Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
काश्यपपरिवर्तसूत्र
- Thông tin
- GRETIL — M.I. Vorobyova-Desyatovskaya (in collaboration with S. Karashima and N. Kudo): The Kāśyapaparivarta, Romanized Text and Facsimiles, Tokyo 2002 (Bibliotheca Philologica et Philosophica Buddhica, V).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
काश्यपपरिवर्तसूत्र
म्स्स्: सि प्/2, सि प्/85अ; होएर्न्ले 143 स्.b.38+39+मन्नेर्हेइम् 3; sht i 374
fol. 1v (kp-si p/2) 1 सिद्धम्* एवं मया श्रुतम् एकस्मिं समये भगवान् राजगृहे विहरति स्म / गृद्धकूटे पर्वते 2 महता भिक्षुसंघेन सार्धम् अष्टाभिर् भिक्षुसहस्रैः षोडशभिश् च बोधिसत्वसहस्रैः नानाबुद्धक्षेत्रसंनिपतितैर् 3 एकजातिप्रबद्धैर् यदुतानुत्तरस्यां सम्यक्सम्बोधौ / तत्र भगवान् आयुष्मन्तं 4 महाकाश्यपम् आमन्त्रयति स्म / 1 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य प्रज्ञापारिहाणाय 5 संवर्तन्ते / कतमे चत्वारः यदुत अगौरवो भवति धर्मे च धर्मभाणके च / धर्ममात्सरः
fol. 2r (kp-si p/2) 1 च भवति / धर्माचार्यमुष्टिञ् च करोति धर्मकामानञ् च पुद्गलानां धर्मान्तरायं करोति / विच्छन्दयति 2 विक्षिपति / न देशयति / प्रतिच्छादयति / आभिमानिकश् च भवत्य् आत्मोत्कर्षी परपंसकः इमे 3 काश्यप चत्वारो धर्मा बोधिसत्वस्य प्रज्ञापारिहाणाय संवर्तते / तत्रेदम् उच्यते // अगौरवो 4 भवति च धर्मभाणके धर्मेषु मात्सर्यरतो च भोति / आचार्यमुष्टिं च करोति धर्मे धर्मार्थिकाना 5 च करोति विघ्नम्* विच्छन्दयन्तो विविधं क्षिपन्तो धर्मं न देशयति जिनप्रशस्तान्* सो आत्म उत्कर्षणि
fol. 2v (kp-si p/2) 1 नित्ययुक्तो परपंसने चाभिरतः कुसीदो / चतुरो इमे धर्मा जिनेन प्रोक्ता प्रज्ञाप्रहाणाय 2 जिनोरसानाम् एतां हि चत्वारि जहित्वा धर्माश् चतुरो परां धर्मजिनोक्त भावयेत्* // 3 2 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य महाप्रज्ञातायै संवर्तन्ते / कतमे चत्वारः 4 यदुत सगौरवो भवति धर्मे च धर्मभाणके च / यथाश्रुतांश् च धर्मान् यथापर्याप्तान् 5 परेभ्यो विस्तरेण संप्रकाशयति / निरामिषेण चित्तेन न प्रतिकांक्षयति श्रवणं
fol. 3r (kp-si p/2) 1 लाभसत्कारश्लोकं बाहुश्रुत्येन च प्रज्ञागमं विदित्वा / आदिप्तशिरश्चैलोपमः श्रुतं 2 पर्येषते श्रुताश् च धर्मान् धारयति / प्रतिपत्तिसारश् च भवति न व्याहारपदवाक्यपरमः 3 इमे काश्यप चत्वारो धर्माः बोधिसत्वस्य महाप्रज्ञतायै संवर्तन्ते 4 इदम् उवाच भगवांस् तत्रेदम् उच्यते // सगौरवो भवति च धर्मभाणके 5 यथाश्रुतान् धर्म परेषु भाषते / निरामिषश् चाप्रतिकांक्षमाणो न लाभसत्कारशिलोक
fol. 3v (kp-si p/2) 1 .य्. तः श्रुतेन प्रज्ञागम सो विदित्वा आदीप्तशीर्षः श्रुतम् एषते सदा / यथाश्रुतान् धारयती 2 च धर्मान् धारित्व धर्मा प्रतिपत्तिया स्थितः प्रतिपत्तिसारो च स भोति पण्डितो न वाक्प + + + 3 तपरो च भोति : चत्वार्ऽ इमा धर्म भजन्त पण्डिताः प्रज्ञाम् अनाप्नोति जिनप्रशस्ता : 3 चतुर्भिः 4 काश्यप धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति कतमैश् चतुर्भिः यदुताचार्यगुरुदाक्षिणीयविसंवादनतया / 5 परेषाम् अकौकृत्ये कौकृत्योपसंहारणतया महायानसंप्रस्थितानां
fol. 4r (kp-si p/2) 1 च सत्वानाम् अवर्णायशकीर्तिशब्दश्लोकनिश्चारणतया / मायाशाठ्येन च परम् उपचरति नाध्याशयेन / 2 एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्वस्य बोधिचित्तं मुह्यति / इदम् उवाच भगवां 3 तत्रेदम् उच्यते // गुरुदाक्षिणीये न करोति प्रोक्तुं परेषु कौकृत्य्ऽ उपसंहरन्ति / बोधाय संप्रस्थित 4 ये च सत्वास् तेषाम् अवर्णम् अयशं भणन्ति / मायाय शाठ्येन च केतवेन परं च सेवन्ति 5 च नाशयेन / चतुरो इमे धर्म निषेव्यमाना मोहेन्ति चित्तं वरबुद्धबोधये : तस्माद् इमान् धर्म निषेवमाणो
fol. 4v (kp-si p/2) 1 वराग्रबोधाय सुदूरि वर्तते / .. ताद्विपरीतस् तु निषेवमाणो वराग्रबोधिं स्पृशति प्रशास्तां 4 चतुर्भिः 2 काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य / सर्वासु जातिषु जातमात्रस्य बोधिचित्तम् आमुखीभवति 3 न चान्तरा मुह्यति यावद् बोधिमण्डनिषदनात्* कतमैश् चतुर्भिः यदुत जीवितहेतोर् अपि संप्रजान 4 मृषावादं न भाषते / अन्तमश हास्यप्रेक्ष्यम् अपि / अध्याशयेन च सर्वसत्वानाम् अन्तिके तिष्ठत्य् अपगतमायाशाठ्यतया / 5 सर्वबोधिसत्वेषु च शास्तृसंज्ञाम् उत्पादयति / चतुर्दिशं च तेषां वर्णं परिचारयति /
fol. 5r (kp-si p/2) 1 याश् च सत्वान् परिपाचयति तान् सर्वान् उत्तरस्यां सम्यक्सम्बोधौ समादापयति + + प्रादेशिकयानस्पृहणतया / 2 एभिः काश्यप चतुर्भिः धर्मैः समन्वागतस्य बोधिसत्त्वस्य सर्वासु जातिषु 3 जातमात्रस्य बोधिचित्तम् आमुखीभवति न चान्तरां मुह्यति यावद् बोधिमण्डनिषदनात्* तत्रेदम् 4 उच्यते / 4 // न जीवितार्थे अनृतं वदन्ति भाषन्ति वाचं सद अर्थयुक्तां / मायाय शाठ्येन च नित्य 5 वर्जिता अध्याशयेन सद सत्व पश्यति / बोधाय ये प्रस्थित शुद्धसत्वा शास्तेति तान् मन्यति बोधिसत्वान्*
fol. 5v (kp-si p/2) 1 वर्णं च तेषां भणते चतुर्दिशं शास्तार संज्ञां सद्ऽ उपस्थपित्वा 2 यांश् चापि सत्वान् परिपाचयति अनुत्तरे ज्ञानि 2 समादपेति एतेषु धर्मेषु प्रतिष्ठितानां चित्तं न बोधाय कदाचि मुह्यति : 3 //
5 चतुर्भिः काश्यप धर्मैः 3 समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्ना कुशला धर्माः पर्यादीयन्ते यैर् न विवर्धति कुशलैर् 4 धर्मैः कतमैश् चतुर्भिः यदुत अभिमानिकस्य लोकायतनमन्त्रपर्येष्ट्या / लाभसत्काराध्यवसितस्य 5 कुलप्रत्यवलोकनेन / बोधिसत्वविद्वेषाभ्याख्यानेन / अश्रुतानाम् अनुद्दिष्टानां च सूत्रान्तानां प्रतिक्षेपेण :
fol. 6r (kp-si p/2) 1 एभिः काश्यप चतुर्भिर् धर्मैः समन्वागतस्य बोधिसत्वस्योत्पन्नोत्पन्ना कुशला धर्माः पर्यादीयन्ते यैर् न 2 विवर्धते कुशलैर् धर्मैः तत्रेदम् उच्यते 5 // लोकायिकम् एषति आभिमानिको कुलानि च योजयति लाभार्थतो 3 2 बुद्धौरसा द्विषते च बोधिसत्वांस् तेषाम् अवर्णं भणते समन्तात्* नोद्दिष्ट नो चापि श्रुतासूत्रान्ता हितेन 4 क्षिपीत इमि जिनेन प्रोक्तान् तम् एहि धर्मेहि समन्वितस्य कुशलेषु धर्मेषु न वृद्धिर् अस्ति / तस्माद् धि पण्डित 5 बोधिसत्वो दूरान् विजह्याच् चतुरो पि धर्मान्* इमा निषेवन्त सुदूरि बोधये नभं व भूमीय सुदूरदूरे // 6 चतुर्भिः
fol. 6v (kp-si p/2) 1 काश्यप धर्मैः समन्वागतो बोधिसत्वः अपरिहाणधर्मो भवति विशेषगामितायै : कतमैश् चतुर्भिः सुश्रुतं 2 पर्येषते न दुश्रुतं / यदुत षट्पारमिताबोधिसत्वपिटकपर्येष्टि श्वसदृशश् च भवति निर्मानतया 3 सर्वसत्वेषु धर्मलाभसंतुष्टश् च भवति / सर्वमिथ्याजीवपरिवर्जितः आर्यवंशसंतुष्टः नापताया 4 चापत्या न परांश् चोदयति / न च दोषान्तरस्खलितगवेषी भवति / येषु चास्य बुद्धिर् न गाहते 5 तत्र तथागतम् एव साक्षीति कृत्वा न प्रतिक्षिपति / तथागत एव जानाति नाहं जाने अनन्ता बुद्धबोधिर्
fol. 7r (kp-si p/2) 1 नानाधिमुक्तिकानां सत्वानां यथाधिमुक्तिकतया धर्मदेशना प्रवर्तते / एभिः काश्यप चतुर्भिर् धर्मैः समन्वागतो 2 बोधिसत्वः अपरिहाणधर्मो भवति विशेषगामितायै / तत्रेदम् उच्यते 6 // नित्यं च सो पारमितासु 3 युक्तो उपायकौशल्य्ऽ अथ बोधिपीटके / निर्मानतायाश् च श्वचित्तसादृशो सर्वे च सत्वेषु निर्मानतः सेवति 4 तुष्टश् च लाभेन स धार्मिकेन आजिवशुद्धो स्थित आर्यवंशे / परं च नापत्तिषु चोदयन्तो स्खलितं परेषां 5 न गवेषमाणो 2 न गाहते यत्र च बुद्धिर् अस्य तथागतं साक्षिकरोति तत्र / नाहं प्रजानामि जिनो प्रजानते
