यन्त्रमुक्तः // kavk_10.7 //

उत्तानास्यः सरलरसनश् चूचुकाग्रं लिहानः स्तन्यं मातुः पिबति यद् असौ नैव कर्णेन नाक्ष्णा / जन्माभ्यासव्यसनयतनायाससंवासलिना सा तस्याग्रे सकलकलनादेशिनि वासनैव // kavk_10.8 //

स्यूतैर् अन्तर् विविधविषयस्वादसंपादभेदैर् व्याप्तः सूतैर् (?) बिसलव इव व्यक्ततन्तुप्रतानैः / मूधः सो ऽथ प्रकृतिसचिवैर् इन्द्रियैर् दत्तसम्ज्ञः स्तन्यालापाकृतिपरिमलस्पर्शनैर् वेत्ति धात्रीम् // kavk_10.9 //

हस्ताकर्षैः शयनवसनाघर्षणैः पीड्यमानः स्थाने स्थाने तरलिततनुः कीटकैर् भक्ष्यमाणः / नित्याक्रन्दी वचनविरहात् कायिकीं क्लेशशैलीं कं बोब्रूते विषमविपदाम् आस्पदत्वं प्रयातः // kavk_10.10 //

पीडोद्वान्तैश् छुरितवदनः प्रोच्छलत्क्षीरपूरैर् उत्तानोरस्तलनिपतितैर् उक्षितो लक्ष्यते ऽसौ / मायावध्वाः स्मरणहरणप्रौढकेलीविलासे हासेनेव स्फुरितरुचिना निर्भरव्याप्तकायः // kavk_10.11 //

सो ऽथ प्राप्ते लिपिपरिचये हेलया दत्तहस्ते संसारे ऽस्मिन्न् अविचलितया बन्धलेख्यक्रियासु / जन्मावर्तं निजं इव लिखन् दीर्घं ओंकारम् आदौ वर्गे वर्गे वितरति मतिं भोगसर्गे निविष्टः // kavk_10.12 //

प्राप्तप्रज्ञः कथम् अपि गलद्बालभावप्रमोहः कामौत्सुक्यात् पुनर् अपि परे यौवने नष्टसंज्ञः / निःसारेषु व्यसनविलसद्मेघसौदामिनीनां बध्नात्य् आस्थां स्थिरतरधिया योषितां विभ्रमेषु // kavk_10.13 //

वाचि श्रोत्रं वपुर् अपि चलालिङ्गनेष्व् अङ्गनानां घ्राणं वक्त्रासवपरिमले स्वादनं तद्रसे च / पात्रे कुर्वन् दृशम् अपि मुखे सुप्तसर्वक्रियो ऽसौ धत्ते मात्रं तनुपरिणतांनीव सर्वेन्द्रियाणि // kavk_10.14 //

द्वेष्टि स्निग्धं परिचितपरिद्वेषशीलः स कामी वाञ्छत्य् अन्यां नवनवरसः सप्रयत्नो ऽन्यकामाम् / इत्य् अन्योन्यानुचितचरितालक्ष्यवैलक्ष्यसाक्षी हास्यायैव प्रकृतिविरसश् चित्रतन्त्रो ऽस्य कामः // kavk_10.15 //

अल्पाधारे विषयजलधौ मज्जतः सज्जतश् च भ्रष्टस्यास्य प्रतिहतगतेः कुञ्जरस्येव पङ्के / किंकर्तव्यावगतिरहिता जायते मोहमूर्च्छा नीतस्यान्ध्यं कतिपयदिनस्थायिना यौवनेन // kavk_10.16 //

यावत्कालं भ्रमति चलति प्रीयते जृम्भते ऽसौ स्मेरं स्मेरं वदति मदनालिङ्गितैर् अङ्गभङ्गैः / तावत् तस्योपरि परिपतर्य् एव कालप्रमुक्ता प्रालेयालीधवलपलितच्छद्मना वध्यमाला // kavk_10.17 //

काले काले क्षणकलनया मोहनिद्रावशेन प्राप्तं नास्मिन् वपुषि सुकृतं नैव दत्तं न भुक्तं / इत्थं चौरैर् इव स मुषितश् चिन्तयत्य् एव दुःखात् संमूढानां अनुशयफलः सो ऽवसादप्रमादः // kavk_10.18 //

तस्मिन् याते ललितवनितापुष्पवल्लीवसन्ते दुष्कर्माप्तद्रविणतुलया यौवने स्वप्नकल्पे / नष्टाशेषप्रकृतिर् अखिलैः खेदिताङ्गैर् विरक्तैर् राज्यभ्रंशे नृप इव सुखं सो ऽथ शोचत्य् अतीतं // kavk_10.19 //

आयुर् नीतं न च समुचितं याचकायोपनीतं नाप्य् उन्नीतं दिशि दिशि यशः सत्पथं न प्रतीतं पीतं याच्ञाविषम् अधिगतं स्फीतसंतापशीतं भीतं पापात् किम् अपि न मया यत् तद् एव प्रणीतं // kavk_10.20 //

क्वासौ हेमद्रुमरुचिहरा हारिणी यौवनश्रीः कायः क्वायं कृमिहततरुप्रायविच्छायपाकः / दूराद् एताः परिहृतदृशाः कोणलीनं तरुण्यः शुष्कं शीतं तरुम् इव वने वानरं मां वदन्ति // kavk_10.21 //

सो ऽयं कायः श्रयति विलयं नैव मायानिकायः स्रस्ताः सर्वे दशनमणयस् ते च केशाः न दोषाः / गात्रोत्साहे प्रहरति मरुन् नैव मोहप्ररोहे क्षीणस्येयं शयनशरणस्यापि तृष्णाक्षया मे // kavk_10.22 //

संचिन्त्येति प्रसृतविषमश्वासहिक्कार्दितो (?) ऽसौ सद्यस् त्यक्तुं चिरपरिचिताम् उद्यतो लोकयात्राम् / मूकिभूतः स्वजनविरहं ध्यायति ध्वस्तधैर्यः शक्तिच्छेदाद् ऋणं इव महत् प्राप्तकालो दरिद्रः // kavk_10.23 //

भूमिं गेहं वसु परिजनं पुत्रदारादि चान्यत् तावत् तावत् कलयति धिया प्राणपर्यन्तकाले / यावज् जन्मन्य् अपि पुनर् असौ स्नेहमोहानुबन्धैस् तैस् तैर् अन्तः कृतपरिचयस् तन्मयीभावम् एति // kavk_10.24 //

दुःखं दुःसहपापकर्मजनितं कुम्भीसहस्रान्तरे भुक्त्वा रौरवकालसूत्रनरकेष्व् आवर्तते योनिषु / यद् वा पुण्यकलार्जितं सुखपदं तत् संक्षये दुःखदं सानागामिफलाप्तये विमलधीस् तस्मात् समाधीयतां // kavk_10.25 //

इति भीमभवाम्भोधिसंतारणकृतव्रतः / समादिदेश भगवान् सत्त्वानां कुशलाप्तये // kavk_10.26 //

/ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां गर्भावक्रान्तिनिर्देशो नाम दशमः पल्लवः /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.