fol. 7v (kp-si p/2) 1 अनन्त बोधि सुगतेन भाषिता 3 इमा तु धर्माश् चतुरो विदित्वा न हापये जातु विशेषम् उत्तमम्* इमेषु धर्मेषु प्रतिष्ठितस्य 2 न दुर्लभा बोधि जिनप्रशस्ता //
7 चत्वार इमे काश्यप कुटिलाश् चित्तोत्पादास् तेन बोधिसत्वेन परिवर्जितव्याः 3 कतमे चत्वार यदुत कांक्षा विमतिर् विचिकित्सा सर्वबुद्धधर्मेषु / मानमदम्रक्षक्रोधव्यापादाः 4 सर्वसत्वेषु इर्ष्यामात्सर्यं परलाभेषु अवर्णायशोकीर्तिशब्दश्लोकनिश्चारणतया बोधिसत्वेषु 5 इमे काश्यप चत्वारः कुटिलाश् चित्तोत्पादास् तेन बोधिसत्वेन परिवर्जितव्याः तत्रेदम् उच्यते 7 // धर्मेषु कांक्षां विमतिं
fol. 8r (kp-si p/2) 1 च कुर्वति सत्वेषु मानं मद क्रोधं सेवति / मात्सर्यम् इर्ष्या परलाभ कुर्वते जिने प्रसादं च न करोति कुदाचन 2 अकीर्त्य् अवर्णम् अयशं च चारयी सो बोधिसत्वेषु सदा अविद्वान्* चत्वारि चित्ता कुटिला विवर्जयेत् स्यात् सत्वपक्षं 3 सद बोधिसत्वः 2 //
8 चत्वार इमे काश्यप ऋजुकस्य बोधिसत्वस्य ऋजुकलक्षणानि भवन्ति कतमानि 4 चत्वारि / यदुत आपत्ति-आपन्नो न प्रच्छादयत्य् आचष्टे विवृणोति निष्पर्युत्थानो भवति / येन सत्यवचनेन 5 राज्यपारिहाणिर् वा धनपारिहाणिर् वा कायजीवितान्तरायो भवेत् तत् सत्यवचनं न विगूढ +
fol. 8v (kp-si p/2) 1 नान्येनान्यं प्रतिनिसृत्य वाचा भाषते / सर्वपरोपक्रमेषु चाक्रोशपरिभाषणकुत्सनपंसनताडनतर्जनवधबन्धनापराधेष्व् 2 आत्मापराधी भवति / कर्मविपाकप्रतिसरणो न परेषां कुप्यति नानुशयं 3 वहति / स श्रद्धाप्रतिष्ठितश् च भवति / सर्वाश्रद्धेयान् अपि बुद्धधर्मा श्रद्दधाति आशयशुद्धताम् 4 उपादाय / इमे काश्यप चत्वारो ऋजुकस्य बोधिसत्वस्य ऋजुकलक्षणानि भवन्ति / तत्रेदम् उच्यते 8 //
5 आपत्तिम् आपन्न न च्छादयन्ति कथेन्ति विवरन्ति च एति दोषान्* धनराज्यहेतो न च जीवितार्थं मृषा
fol. 9r (kp-si p/2) 1 वदन्ते विदधीय संज्ञाम्* आक्रोशनाकुत्सनपंसनासु वधेषु बन्धेष्व् अवरोधनेषु / आत्मापराधी न परेषु
2 कुप्यते कर्मस्वको नानुशयं वहन्तो : 2 स श्रद्दधाति सुगतान बोधिं श्रद्धास्थितो आशयि शुद्धि युक्तो 3 ऋजुकलक्षणा ह्य् एति जिनेन प्रोक्ता वराग्रसत्वेन निषेवितव्याः 3 //
9 चत्वार इमे काश्यप बोधिसत्वखडुंकाः 4 कतमे चत्वारः श्रुतोद्धतधर्मविहारी च भवति न च प्रतिपद्यते धर्मानुधर्मप्रतिपत्तिं / अनुशासनेन्ऽ 5 उद्धतधर्मविहारी च भवति / न च शुश्रूषत्य् आचार्योपाध्यायानां / श्रद्धादेयं विनिपातयति च्युतप्रतिज्ञश्
fol. 9v (kp-si p/2) 1 च श्रद्धादेयं परिभुंक्ते / दान्ताजानेयप्राप्ताश् च बोधिसत्वां दृष्ट्वा अगौरवो भवति मानग्राही / इमे 2 काश्यप चत्वारो बोधिसत्वखडुंकाः तत्रेदम् उच्यते 9 // श्रुतेन औद्धत्यविहारि भोति न चोद्धतो गच्छति आनुशासनिं / 3 सो उद्धतो सेवति सर्वधर्मान् शुश्रूषते न च आर्यां कथंचित्* च्युतप्रतिज्ञो परिभुंजते सदा 4 श्रद्धाय दिन्नानि सुभोजनानि / आजन्यप्राप्तान् अपि बोधिसत्वान् पश्यित्व नो गौरवता करोति / 2 मानं 5 च सो बृंहयते खडुंको निर्माण नो सेवति बोधिसत्वान्* एते खडुंका सुगतेन प्रोक्ता जिनात्मजास् ते परिवर्जनीयात्* 3 //
fol. 10r (kp-si p/2) 1 10 चत्वार इमे काश्यप आजानेया बोधिसत्वाः कतमे चत्वारः सुश्रुतं श्रुणोति तत्र च प्रतिपद्यते / 2 अर्थप्रतिसरणश् च भवति न व्यंजनप्रतिसरणः प्रदक्षिणग्राही भवत्य् अववादानुशासने / सुवचाः 3 सुकृतकर्मकारी च भवति / गुरुशुश्रूषनिर्यातः आजानेय भोजनानि च परिभुंक्ते / अच्युतशीलसमाधिर् 4 दान्ताजानेयाप्राप्तांश् च बोधिसत्वां दृष्ट्वा सगौरवो भवति सप्रतीशः तन्निम्नः तत्प्रवणः तत्प्राग्भारः 5 तद्गुणप्रतिकांक्षी / इमे काश्यप चत्वारो आजानेया बोधिसत्वाः तत्रेदम् उच्यते 10 // श्रुणोति यं सुश्रुत
fol. 10v (kp-si p/2) 1 तं करोति धर्मार्थसारो प्रतिपत्तिसुस्थितः प्रदक्षिणं गृह्णति आनुशासनीं सुवचो गुरु सेवति धर्मकाम / शीले 2 समाधौ च सदा प्रतिष्ठितो / सुभोजनं भुंजति शीलसंवृतः सगौरवो भवति च सप्रदेशो तन्निम्न तत्प्रोणु 3 गुणाभिकांक्षि 2 आजन्यप्राप्ताश् च जिनोरसा ये प्रेमेण तां पश्यति नित्यकालम्* चत्वार एते सुगतोपदिष्टा 4 आजन्यप्राप्ता सुगतस्य पुत्राः 3 //
11 चत्वार इमे काश्यप बोधिसत्वस्खलितानि / कतमानि चत्वारि 5 अपरिपाचितेषु सत्वेषु विश्वासो बोधिसत्वस्य स्खलितं / अभाजनीभूतेषु सत्वेषूदारबुद्धधर्मसंप्रकाशनता
fol. 11r (kp-si p/2) 1 बोधिसत्वस्य स्खलितं / उदाराधिमुक्तिकेषु सत्वेषु हीनयानसंप्रकाशना बोधिसत्वस्य स्खलितं / सम्यक्प्रत्युपस्थितेषु 2 सत्वेषु शीलवत्सु कल्याणधर्मेषु प्रतिमानना दुःशीलपापधर्मसंग्रहो बोधिसत्वस्य स्खलितं / 3 इमानि काश्यप चत्वारो बोधिसत्वस्खलितानि / तत्रेदम् उच्यते 10 // न विश्वसेयापरिपाचितेषु अभाजने 4 धर्म उदार नो भणे / उदारधर्मेषु न हीनयाने प्रकाशये जातु स बोधिसत्वो / सम्यक्स्थितां शीलगुणोपपेतान् 5 कल्याणधर्मा न विमानयेत / दुःशीलसत्वा न परिग्रहेया पापं च धर्मं परिवर्जयेत : स्खलितानि
fol. 11v (kp-si p/2) 1 चत्वारि इमानि ज्ञात्वा विवर्जयेद् दूरत बोधिसत्वः इमा निषेवन्तु न बोधि बुद्ध्यते तस्माद् विवर्जेद् इमि धर्म 2 पण्डितः 3 //
12 चत्वार इमे काश्यप बोधिसत्वमार्गाः / कतमे चत्वारः समचित्तता सर्वसत्वेषु / 3 बुद्धज्ञानसमादापनता सर्वसत्वेषु समधर्मदेशना सर्वसत्वेषु सम्यक्प्रयोगता सर्वसत्वेषु / 4 4 इमे काश्यप चत्वारो बोधिसत्वमार्गाः तत्रेदम् उच्यते 12 // समचित्त सत्वेषु भवेत 5 नित्यं समादपेया-द्-इह बुद्धयाने / धर्मं च देशेत जिनप्रशस्तं सर्वेषु सत्वेषु प्रसन्नचित्तो / सम्यक्प्रयुक्ता
fol. 12r (kp-si p/2) 1 प्रतिपत्तिसुस्थितो सर्वेषु सत्वेषु समं चरेत / मार्गान् इमांश् चतुर जिनप्रशस्तां जिनोरसा सद तं 2 भावयन्ति / 3 //
13 चत्वार इमे काश्यप बोधिसत्वस्य कुमित्राणि कुसहायास् ते बोधिसत्वेन परिवर्जयितव्या / 3 कतमानि चत्वारि / श्रावकयानीयो भिक्षु आत्महिताय प्रतिपन्नः प्रत्येकबुद्धयानीयो 4 ऽल्पार्थो ऽल्पकृत्यः लोकायतिको विचित्रमन्त्रप्रतिभानः यं च पुद्गलं सेवमान ततो लोकामिषसंग्रहो 5 भवति न धर्मसंग्रहः इमे काश्यप चत्वारो बोधिसत्वस्य कुमित्राणि कुसहायास् ते बोधिसत्वेन परिवर्जयितव्याः
fol. 12v (kp-si p/2) 1 तत्रेदम् उच्यते // ये श्रावका आत्महिताय युक्ता योगं च ये प्रव्रजिताश् चरन्ति / प्रत्येकबुद्धा पि 2 च ये ऽल्पकृत्या अल्पार्थसंसर्ग विवर्जयन्ति / लोकायतं ये च पठन्ति बाला विग्राहिका यत्र कथोपदिष्टा / 3 यं सेवमानामिषसंग्रहो भवेद् भवेन् न धर्मस्य च संग्रहो यहिम्* 2 तान् बोधिसत्वाश् चतुरो 4 प्रहाय कल्याणमित्राश् चतुरो भजन्ति / एते कुमित्रा कुसहाय-य्-उक्ता जिनेन दूरात् परिवर्जनीया / 3 //
14 चत्वार इमे काश्यप बोधिसत्वस्य भूतकल्याणमित्राणि / कतमानि चत्वारि / याचनको बोधिसत्वस्य
fol. 13r (kp-si p/2) 1 भूतकल्याणमित्रं बोधिमार्गोपस्तंभाय संवर्तते धर्मभाणको बोधिसत्वस्य भूतकल्याणमित्रं 2 श्रुतप्रज्ञोपस्तंभाय संवर्तते / प्रव्रज्यासमादपको बोधिसत्वस्य भूतकल्याणमित्र सर्वकुशलमूलोपस्तंभाय 3 संवर्तते / बुद्धा भगवन्तो बोधिसत्वस्य भूतकल्याणमित्र सर्वबुद्धधर्मोपस्तंभाय 4 संवर्तते / इमे काश्यप बोधिसत्वस्य भूतकल्याणमित्राणि तत्रेदम् उच्यते / 12 // कल्याणमित्रं 5 स च दायकानां प्रतिग्राहको बोधिपरिग्रहाय / धर्मार्थवादी श्रुतप्रज्ञकारी कल्याणमित्रं सुगतेन
fol. 13v (kp-si p/2) 1 प्रोक्तं / प्रव्रज्य ये चापि समादपेन्ति ते मित्र मूलं सुगतस्य वुक्ताः बुद्धाश् च मित्रं सुगतात्मजानां सम्बुद्धमार्गस्य्ऽ 2 उपस्तम्भनाय : एते हि चत्वारि जिनप्रशस्ता कल्याणमित्रा सुगतात्मजानां / एतां निषेवन्त 3 सदाप्रमत्ता प्राप्नोति बोधी सुगतोपदिष्टा / 3 //
15 चत्वार इमे काश्यप बोधिसत्वप्रतिरूपकाः 4 कतमे चत्वारः / लाभसत्कारार्थिको भवति न धर्मार्थिकः कीर्तिशब्दश्लोकार्थिको भवति न गुणार्थिकः 5 आत्मसुखार्थिको भवति न सत्वदुःखापनयनार्थिकः पर्षद्गणार्थिको भवति न
fol. 14r (kp-si p/2) 1 विवेकार्थिकः इमे काश्यप चत्वारो बोधिसत्वप्रतिरूपकाः तत्रेदम् उच्यते 14 // लाभार्थिको भवति न धर्मकामो 2 कीर्त्यर्थिको न्न्ऽ एव गुणेभिर् अर्थिकः न सत्वदुःखापनयेन चार्थिको यो चात्मनो नित्य सुखेन चार्थिकः 3 पर्षद्गणार्थी न विवेककामो सुखे प्रसक्तो न गुणेषु सक्तो / चत्वार एते प्रतिरूपकोक्ताः ते 4 बोधिसत्वात् परिवर्जनीया 2 //
16 चत्वार इमे काश्यप बोधिसत्वस्य भूता बोधिसत्वगुणा / कतमे चत्वार 5 शुन्यतां चाधिमुच्यते / कर्मविपाकं चाभिश्रद्दधाति / नैरात्म्यं चास्य क्षमते सर्वसत्वेषु महाकरुणा
fol. 14v (kp-si p/2) 1 निर्वाणगतश् चास्याशयः संसारगतश् च प्रयोगः सत्वपरिपाकाय च दानं विपाकाप्रतिकांक्षनता च / इमे 2 काश्यप चत्वारो धर्मा बोधिसत्वस्य भूता बोधिसत्वगुणा तत्रेदम् उच्यते 15 // शुन्याश् च धर्मान् अधिमुच्यते 3 सदा विपाक पत्तीयति कर्मणं च / नैरात्मक्षान्त्या समताप्रतिष्ठितो करुणां च सत्वेषु जनेति 4 नित्यं / निर्वाणि भावो सद तस्य भोति प्रयोग संसारगतश् च तस्य / परिपाचनार्थं च ददाति दानं विपाक 5 नाकांक्षति कर्मणां च 2 //
17 चत्वार इमे काश्यप बोधिसत्वस्य महानिधानप्रतिलंभाः कतमे चत्वारः
fol. 15r (kp-si p/2) 1 बुद्धोत्पादारागणता / षट्पारमिताश्रवणः अप्रतिहतचित्तस्य धर्मभाणकदर्शनं / अप्रमत्तस्यारण्यवासाभिरतः 2 इमे काश्यप चत्वारो बोधिसत्वस्य महानिधानप्रतिलंभा / तत्रेदम् उच्यते / 16 // बुद्धानम् 3 आरागण सर्वजातिषु श्रवश् च षण्णाम् अपि पारमीणाम् / प्रसन्नचित्तो ऽपि च धर्मभाणकं सम्पश्यते 4 गौरव जातु नित्यम्* सदाप्रमत्तस्य चारण्यवासो तत्र्ऽ एव सो भोति रतिः सदास्य / चत्वार धर्मा सुगतेन 5 प्रोक्ता महानिधानानि जिनात्मजानाम्* 2 //
18 चत्वार इमे काश्यप बोधिसत्वमारपथसमतिक्रमणा धर्माः
fol. 15v (kp-si p/2) 1 कतमे चत्वारः बोधिचित्तस्यानुत्सर्गः सर्वसत्वेष्व् अप्रतिहतचित्तता / सर्वदृष्टीकृतानाम् अवबोधना / अनतिमन्यना 2 सर्वसत्वेषु इमे काश्यप चत्वारो बोधिसत्वस्य मारपथसमतिक्रमणा धर्मा / तत्रेदम् उच्यते 17 //
3 बोधाय चित्तं न परित्यजन्ति सत्वेषु च प्रतिघ जहन्ति नित्यम्* सर्वाश् च दृष्टीगतन् उत्सृजन्ति 4 न चाधिमन्यन्ति ऽह सत्वकायम्* चत्वार एते सुगतेन प्रोक्ता धर्मा हि मारस्य अतिक्रमाय / एतान् 5 निषेवित्व जिना भवन्ति अंगीरसा अप्रतिमा विनायका 2 //
19 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य सर्वकुशलधर्मसंग्रहाय
fol. 16r (kp-si p/2) 1 संवर्तन्ते / कतमे चत्वार निष्कुहकस्यारण्यवासाभिरतिः प्रतिकाराप्रातिकांक्षिणश् चत्वारि 2 संग्रहवस्तूनि सर्वसत्वेषु कायजीवितोत्सर्गः सद्धर्मपर्येष्टिम् आरभ्यातृप्तिता सर्वकुशलमूलसमुदाननाय / 3 इमे काश्यप चत्वारो धर्मा बोधिसत्वस्य सर्वकुशलधर्मसंग्रहाय संवर्तन्ते 4 तत्रेदम् उच्यते / 18 // अरण्यवासे कुहनाविवर्जितो सत्वेषु चा संग्रहयो जिनोक्ता / उत्सर्ग कायस्य 5 च जीवितस्य सद्धर्मपर्येष्टि समारभित्वा समुदाननायाश् च सदा अतृप्तो कुशलान मूलान अनल्पकानां /
fol. 16v (kp-si p/2) 1 कुशलान धर्माण च संग्रहार्थे चत्वारो धर्मा सुगतेन प्रोक्ता 2 //
20 चत्वार इमे काश्यप बोधिसत्वस्याप्रमेया 2 पुण्यसंभाराः कतमे चत्वारः निरामिषचित्तस्या धर्मदानं दुःशीलेषु च सत्वेषु महाकरुणा 3 सर्वसत्वेषु बोधिचित्तारोचनता दुर्बलेषु सत्वेषु क्षान्त्या सेवनता / इमे काश्यप चत्वारो बोधिसत्वस्याप्रमेया 4 पुण्यसंभाराः तत्रेदम् उच्यते 19 // दानं च धर्मस्य जिनप्रशस्तं चित्तेन शुद्धेन निरामिषेण 5 अपेतशीले करुणा च तीव्रा परेषु बोधाय जनेति चित्तम्* / क्षान्त्याधिसेवेति च दुर्बलेषु धर्मेष्व् अमी +
fol. 17r (kp-si p/2) 1 संग्रहतायै चोक्ता / एता निषेवित्वा जिना भवन्ति ते बोधिसत्वे सद सेवितव्याः चतुष्कका अष्ट जहित्व पापका / 2 बोधाय ये आवरणं करोन्ति / तथापरा द्वादश सेव्य पण्डिता प्राप्नोति बोधिं अमृतं स्पृशित्वा + 3 ये चाग्रसत्वा इम धर्मनेत्री धारेन्ति वाचेन्ति प्रकाशयन्ति / तेषा जिनो पुण्यम् अनन्तु भाषते येषाम् 4 अप्रमाणं जिन वर्णयन्ति 4 ये क्षेत्रकोट्यो यथ गंगवालिका रत्नान पूरित्वन तेषु दद्यात्* यो वा इतो 5 गाथ चतुष्पदी पठेद् इमस्य पुण्यस्य न एति संख्या / 5 //
21 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य अविद्याभागीयक्लेशसमतिक्रमाय
fol. 17v (kp-si p/2) 1 संवर्तन्ते / कतमे चत्वारः शीलसंवरः सद्धर्मपरिग्रहः प्रदीपदानम् अन्तमशः 2 दानं संस्तुतेभ्यः इमे काश्यप चत्वारो धर्मा बोधिसत्वस्य अविद्याभागीयक्लेशसमतिक्रमाय संवर्तन्ते //
3 22 चत्वार इमे काश्यप धर्मा बोधिसत्वस्य अनावरणज्ञानताये संवर्तन्ते / कतमे चत्वारः यदुत 4 इन्द्रियसंवरः गंभीरार्थविवरणता स्वलाभेनानवमन्यना / परलाभेष्व् अनध्यवसानता / 5 इमे काश्यप चत्वारो धर्मा बोधिसत्वस्यानावरणज्ञानताये संवर्तन्ते / 22 //
23 न खलु पुनः
fol. 18r (kp-si p/2) 1 काश्यप नाममात्रेण बोधिसत्वो महासत्व इत्य् उच्यते धर्मचर्यया समचर्यया कुशलचर्यया धर्माश् 2 रिताभिः काश्यप समन्वागतो बोधिसत्वो महासत्व इत्य् उच्यते / द्वात्रिंशद्भि काश्यप धर्मैः समन्वागतो 3 बोधिसत्वो इत्य् उच्यते / कतमे द्वात्रिंशद्भिः यदुत हितसुखाध्याशयतया सर्वसत्वेषु / सर्वज्ञज्ञानावतारणतया 4 किम् अहम् अर्घामीति परेषां ज्ञानाकुत्सनता निरधिमानतया / दृढाध्याशयतया ः 5 अकृत्रिमप्रेमतया / अत्यन्तमित्रता / मित्रामित्रेषु समचित्ततया / यावन् निर्वाणपर्यन्तताये /
fol. 18v (kp-si p/2) 1 24 सूनृतवाक्यता स्मितमुखपूर्वाभिभाषणता-न्-उपादत्तेषु भारेष्व् अविषदानतया 2 सर्वसत्वेष्व् अपरिछिन्नमहाकरुणता अपरिखिन्नमानसतया सद्धर्मपर्येष्टिम् आरभ्यातृप्ता 3 श्रुतार्थतया / आत्मस्खलितेषु दोषदर्शनतया / परस्खलितेष्व् अरुष्टापत्तिचोदनतया / सर्व-ईर्यपथेषु 4 बोधिचित्तपरिकर्मतया / विपाकाप्रतिकांक्षिण त्यागः सर्वभवगत्युपपत्त्यनिःश्रितं 5 शीलम्* सर्वसत्वेष्व् अप्रतिहता क्षान्तिः 25 सर्वकुशलमूलसमुदाननाय वीर्यं / आरूप्यधातुपरिकर्षितं
fol. 19r (kp-si p/2) 1 ध्यानां / उपायसंगृहीता प्रज्ञा / चतुःसंग्रहवस्तुसंप्रयुक्ता उपाय / शीलवद्दुःशीलाद्वयतया 2 मैत्रता / सत्कृत्य धर्मश्रवणं / सत्कृत्यारण्यवासः सर्वलोकविचित्रिकेष्व् अनभिरतिः कुदृष्टिविगतं / 3 हीनयानास्पृहणता / महायाने चानुशंससंदर्शितया / पापमित्रविवर्जनता / 4 कल्याणमित्रसेवनता / चतुब्रह्मविहारनिष्पादनता / पंचाभिज्ञविक्रीडनता / ज्ञानप्रतिसरणता / 5 प्रतिपत्तिविप्रतिपत्तिस्थिताना सत्वानाम् अनुत्सर्गः एकांशवचनता / सत्यगुरुकता / सर्वकुशलमूलसमुदानतया
fol. 19v (kp-si p/2) 1 अतृप्तता / बोधिचित्तपूर्वंगमता / 26 एभिः काश्यप द्वात्रिंशद्भिर् धर्मैः समन्वागतो 2 बोधिसत्वो महासत्व इत्य् उच्यते // तत्रेदम् उच्यते / // सर्वेषु सत्वेषु हितं सुखं च अध्याशयेनाप्य् 3 अधिमुच्यमानाः सर्वज्ञज्ञानोतरणाय किं नु अर्घामि नार्घाम्य् अहं ज्ञानमाना / अकुत्सनतयानधिमानताया 4 दृढाशयाकृत्रिमप्रेमताया : सत्वेषु चात्यन्तसुमित्रताया यावन् न निर्वाणपरायणत्वं 2 5 मित्रे अमित्रे समचित्तताया स्मितोमुखत्वं सुनृता च वाणी / उपात्तभारे + +
fol. 20r (kp-si p/2) 1 दार्यणत्वं करुणापरिच्छिन्न तथ्ऽ एव सत्वे 3 27 सद्धर्मपर्येष्टिय नास्ति खेदः श्रुतेष्व् अतृप्ते स्खलिते ऽत्मदोष / परश् 2 च रुष्टेन न चोदनीयः ईर्यापथे चित्तसुकर्मताया 4 त्यागो विपाकाप्रतिकांक्षणं च अनिश्रितं 3 शील भवंगतीषु सत्वेषु क्षान्ति प्रतिघातवर्जिता समुदाननाया कुशलस्य वीर्य 5 आरूप्यधात्ववकृष्टं 4 च ध्यानं उपायतो संगृहीता च प्रज्ञा : चतुःसंग्रहेः संग्रहीतो ऽपायो दुःशीलशीले ऽद्वयता 5 च मैत्र्या 6 सत्कृत्य धर्मश्रवणं च कालं सत्कृत्य वासो च अरण्य शान्ते / लोकेषु चित्रेषु रतिर् न कार्यं हीनेषु
fol. 20v (kp-si p/2) 1 यानेषु रतिर् न कार्यम्* 7 उदारयानेषु स्पृहा जनेया पापाणि मित्राणि विवर्जयेया / कल्याणमित्राणि सदा 2 च सेवे चत्वार ब्रह्माश् च विहार भावयेत्* 8 28 क्रीडेत् अभिज्ञेहि च पंचभिः सदा ज्ञानानुसारी च भावेत नित्यं 3 न उत्सृजेया प्रतिपत्तियुक्ता न च द्वितीया पि कदाचिद् अन्याः 9 एकान्तवादी च भवेत नित्यं सत्ये च 4 से गौरव नित्य भोति / भावेति धर्मांश् च जिनप्रशस्ता पूर्वंगमं बोधयि चित्त कृत्वा 10 द्वात्रिंशद् एते सुगतेन 5 प्रोक्ता धर्मा निषेव्या सुगतोरसेभि / इमेहि धर्मेहि समन्विता ये ते बोधिसत्वा सुगतेन प्रोक्ता 11 //
29 उपमोपन्यासनिर्देशास्
fol. 21r (kp-si p/2) 1 ते काश्यप निर्देक्ष्यामि / यैर् उपमोपन्यासनिर्देशेभिः बोधिसत्वो महासत्वगुणान् विज्ञापयेत्* // 2 तद्यथा काश्यप इयं महापृथिवी सर्वसत्वोपजीव्या निर्विकारा निष्प्रतिकारा / एवम् एव काश्यप 3 प्रथमचित्तोत्पादिको बोधिसत्वो यावद् बोधिमण्डनिषदना तावत् सर्वसत्वोपजीव्यो निर्विकारो निष्प्रतिकारो 4 भवति / तत्रेदम् उच्यते // पृथिवी यथा सर्वजनोपजीव्या प्रतिकार नाकांक्षति निर्विकारा / 5 चित्ते तथाद्ये स्थिता बोधिसत्वो यावन् न बुद्धो भविता जिनोत्तम / अनुत्तरा सर्वजनोपजीव्यो प्रतिकार
fol. 21v (kp-si p/2) 1 नाकांक्षति निर्विकारो / पुत्रे च शत्रुंहि च तुल्यमानसो पर्येषते नित्य वराग्रबोधिम्* 2 //
30 तद्यथा काश्यप अब्धातु 2 सर्वतृणगुल्मोषधिवनस्पतयो रोहापयति / एवम् एव काश्यप आशयशुद्धो बोधिसत्वः सर्वसत्वानि 3 मैत्रतया स्फरित्वा विहरन् सर्वसत्वानां सर्वशुक्लधर्मान् विरोहयति / तत्रेदम् उच्यते // 4 यथापि आब्धातु तृणगुल्म-म्-औषधी वनस्पतीन् औषधिधान्यजातान्* एम् एव शुद्धाशयबोधिसत्वो 5 मैत्र्याय सत्वान् स्फरते अनन्तान्* स्फरित्व धर्मान् विविधा क्रमेण शुक्लेहि धर्मेहि विवर्धमानः अनुपूर्व
fol. 22r (kp-si p/2) 1 प्राप्नोति जिनान बोधिं निहत्य मारं सबलं ससैन्यम्* 2 //
31 तद्यथा काश्यप तेजोधातुः सर्वसस्यानि परिपाचयति / 2 एवम् एव काश्यप बोधिसत्वस्य प्रज्ञा सर्वसत्वानां सर्वशुक्लधर्मान् परिपाचयति / तत्रेदम् 3 उच्यते 3 // यथापि तेजो परिपाचयन्ति सस्यानि सर्वाणि तृणौषधींश् च / एम् एव प्रज्ञा सुगतात्मजानान् 4 धर्मान् शुभा वर्धयते जनस्य / //
32 तद्यथा काश्यप वायुधातुः सर्वबुद्धक्षेत्राणि विठपयति / 5 एवम् एव काश्यप बोधिसत्वस्योपायकौशल्यं सर्वबुद्धधर्मान् विठपयति / तत्रेदम् उच्यते / // वायुर्
fol. 22v (kp-si p/2) 1 यथ्ऽ एव विठपेति क्षेत्रान् बुद्धान नानाविध आशयतो / उपाय एवं हि जिनोरसानान् विठपन्ति धर्मान् सुगतोक्त-म्-अग्रान्* //
2 33 तद्यथापि नाम काश्यप मारस्य पापीमतश् चतुरंगं बलसैन्य सर्वदेवैर् न शक्यम् अभिभवितुं 3 पर्यादतुं वा / एवम् एव काश्यप शुद्धाशयो बोधिसत्व सर्वमारैर् न शक्यम् अभिभवितुं पर्यादत्तुं वा / //
4 34 तद्यथापि नाम काश्यप शुक्लपक्षे चन्द्रमण्डलं परिपूर्यते वर्धते च / एवम् एव काश्यप 5 आशयशुद्धो बोधिसत्वः सर्वशुक्लधर्मैर् वर्धते / तत्रेदम् उच्यते 6 // शुक्लपक्षे यथ चन्द्रमण्डलं परिपूर्यते
fol. 23r (kp-si p/2) 1 वर्धति नो च हीयते / एम् एव शुद्धाशय बोधिसत्वो : शुद्धेहि धर्मेहि सदा विवर्धते / //
35 तद्यथापि नाम 2 काश्यप सूर्यमण्डलम् एकप्रमुक्ताभि सूर्यरश्मिभिः सत्वानाम् अवभासं करोति / एवम् एव काश्यप 3 बोधिसत्व-म्-एकप्रमुक्ताभिः प्रज्ञारश्मिभिः सत्वानाम् ज्ञानावभासं करोति / तत्रेदम् उच्यते 7 // एकप्रमुक्ताभि 4 यथ्ऽ एव सूर्यो रश्मीभि सत्वान करोति भासम्* एवं जिनानां सुत ज्ञानरश्मिभि प्रज्ञाय सत्वान 5 ऽवभास कुर्वति / //
36 तद्यथापि नाम काश्यप सिङ्हो मृगराजा यतो यत एव प्रक्रमते सर्वत्राभीतो
fol. 23v (kp-si p/2) 1 ऽनुत्रस्त एवं प्रक्रमति / एवम् एव काश्यप शीलश्रुतगुणधर्मप्रतिष्ठितो बोधिसत्वो यतो यत एव प्रक्रमते 2 सर्वत्राभीतो ऽनुत्रस्त एव प्रक्रमते / तत्रेदम् उच्यते 8 // यथा हि सिङ्हो मृगराज केसरी 3 येनेच्छकं याति असंत्रसन्तो / एवम् एव शीलश्रुतज्ञानसुस्थितो येनेच्छकं गच्छति बोधिसत्वो / //
37 तद्यथापि 4 नाम काश्यप सुदान्तः कुंजरो नागस् सर्वभारवहनतया न परिखिद्यते / एवम् एव एव 5 काश्यप सुदान्तचित्तो बोधिसत्व सर्वसत्वानां सर्वभारवहनता न परिखिद्यते : तत्रेदम् उच्यते 9 //
fol. 24r (kp-si p/2) 1 यथापि नागो बलवान् सुदान्तो भारं वहन्तो न-द्-उपेति खेदं / सुदान्तचित्तो तथा बोधिसत्वो सत्वान भारेण न खेदम् 2 ऐति //
38 तद्यथापि नाम काश्यप पद्मम् उदके जातम् उदकेन न लिप्यते / एवम् एव काश्यप बोधिसत्वो 3 लोके जातो लोकधर्मेहि न लिप्यते / तत्रेदम् उच्यते 10 // पद्मं यथा कोकनदं जलेरुहं जलेन नो लिप्यति 4 कर्दमेन वा / लोकेस्मि जातो तथा बोधिसत्वो न लोकधर्मेहि कदाचि लिप्यते / //
39 तद्यथापि नाम काश्यप 5 विटपच्छिन्नो वृक्षो मूले ऽनुपहते पुनर् एव विरोहति / एवम् एव काश्यप उपायकौशल्यक्लेशच्छिन्नो बोधिसत्वः
fol. 24v (kp-si p/2) 1 सर्वकुशलमूलसंयोजने ऽनुपहते पुनर् एव त्रैधातुके विरोहति / तत्रेदम् उच्यते 11 // यथापि वृक्षो 2 विटपस्मि च्छिन्नो विरोहते मूल दृढे ऽनुपद्रुते / एवम् उपायो ऽपहतो विरोहते मूलस्मि संयोजन 3 सुप्रहीणे / //
40 तद्यथापि नाम काश्यप नानादिग्विदिक्षु महानदीष्व् आप्स्कन्धो महासमुद्रे प्रविष्टः सर्वम् एकरसो 4 भवति यदुत लवणरसः एवम् एव काश्यप नानामुखोपचितं कुशलमूलं बोधिसत्वस्य बोधाय 5 परिणामितं सर्वम् एकरसं भवति यद् इदं विमुक्तिरसं / तत्रेदम् उच्यते 12 // नानानदीनाम् उदकं प्रविष्टं महासमुद्र्ऽ
fol. 25r (kp-si p/2) 1 एकरसं यथा स्यात्* कुशलानि नानामुखसंचितानि परिनामितान्य् एकरसानि बोधये //
41 तद्यथापि नाम काश्यप 2 सुमेरुप्रतिष्ठिता चतुर्महाराजकायिकास् त्रयस्त्रिंशाश् च देवाः एवम् एव काश्यप बोधिचित्ताकुशलमूलप्रतिष्ठिता 3 बोधिसत्वस्य सर्वज्ञता तत्रेदम् उच्यते 13 // चतुर्महाराजिकस् त्रायस्त्रिंशा यथा 4 सुमेरुस्थित देवसंघा / तथ बोधिसत्वा कुशले प्रतिष्ठिताः सर्वज्ञता प्राप्य वदन्ति धर्मान्* //
42 तद्यथापि 5 नाम काश्यप आमात्यसंगृहीता राजानः सर्वराजकार्याणि कुर्वन्ति / एवम् एव काश्यप उपायसंगृहीता
fol. 25v (kp-si p/2) 1 बोधिसत्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति / तत्रेदम् उच्यते 14 // यथा हि राजान आमात्यसंग्रहा सर्वाणि कार्याणि 2 करोन्ति नित्यं / तथ बोधिसत्वस्य उपायसंग्रहो बुद्धार्थ प्रज्ञाय करोन्ति नित्य //
43 तद्यथापि नाम काश्यप 3 व्यभ्रे देवे विगतवलाहके नास्ति वर्षस्यायद्वारम् एवम् एव काश्यप अल्पश्रुतस्य बोधिसत्वस्यान्तिका 4 नास्ति सद्धर्मवृष्टेर् आयद्वारं / तत्रेदम् उच्यते 15 // व्यभ्रे यथा विगतवलाहके नभे वर्षस्य आयो 5 न कदाचि विद्यते / अल्पश्रुतस्यान्तिक धर्मदेशना न बोधिसत्वस्य कदाचि लभ्यते //
44 तद्यथापि नाम काश्यप अभ्रघनमेघसमुत्थिता
fol. 26r (kp-si p/2) 1 वर्षधारा सस्यान्य् अभिवर्षति / एवम् एव काश्यप महाकरुणाधर्ममेघसमुत्थिता 2 बोधिसत्वस्य सद्धर्मवृष्टिस् सत्वानाम् अभिवर्षति / तत्रेदम् उच्यते 16 // यथापि मेघो विपुलो सविद्युतो सस्यानु 3 वर्षेण करोति तृप्तिम्* / सद्धर्ममेघोत्थितवर्षधारा तर्पेति सत्वास् तथ बोधिसत्वः //
45 तद्यथापि 4 नाम काश्यप यत्र राजा चक्रवर्ति उत्पद्यते तत्र सप्त रत्नान्य् उत्पद्यन्ते एवम् एव काश्यप यत्र 5 बोधिसत्व उत्पद्यते तत्र सप्तात्रिंशद् बोधपक्ष्या धर्मा उत्पद्यन्ते / तत्रेदम् उच्यते 17 // उत्पद्यते यत्र हि चक्रवर्ति
fol. 26v (kp-si p/2) 1 तत्रास्य रत्नानि भवन्ति सप्त उत्पद्यते यत्र च बोधिसत्वस् तत्रास्य बोध्यंग भवन्ति सप्त //
46 तद्यथापि नाम काश्यप 2 यत्र मणिरत्नायद्वारं भवति बहूनां तत्र कर्षापणशतसहस्राणाम् आयद्वारं भवति / एवम् 3 एव काश्यप यत्र बोधिसत्वस्यायद्वारं भवति / बहूनाम् तत्र श्रावकप्रत्येकबुद्धहशतसहस्राणाम् 4 आयद्वारं भवति / तत्रेदम् उच्यते 18 // यथापि यस्मिं मणिरत्न भोति / कर्षापणायो बहु तत्र 5 भोति संबोधिचित्तस्य च यत्र आयो आयो बहू तत्र च श्रावकानाम् //
47 तद्यथापि नाम काश्यप मिश्रकावनप्रतिष्ठिताना
fol. 27r (kp-si p/2) 1 त्रायस्त्रिंशानां देवानाम् उपभोगपरिभोगाः समाः संतिष्ठन्ते / एवम् एव काश्यप आशयशुद्धस्य बोधिसत्वस्य 2 सर्वसत्वानाम् अन्तिके सम्यक्प्रयोगो भवति / तत्रेदम् उच्यते 19 // यथापि देवान समा 3 प्रयोगा मिश्रावने संस्थिहते स्थिताना एवम् एव शुद्धाशय बोधिसत्वो सत्वेषु सम्यक् कुरुते प्रयोगम्* //
4 48 तद्यथापि नाम काश्यप मन्त्रौषधपरिगृहीतं विषं न विनिपातयति / एवम् एव काश्यप ज्ञानोपायकौशल्यपरिगृहीतो 5 बोधिसत्वस्य क्लेशविषं न शक्नोति विनिपातयितुम्* / तत्रेदम् उच्यते 20 // यथा विषम् मन्त्रपरिग्रहेण
fol. 27v (kp-si p/2) 1 जनस्य दोषं क्रिययासमर्थं एवं हि ज्ञानी इह बोधिसत्वो क्लेशैर् न शक्यं विनिपातनाय / //
49 तद्यथापि 2 नाम काश्यप यं महानगरेषु संकरकूटं भवति स इक्षुक्षेत्रेषु शालिक्षेत्रेषु मृद्वीकाक्षेत्रेषु 3 चोपकारीभूतो भवति / एवम् एव काश्यप यो बोधिसत्वस्य क्लेशः स सर्वज्ञतायाम् उपकारीभूतो 4 भवति / तत्रेदम् उच्यते / 21 // नगरेषु संकारु यथा अचोक्षो सो इक्षुक्षेत्रेष्ऽ उपकार कुर्वति / एवम् एव 5 क्लेशो उपकार कुर्वति यो बोधिसत्वस्य जिनान धर्मे / //
50 तद्यथापि नाम काश्यप इष्वस्त्रे अशिक्षितस्य शस्त्रग्रहणं
fol. 28r (kp-si p/2) 1 एवम् एव काश्यप अल्पश्रुतस्य बोधिसत्वस्य धर्मप्रविचयकौशल्यमीमांस-द्-अर्थग्रहणज्ञानं द्रष्टव्यः 22 //
2 51 तद्यथापि नाम काश्यप कुंभकारस्य बालभाजनेषूदाराग्निदानम् एवम् एव काश्यप बालप्रज्ञेषु बोधिसत्वस्योदारधर्मदेशना 3 वेदितव्यः 23 //
52 तस्मिन् तर्हि काश्यप इह महारत्नकूटे धर्मपर्याये शिक्षितुकामेन 4 बोधिसत्वेन योनिशोधर्मप्रयुक्तेन भवितव्यं / तत्र काश्यप कतमो योनिशधर्मप्रयोगः यदुत 5 सर्वधर्माणां भूतप्रत्यवेक्षा / कतमा च काश्यप सर्वधर्माणां भूतप्रत्यवेक्षा / यत्र काश्यप नात्मप्रत्यवेक्षा
fol. 28v (kp-si p/2) 1 नसत्वनजीवनपोषनपुद्गलनमनुजनमानवाप्रत्यवेक्षा / इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां 2 भूतप्रत्यवेक्षा / 53 पुनर् अपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा या रूपस्य न नित्यम् 3 इति प्रत्यवेक्षा नानित्यानीति प्रत्यवेक्षा / या वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य न नित्यम् इति 4 प्रत्यवेक्षा / नानित्यम् इति प्रत्यवेक्षा इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा 5 54 या पृथिवीधातोर् न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा याब्धातोस् तेजोधातोर् वायुधातो न नित्यम् इति प्रत्यवेक्षा
fol. 29r (kp-si p/2) 1 नानित्यम् इति प्रत्यवेक्षा / या आकाशधातोर् विज्ञानधातो न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इयम् 2 उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / 55 पुनर् अपरं काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / 3 या चक्षुरायतनस्य न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति प्रत्यवेक्षा इयम् उच्यते काश्यप मध्यमा 4 प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / एवं यावच् छ्रोत्रघ्राणजिह्वाकायमनायतनस्य न नित्यम् इति प्रत्यवेक्षा नानित्यम् इति / 5 प्रत्यवेक्षा इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / 56 नित्यम् इति काश्यप अयम् एको ऽन्तः अनित्यम्
fol. 29v (kp-si p/2) 1 इति काश्यप अयं द्वितीयो ऽन्तः यद् एतयोर् द्वयो नित्यानित्ययोर् मध्यं तद् अरूप्य् अनिदर्शनम् अनाभासम् अविज्ञप्तिकम् अप्रतिष्ठम् 2 अनिकेतम् इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / 57 आत्मेति काश्यप अयम् एको ऽन्तः 3 नैरात्म्यम् इत्य् अयं द्वितीयो ऽन्तः यद् आत्मनैरात्म्ययोर् मध्यं तद् अरूप्य् अनिदर्शनम् अनाभासम् अविज्ञप्तिकम् अप्रतिष्ठम् 4 अनिकेतम् इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / 58 भूतचित्तम् इति काश्यप अयम् 5 एको ऽन्तः अभूतचित्तम् इति काश्यप अयं द्वितीयो ऽन्तः यत्र काश्यप न चेतना न मनो न विज्ञानम् इयम् उच्यते काश्यप
fol. 30r (kp-si p/2) 1 मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा 59 एवं सर्वधर्माणां कुशलाकुशलानां लोकिकलोकोत्तराणां सावद्यानवद्यानां 2 सास्रवानास्रवानां संस्कृतासंस्कृतानां संक्लेश इति काश्यप अयम् एको ऽन्तः व्यवदानम् इत्य् अयं काश्यप 3 द्वितीयो ऽन्तः यो ऽस्यान्तद्वयस्यानुपगमो ऽनुदाहारो प्रव्याहार इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां 4 भूतप्रत्यवेक्षा / 60 अस्तीति काश्यप अयम् एको ऽन्तः नास्तीत्य् अयं द्वितीयो ऽन्तः यद् एतयोर् द्वयोर् अन्तयोर् मध्यम् 5 इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा 61 यद् अपि काश्यप युष्माकं मयाख्यात / यदुत
fol. 30v (kp-si p/2) 1 अविद्याप्रत्यया संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं 2 षडायतनप्रत्यय स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् 3 उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः 4 संभवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति / 62 अविद्यानिरोधा संस्कारनिरोधः 5 संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधान् नामरूपनिरोधः नामरूपनिरोधात् षडायतननि
fol. 31 (kp-si p/2) इस् मिस्सिन्ग्
fol. 32r (kp-si p/2) 1 च्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा / //
63 पुनर् अपरं काश्यप धर्माणां भूतप्रत्यवेक्षा यन् न शुन्यताया 2 धर्मा शून्या करोति धर्मा एव शून्या / यन् नानिमित्तेन धर्मान् अनिमित्तान् करोति धर्मा चैवानिमित्ताः यन् नाप्रणिहितेन 3 धर्मा ऽप्रणिहितान् करोति धर्मा एवाप्रणिहिताः यन् नानभिसंस्कारेण धर्मानभिसंस्कृतान् 4 करोति धर्मा चैवानभिसंस्कृताः एवं नानुत्पादेन धर्मान् अनुत्पादा करोति धर्मा चैवानुत्पन्नाः एवं 5 न्ऽ अजाता धर्मान् अजातीकरोति धर्मा चैवाजाताः एवं यन् न अग्राह्या धर्मान् अग्राह्या करोति धर्मा चैवाग्राह्या /
fol. 32v (kp-si p/2) 1 एवम् नानास्रवा धर्मान् अनास्रवा करोति धर्मा चैवानास्रवा / एवं यो न्ऽ अस्वभावेन धर्मान् अस्वभावीकरोति धर्मा 2 चैवास्वभावा / एवं यन् न ऽस्वभावेन धर्मास्वभावता धर्माणां यत् स्वभावं नोपलभते या एवं प्रत्यवेक्षा 3 इयम् उच्यते काश्यप मध्यमा प्रतिपद् धर्माणां भूतप्रत्यवेक्षा : //
64 न खलु पुनः काश्यप पुद्गलभावविनाशाय 4 शून्यता पुद्गलश् चैव शून्यता शून्यता चैव शून्यता / अत्यन्तशुन्यता / पूर्वान्तशुन्यता / अपरान्तशुन्यता 5 प्रत्युत्पन्नशुन्यता / शुन्यता काश्यप प्रतिसरथ मा पुद्गलम्* ये खलु पुन काश्यप शुन्यतोपलंभेन
fol. 33r (kp-si p/2) 1 शुन्यता प्रतिसरन्ति / तान् अहं काश्यप नष्टप्रनष्टान् इति वदामि इतो प्रवचनात्* वरं खलु पुन काश्यप 2 सुमेरुमात्रा पुद्गलदृष्टिर् आश्रिता न त्व् एवाधिमानिकस्य शुन्यतादृष्टि-म्-आलिना / तत् कस्माद् धेतो पुद्गलदृष्टिगतानां 3 काश्यप शुन्यता निःसरणं शुन्यतादृष्टि पुन काश्यप केन निःसरिष्यति : //
65 तद्यथापि नाम 4 काश्यप कश्चिद् एव पुरुषो ग्लानो भवेत्* तस्मै वैद्यो भैषज्यं दद्यात् तस्य तद् भैषज्यं सर्वदोषान् उचाल्य कोष्ठगत 5 न निर्गच्छेत्* तत् किं मन्यसे काश्यप अपि नु स ग्लानपुरुषस् तस्माद् ग्लान्या परिमुक्तो भवेत्* यस्य तद् भैषज्यं
fol. 33v (kp-si p/2) 1 सर्वकोष्ठगता दोषान् उच्चाल्य कोष्ठगतो न निःसरेत्* आह नो भगवान्* गाढतरश् च तस्य पुरुषस्य तद् गेलान्यं भवेत्* 2 यस्य तद् भैषज्यं सर्वदोषान् उचाल्य सर्वकोष्ठगतं न निःसरेत्* भगवान् आह / एवम् एव काश्यप सर्वदृष्टिगतानां 3 उन्यता निःसरणं यस्य खलु पुनः काश्यप शुन्यतादृष्टिस् तम् अहम् अचिकित्स्यम् इति वदामि / 4 तत्रेदम् उच्यते / // यथा हि वैद्यो पुरुषस्य दद्याद् विरेचनं रोगविनिग्रहाय उच्चाल्य दोषाश् च न निःसरेत 5 ततोनिदानं च न चोपशान्ति / // एम् एव दृष्टीगहनाशृतेषु या शुन्यता निःसरणं परं हि / सा शु
foll. 34-36 (kp-si p/2) are lost. however, in fact there are only two pages omitted; and the next folio onwards is mistakenly paginated.
fol. 37r (kp-si p/2) 1 ये पि शुन्यं / //
70 तद्यथापि नाम काश्यप तैलप्रदीपस्य नैवं भवत्य् अहम् अन्धकारं विधमामीति / अथा च पुनस् तैलप्रद्योते 2 कृते आलोकं प्रतीत्य तमोन्धकारं विगच्छति / यश् च काश्यप तैलप्रद्योतो यश् च तमोन्धकारम् उभायम् एतच्छुन्यता / 3 अग्राह्या शून्य निश्चेष्टा : एवम् एव काश्यप यं च ज्ञानं चाज्ञानं च उभयम् एतच्छुन्यता-द्-अग्राह्या 4 शून्या निश्चेष्ट्या 7 / //
71 तद्यथापि नाम काश्यप गृहे वा लयने वा अववरके वा वर्षासहस्रस्यात्ययेन 5 न तत् कदाचित् तैलप्रद्योतः कृतो भवेत्* अथ च तत्र कश्चिद् एव पुरुषः तैलप्रदीपं कुर्यात्* तत् किं मन्यसे
fol. 37v (kp-si p/2) 1 काश्यप मैवं तस्य तमोन्धकारस्य भूद् वर्षासहस्रं संचितो ऽहं नाहम् इतो विगमिष्यामीति / आह नो हीदं भगवन् न हि 2 तस्य तमोन्धकारस्य शक्तिर् अस्ति यस् तैलप्रद्योते कृते न विगन्तुम् अवश्यं तेन विगतव्यं भगवान् आह एवम् 3 एव काश्यप कल्पकोटीनयुतशतसहस्रसंचितो ऽपि कर्मक्लेश एकेन योनिशोमनसीकारप्रज्ञाप्रत्यवेक्षणेन 4 विगच्छति / तैलप्रद्योत इति काश्यप आर्यस्यैतत् प्रज्ञेन्द्रियस्याधिवचनं / तमोन्धकार इति काश्यप 5 कर्मक्लेशस्याधिवचनम्* तत्रेदम् उच्यते 8 // यथापि दीपो लयने चिरस्य कृतो भवेत पुरुषेण केनचित्*
foll. 38-39 (kp-si p/2) are missing
fol. 40r (kp-si p/2) 1 77 वालम् उद्धरेत्* कुशलान्वितं श्रावकम् एव पश्यथ कुशलेन युक्तम् अभिसंस्कृतेन / //
78 तद्यथापि नाम काश्यप घुणखादितस्य 2 सर्षप-म्-अभ्यन्तरे आकाशधातु एवम् एव काश्यप श्रावकस्याभिसंस्कृतं ज्ञानं द्रष्टव्य / तत्रेदम् 3 उच्यते 14 // घुणखादितस्यैव हि सर्षपस्य आकाशम् अभ्यन्तरितो परित्तं / अभिसंस्कृतं ज्ञान 4 तथा विजानथ यं श्रावकस्य लघुकं परित्तकं //
79 तद्यथापि नाम काश्यप दशासु दिक्ष्व् आकाशधातुर् एवं 5 बोधिसत्वस्याभिसंस्कृतं ज्ञानं द्रष्टव्यं / तत्रेदम् उच्यते 15 // यथापि आकाश दशद्दिशासु अनावृतं तिष्ठति सर्वलोके /
fol. 40v (kp-si p/2) 1 अभिसंस्कृतं पश्यथ बोधिसत्वे ज्ञानं तथा सर्वजगत्प्रधान / //
80 तद्यथापि नाम काश्यप राज्ञः क्षत्रियस्य 2 मूर्ध्नाभिषिक्तस्याग्रमहिषी दरिद्रपुरुषेण सार्धं विप्रतिपद्येत तस्य ततः पुत्रो जायेत : तत् किं मन्यसे 3 काश्यप अपि नु स राजपुत्र इति वक्तव्यः आह नो हीदं भगवन् भगवान् आह / एवम् एव काश्यप 4 किं चापि मम श्रावकार् धर्मधातुनिर्जाता न च पुनस् ते तथागतस्याभिषेक्यपुत्रा इति वक्तव्याः तत्रेदम् 5 उच्यते 16 // यथापि राज्ञो महिषी मनापी दरिद्रसत्वेन सहा वसेत / तस्या सुतस् तेन च जायते यो
fol. 41r (kp-si p/2) 1 स राजपुत्रो न तु राजा भेष्यति / एवम् एव ये श्रावका वीतरागा न ते ऽभिषेक्या मम जातु पुत्राः तथा हि ते आत्महिताय 2 युक्ता स्वपरोभयार्थेकर बुद्धपुत्राः //
81 / तद्यथापि नामा काश्यप राजा क्षत्रियो मूर्ध्नाभिषिक्तः 3 प्रत्यवरया चेटिकया सह प्रतिपद्येत / तस्य तत पुत्र उत्पद्येत / किं चापि काश्यप स प्रत्यवरया 4 चेटिकया सान्तिकाद् उत्पन्नो ऽथ च पुन स राजपुत्र इति वक्तव्यः एवम् एव काश्यप किं चापि 5 प्रथमचित्तोत्पादिको बोधिसत्वः अप्रतिबलः संसारे संसरन्* सत्वान् विनयितुं कामम् अथा च पुन स तथागतपुत्रो
fol. 41v (kp-si p/2) 1 इति वक्तव्यः तत्रेदम् उच्यते 17 // चेटीय सार्धं यथ चक्रवर्ती संवासं गत्वा जनयेत पुत्रं / किं चापि चेटीय 2 सकाश जातो तं राजपुत्रेति वदेति लोके / चित्ते तथा प्रथमे बोधिसत्वो बलेन हीनो त्रिभवे भ्रमन्तो / 3 दानेन सत्वा विनयन्न् उपायैर् जिनात्मजो वुच्चति शुद्धसत्वो : 3 //
82 तद्यथापि नाम काश्यप राज्ञा चक्रवर्तिनः 4 पुत्रसहस्रं भवेत्* न चात्र कश्चि चक्रवर्तिलक्षणसमन्वागतो भवेत्* न तत्र राज्ञश् चक्रवर्तिनः 5 पुत्रसंज्ञ मन्येत / एवम् एव काश्यप किं चापि तथागतो कोटीशतसहस्रपरिवारः श्रावकैर् न चात्र कश्चिद्
fol. 42r (kp-si p/2) 1 बोधिसत्वो भवति न तत्र तथागतस्य पुत्रसंज्ञोत्पद्यते / तत्रेदम् उच्यते 18 // यथा सहस्रं नृपते सुतानां न च्ऽ एक 2 पुत्रो पि सलक्षणः स्यात्* न तत्र सञ्ज्ञा नृवरस्य तेषु वोढू यतस् ते न धुरं समर्थाः तथा हि बुद्धो बहुकोटिनिर्वृतः 3 स्यात् तेषु कश्चिन् न च बोधिसत्वः न पुत्रसंज्ञा सुगतस्य तेषु न बोधिसत्वो ऽस्ति यतो ऽत्र कश्चित्* 2 //
4 83 तद्यथापि नाम काश्यप राज्ञश् चक्रवर्तिनो अग्रमहिष्या कुक्षे सप्तरात्रोपपन्नः कुमारश् चक्रवर्तिलक्षणसमन्वागतः 5 तस्य कुक्षिगतस्यापरिपक्वेन्द्रियस्य कललमहाभूतगतस्य बलवन्ततरा तत्र देवता स्पृहम्
fol. 42v (kp-si p/2) 1 उत्पादयन्ति / न त्व् एव तेषु बलजवनवेगस्थामप्राप्तेषु कुमारेषु तत् कस्माद् धेतो स हि चक्रवर्तिवंशस्यानुपच्छेदाय 2 स्थास्यति / एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः अपरिपक्वेन्द्रिय कललमहाभूतगत एव 3 समानो-द्-अथ च पुनर् बलवन्ततरा तत्र पूर्वबुद्धदर्शना देवा स्पृहाम् उत्पादयन्ति / न त्व् एवाष्टविमोक्षध्यायीष्व् 4 अर्हत्सु / तत् कस्माद् धेतोः स हि बुद्धवंशस्यानुपच्छेदाय स्थास्यति / तत्रेदम् उच्यते 19 // यथाग्रदेवीय 5 तु चक्रवर्तिनो कुक्षिस्थितो लक्षणपुण्यसत्वो / बलवत्तरं देव स्पृहा करोन्ति न स्थामप्राप्तान कुमारकानां / एकाग्रचित्ते
fol. 43r (kp-si p/2) 1 स्थितबोधिसत्वे संसारसंस्थे घटमान बोधये / जनेन्ति तस्य स्पृह देवनागा न श्रावकेषु त्रिविमोक्षध्यायिषु //
2 84 तद्यथापि नाम काश्यप करविङ्कपोतक आण्डकोशप्रक्षिपतः अनिर्भिन्ने नयने सर्वपक्षिगणम् 3 अभिभवति / यदुत गंभीरमधुरनिर्घोषरुतरवितेन / एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वो 4 अविद्याण्डकोशप्रक्षिप्त कर्मक्लेशतमस्तिमिरपटलपर्यवनद्धः नयनो ऽपि सर्वश्रावकप्रत्येकबुद्धा-म्- 5 अभिभवति / यदुत कुशलमूलपरिणामनाप्रयोगनिर्हाररुतरवितेन 20 // तद्यथापि नाम काश्यप राज्ञश्
fol. 43v (kp-si p/2) 1 चक्रवर्तिन अग्रमहिष्या तत्क्षणजातं कुमारं सर्वश्रेष्ठिनैगमजानपतयः कोट्टराजानश् च नमस्यन्त्य् एवम् एव 2 काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सदेवको लोको नमस्करोन्ति 21 //
85 तद्यथापि नाम काश्यप एकं 3 वैडूर्यं मणिरत्नं सुमेरुमात्रं राशि काचमणिकान्ऽ अभिभवति एवम् एव काश्यप प्रथमचित्तोत्पादिको 4 बोधिसत्वः सर्वश्रावकप्रत्येकबुद्धान् अभिभवति / तत्रेदम् उच्यते 22 // यथापि वैडूर्यमणि प्रभास्वरः 5 काचामणीन् अभिभवते प्रभूतान्* एम् एव चित्ते प्रथमे बोधिसत्वो अभीभवति पृथक्च्छ्रावकान् गणान्* //
fol. 44r (kp-si p/2) 1 86 तद्यथापि नाम काश्यप राज्ञो ऽग्रमहिष्याः तत्क्षणजातं कुमार सर्वश्रेष्ठिनैगमजानपदा कोट्टराजानश् च नमस्यन्ति / 2 एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सदेवको लोको नमस्यन्ति / तत्रेदम् उच्यते 23 // यथापि 3 राज्ञः पृथिवीश्वरस्य पुत्रो भवेल् लक्षणचित्रिताङ्गं दृष्त्व्ऽ एव तं जातमात्रं कुमारं सकोट्टराजा प्रणमन्ति 4 पौराः उत्पन्नमात्रे तथ बोधिसत्वे सल्लक्षणं तं जिनराजपुत्रं लोकस् सदेवो पि नमस्करोन्ति प्रसन्नचित्तं 5 बहुमानपूर्वम्* //
87 तद्यथापि नाम काश्यप यानि हिमवन्तः पर्वतराजा भैषज्यानि विरोहन्ति सर्वान्य् अममान्य्
fol. 44v (kp-si p/2) 1 अपरिग्रहान्य् अविकल्पानि / यत्र च पुनर् व्याध्या व्युपनाम्यन्ते तं व्याधिं प्रशमयन्ति / एवम् एव काश्यप प्रथमचित्तोत्पादिको 2 बोधिसत्वो य ज्ञानभैषज्यं समुदानयति तत् सर्व निर्विकल्प समुदानयति समचित्तता 3 सर्वसत्वेषु चिकित्सा प्रयोजयति / तत्रेदम् उच्यते 24 // हिमवन्त ये पर्वतराज भेषजा रोहन्ति ते निर्मम 4 निर्विकल्पा / यत्रोपनाम्यन्ति च तं शमेन्ति व्याधिं जरा चापनयन्ति केचित्* जिनात्मजा पि समुदानयन्ति 5 यं ज्ञानभैषज्य विकल्प मुक्त्वा / हितार्थ सर्वं समुदानयन्ति समचित्त सत्वेषु चिकित्स कुर्वन्* //
88 तद्यथापि
fol. 45r (kp-si p/2) 1 नाम काश्यप नवचन्द्रो नमस्कृयते सो च्ऽ एव पूर्णचन्द्रो न तथा नमस्कृयते / एवम् एव काश्यप ये मम श्रद्दधन्ति 2 ते बलवन्ततरं बोधिसत्वं नमस्कर्तव्य / न तथागतः तत् कस्य हेतो बोधिसत्वनिर्जाता हि तथागताः 3 तत्रेदम् उच्यते 25 // चन्द्रं नवं सर्व नमस्करोन्ति तम् एव पूर्णं न नमस्करोन्ति / एम् एव यः श्रद्दधते जिनात्मजो 4 स बोधिसत्वं नमतां जिना न तु / //
89 तद्यथापि नाम काश्यप मात्रिका सर्वशास्त्रग्रहणज्ञाने पूर्वंगमा / 5 एवम् एव काश्यप प्रथमचित्तोत्पादिको बोधिसत्वः सर्वबुद्धविकुर्विताधिष्ठाने ऽनुत्तरे पूर्वंगमः //
90 तद्यथापि
fol. 45v (kp-si p/2) 1 नाम काश्यप न जातु केनचिच् चन्द्रमण्डलम् उत्सृज्य तारकरूपं नमस्कृतपूर्वं / एवम् एव काश्यप न जातु पण्डितो मम 2 शिक्षाप्रतिपन्न बोधिसत्वं रिञ्चित्वा श्रावकं नमस्करोति / तत्रेदम् उच्यते 26 // न केनचिच् चन्द्र विवर्जयित्वा 3 नमस्कृता तारगणा कदाचित्* न जातु शिक्षाप्रतिपन्न एवं ममात्मजं त्यज्य नमेत श्रावकः //
91 तद्यथापि 4 नाम काश्यप सदेवको लोको काचमणिकस्य परिकर्म कुर्यात्* न जातु स काचमणिको वैडूर्यमणिरत्नो 5 भविष्यति / एवम् एव काश्यप सर्वशीलशिक्षाधुतगुणसमाधिसमन्वागतो ऽपि श्रावको न जातु स
fol. 46r (kp-si p/2) 1 बोधिमण्डे निषद्यानुत्तरा सम्यक्संबोधिम् अभिसंभोत्स्यते / तत्रेदम् उच्यते 27 // यथापि लोको परिकर्म कुर्यात् सदेवकः 2 काचमणिस्य शुद्धये / न काच वैडूर्य कदाचि भेष्यते अन्यादृशी तस्य स-द्-एव जातिः एवं हि शीलाश्रुतध्यानयुक्तो 3 यः श्रावकः सर्वगुणान्वितो पि / न बोधिमण्डस्थित मार जित्वा बोधिं स्पृशित्वा सुगतो 4 भविष्यति //
92 तद्यथापि नाम काश्यप वैडूर्यस्य महामणिरत्नस्य परिकर्म क्रियमाणैर् बहूणां तत्र 5 कर्षापणशतसहस्राणाम् आयद्वारं भवति / एवम् एव काश्यप यत्र बोधिसत्वस्य परिकर्म क्रियमाणे
fol. 46v (kp-si p/2) 1 बहूनां तत्र श्रावकप्रत्येकबुद्धशतसहस्राणाम् आयद्वारं भवति / तत्रेदम् उच्यते 28 // वैडूर्यरत्ने परिकर्म 2 नीयते कर्षापणानां च बहु आयु भोति / बुद्धोरसानां परिकर्मणं तथा आयो बहूनां श्रावकानां तथ्ऽ एव / 30 //
3 93 अथ खलु भगवान् पुनर् एवायुष्मन्तं महाकाश्यपम् आमन्त्रयति स्म / यस्मिं काश्यप 4 देशे उष्ट्रधूमक कृष्णशिर उत्तानशायी भवति स देश सोपद्रवः सोपक्लेश सोपायासो भवति / सचेत् 5 पुन काश्यप यस्मिं देशे बोधिसत्वो भवति / स देश निरुपद्रव निरुपक्लेश निरुपायासो भवति / तस्मात् तर्हि
fol. 47r (kp-si p/2) 1 काश्यप सत्वार्थोद्युक्तेन बोधिसत्वेन भवितव्यं तेन सर्वकुशलमूलानि सर्वसत्वानाम् उत्स्रष्टव्यं / सर्वं च कुशलमूल 2 सम्यक् समुदानयितव्यं / यच् च ज्ञानभेषज्यं पर्येषते तेन चतुर्दिशं गत्वा सर्वसत्वानां भूतचिकित्सा 3 कर्तव्या : भूतचिकित्साया च सत्वा चिकित्सितव्याः 94 तत्र काश्यप कतमा भूतचिकित्सा : यदुत रागस्य 4 अशुभा चिकित्सा / द्वेषस्य मैत्री चिकित्सा : मोहस्य प्रतीत्यसमुत्पादप्रत्यवेक्षणा चिकित्सा : सर्वदृष्टीगतानां 5 शुन्यता चिकित्सा : सर्वकल्पविकल्पपरिकल्पारंभणवितर्कमनसीकाराणाम् आनिमित्त चिकित्सा :
fol. 47v (kp-si p/2) 1 सर्वकामधातुरूपधात्वारूप्यधातुप्रहाणाया-म्-अप्रणिहित चिकित्सा : सर्वविपर्यासाना चत्वारो ऽविपर्यास चिकित्सा : 2 अनित्ये नित्यसंज्ञायाः अनित्याः सर्वसंस्कारा इति चिकित्सा : दुःखे सुखसंज्ञाया दुःखा सर्वसंस्कारा 3 इति चिकित्सा : अनात्मीये आत्मीयसंज्ञाया अनात्मान सर्वधर्मा इति चिकित्सा : अशुभे शुभसंज्ञायाः 4 शान्तं निर्वाणम् इति चिकित्सा : 95 चत्वारि स्मृत्युपस्थानानि कायवेदनाचित्तधर्मसंनिश्रितानां चिकित्सा : 5 काये कायानुपस्यी विहरति न च काये कायानुपाश्यनायाम् आत्म्यदृष्ट्यां पतति / वेदनायां वेदनानुपश्यी
fol. 48r (kp-si p/2) 1 विहरति न च वेदनानुपश्यनाया आत्मदृष्टीगते पतति / चित्ते चित्तानुपश्यी विहरति न च चित्तानुपश्यनायां 2 जीवदृष्टीये पतति / धर्मे धर्मानुपश्यी विहरति न च धर्मानुपश्यनायां पुद्गलदृष्टीये पतति / 3 चत्वारि सम्यक्प्रहाणानि सर्वाकुशलधर्मप्रहाणाय चिकित्सा / सर्वकुशलधर्मपारिपूर्यै संवर्तन्ते / 4 चत्वारो-द्-ऋद्धिपादाः कायचित्तपिण्डग्राहोत्सर्गाय संवर्तन्ते / चिकित्सा : पंचेन्द्रियाणि पंच बलानि 5 अश्राद्ध्यकौसीद्यमुषितस्मृतिचित्तविक्षेप-असंप्रजन्यतादुष्प्रज्ञातानां चिकित्सा : सप्त बोध्यंगानि धर्मसमूहाज्ञानस्य
fol. 48v (kp-si p/2) 1 चिकित्सा : आर्याष्टांगो मार्ग दौष्प्रज्ञासर्वपरप्रवादिनां कुमार्गप्रतिपन्नानां चिकित्सा : इयम् उच्यते 2 काश्यप भूतचिकित्सा : तत्र काश्यप बोधिसत्वेन योगः करणीयः 96 यावन्त काश्यप जंबुद्वीपे वैद्या वा 3 वैद्यान्तेवासिनो वा सर्वेषां तेषाम् जीवको वैद्यराजा अग्रो-म्-आख्यायते / यावन्तः काश्यप त्रिसाहस्रमहासाहस्रायां 4 लोकधातौ सत्वाः ते सर्वे जीवकवैद्यराजसदृशा भवेयुः ते सर्वे परिपृच्छेरन्* दृष्टिकौकृत्यप्रतिष्ठितस्य 5 प्रपतितस्य किं भैषज्यम् इति / ते न समर्था न च शक्नोन्ति तम् अर्थ आख्यातुं वा निर्देष्टुं वा
fol. 49r (kp-si p/2) 1 ज्ञानविज्ञाता वा / तत्र काश्यप बोधिसत्वेनैवम् उपपरीक्षितव्य न मया लोकिकभैषज्यसंतुष्टिर् वेदितव्या / लोकोत्तर 2 मया ज्ञानभैषज्यं पर्येषितव्यं सर्वकुशलमूलं च सम्यक् समुदानयितव्यम्* इत्य् एवं चोपपरीक्षितव्यः 3 यच् च ज्ञानभैषज्यं समुदानयित्वा तेन चतुर्दिशं गत्वा सर्वसत्वानां भूतचिकित्सा कर्तव्याः 4 भूतचिकित्सया च सत्वानि चिकित्सितव्याः 97 तत्र कतरं लोकोत्तरं ज्ञानभैषज्यं / यद् इदं हेतुप्रत्ययज्ञानः 5 नैरात्म्ये निःसत्वनिर्जीवनिष्पोषनिष्पुद्गलेषु धर्मेष्व् अधिमुक्तिज्ञानं / शुन्यतानुपलंभेषु धर्मेष्व् अनुत्रासः चित्तपरिगवेषताये
fol. 49v (kp-si p/2) 1 वीर्यं / स एवं चित्तं परिगवेषते / कतरं चित्तं रज्यति वा दुष्यति वा मुह्यति वा / अतीतं 2 वा अनागतं वा प्रत्युत्पन्नं वा / यदि तावद् अतीतं चित्तं तत् क्षीणं / यद् अनागतं चित्तं तद् असंप्राप्तः 3 अथ प्रत्युत्पन्नस्य चित्तस्य स्थितिर् नास्ति / 98 चित्तं हि काश्यप न बहिर्धा नोभययो-म्-अन्तराले 4 उपलभ्यते / चित्तं हि काश्यप अरूप्य् अनिदर्शनम् अप्रतिघम् अनाभासम् अविज्ञाप्तिकम् अप्रतिष्ठितम् 5 अनिकेत : चित्तं हि काश्यप सर्वबुद्धैर् न दृष्टं न पश्यन्ति न पश्यिष्यन्ति न द्रक्ष्यन्ति यत् सर्वबुद्धैर् न
fol. 50r (kp-si p/2) 1 दृष्तं न पश्यन्ति न द्रक्ष्यन्ति कीदृशस् तस्य प्रचारो द्रष्टव्यं नान्यत्र वितथविपर्यासपतिताया संतत्या धर्माः प्रवर्तन्ते 3 2 चित्तं हि काश्यप मायासदृशम् अभूतं विकल्प्य विविधोपपत्तिं परिगृह्णाति 4 चित्तं हि काश्यप वायुसदृशं 3 दूरंगमम् अग्राह्यम् अप्रचार 5 चित्तं हि काश्यप नदीस्रोतसदृशम् अनवस्थितम् उत्पन्नं 4 भग्नविलीन 6 चित्तं हि काश्यप प्रदीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते / ज्वलति च 7 5 99 चित्तं हि काश्यप विद्युसदृश क्षणभंगाव्यवस्थितं 8 / चित्तं हि काश्यप आकाशसदृशम् आगन्तुकेर् उपक्लेशे संक्लिश्यते 9
fol. 50v (kp-si p/2) 1 चित्तं हि काश्यप वानरसदृश विषयाभिलाषि विचित्रकर्मसंस्थानतया 10 चित्तं हि काश्यप चित्रकरसदृश 2 विचित्रकर्माभिसंस्करणतया / 11 चित्तं हि काश्यप अनवस्थितं नानाक्लेशप्रवर्तनतया 12 3 चित्तं हि काश्यप एकचरम् अद्वितीयचित्ताभिसन्धानतया 13 चित्तं हि काश्यप राजसदृशं सर्वधर्माधिपतेया 14 4 चित्तं हि काश्यप अमित्रसदृशं सर्वदुःखसंजननतया 15 100 चित्तं हि काश्यप पांस्वागारसदृशम् 5 अनित्ये नित्यसंज्ञया 16 चित्तम् हि काश्यप नीलमक्षिकासदृशम् अशुचो शुचिसंज्ञाया 17 चित्तं हि काश्यप
fol. 52r (kp-si p/2); no gap between fol. 50 and 52, mistake in pagination 1 matsyabaḍīśasadṛśa duḥkhe sukhasaṃjñāyā 18 cittaṃ hi kāśyapa svapnasadṛśam anātmīye ātmīyasaṃjñāyā 19 2 cittaṃ hi kāśyapa pratyarthikasadṛśa vividhakāraṇākaraṇatayā 20 cittaṃ hi kāśyapa ojāhārayakṣasadṛśa sadāvatāragaveṣaṇatayā 21 3 cittaṃ hi kāśyapa arisadṛśaṃ sadācchidrārāmagaveṣaṇatayā 22 101 cittaṃ hi kāśyapa 4 sadā unnatāvanatam anunayapratighopahataṃ 23 cittaṃ hi kāśyapa corasadṛśa sarvakuśalamūlamuṣaṇatayā 24 5 cittaṃ hi kāśyapa rūpārāma pataṃganetrasadṛśaṃ 25 cittaṃ hi kāśyapa śabdārāma saṃgrāmabherīsadṛśaṃ 26
fol. 52v (kp-si p/2) 1 चित्तं हि काश्यप सदा गन्धाराम वराह इव मीडकुणपे 27 चित्तं हि काश्यप रसाराम रसभोज्यचेटीसदृशं 28 2 चित्तं हि काश्यप स्पर्शाराम मक्षिकेव तैलपात्रे 29 102 चित्तं हि काश्यप परिगवेषमाणं 3 न लभ्यते 30 यन् न लभ्यते तन् नोपलभ्यते तन् नातीतं नानागतं न प्रत्युत्पन्नं / यन् नातीतं नानागतं 4 न प्रत्युत्पन्नं तत् त्र्यध्वसमतिक्रान्तं यत् त्र्यध्वसमतिक्रान्तं / तन् नैवास्ति नेव नास्ति / यन् नैवास्ति 5 न नास्ति / तद् अजातं यद् अजातं / तस्य नास्ति स्वभावः यस्य नास्ति स्वभावः तस्य नास्त्य् उत्पाद / यस्य नास्त्य् उत्पादः
fol. 53r (kp-si p/2) 1 तस्य नास्ति निरोधः यस्य नास्ति निरोधः तस्य नास्ति विगमः अविगमस् तस्य न गतिर् नागतिर् न च्युतिर् नोपपत्तिः 2 यत्र न गतिर् नागतिर् न च्युतिर् नोपपत्तिः तत्र न केचित् संस्काराः यत्र न केचित् संस्काराः तद् असंस्कृतं / 3 103 तद् आर्याणां गोत्र यद् आर्याणां गोत्र / तत्र न शिक्षा न निश्रयो नानिश्रयः यत्र न शिक्षा न निःश्रयो नानिश्रयः 4 तत्र न शिक्षाव्यतिक्रमः यत्र न शिक्षाव्यतिक्रमः तत्र न संवरो नासंवरः यत्र न संवरो नासंवर / 5 तत्र न चारो नाचारः न प्रचारः यत्र न चारो नाचार न प्रचारः तत्र न चित्तं न चेतसिका धर्माः
fol. 53v (kp-si p/2) 1 यत्र न चित्तं न चेतसिका धर्माः तत्र न मनो न विज्ञानः यत्र न मनो न विज्ञान / तत्र न कर्मो न विपाकः यत्र न 2 कर्मो न विपाकः तत्र न सुखं न दुःखं यत्र न सुखं न दुःखं तद् आर्याणां गोत्रं यद् आर्याणां गोत्रं / तत्र न कर्मो 3 न कर्माभिसंस्कारो नापि तत्र गोत्रे कायेन कर्म कृयते न वाचा न मनसा / नापि तत्र गोत्रे हीनोत्कृष्टमध्यमव्यवस्थानं 4 समं तद् गोत्रम् आकाशसमतया / निर्विशेषं तद् गोत्रं सर्वधर्मैकरसतया / 104 विविक्तं 5 तद् गोत्रं कायचित्तविवेकतया / अनुलोमं तद् गोत्रं निर्वाणस्य / विमलं तद् गोत्रं सर्वक्लेशमलविगत अममं
fol. 54r (kp-si p/2) 1 तद् गोत्रम् अहंकारममकारविगतं / अविषमं तद् गोत्रं भूताभूतसमतया निर्यातं सत्यं तद् गोत्रं परमार्थसत्यया / 2 अक्षयं तद् गोत्र अत्यन्ततानुत्पन्नं / नित्यं तद् गोत्रं सदाधर्मतथतया / अशुभं तद् गोत्रं निर्वाणपरमतया / 3 शुभं तद् गोत्रं सर्वाकारमलविगतं / अनात्मा तद् गोत्रम् आत्मनः परिगवेष्यमाणनुपलंभात् / 4 विशुद्धं तद् गोत्रम् अत्यन्तविशुद्धतया / //
105 अध्यात्मं काश्यप परिमर्गथ मा बहिर् विधावध्वं / तत् कस्माद् 5 धेतोः भविष्यन्ति काश्यप अनागते ऽध्वनि भिक्षवः श्वलोष्ट्वानुजवनसदृशाः कथं च काश्यप भिक्षवः श्वलोष्ट्वानुजवनसदृशा
fol. 54v (kp-si p/2) 1 भवति / तद्यथापि नाम काश्यप श्वानो लोष्टुना त्रासितः तम् एव लोष्टु-र्-अनुधावति / न तम् अनुधावति / 2 येन स लोष्टुं क्षिप्तं भवति / एवम् एव काश्यप सन्त्य् एके श्रमणब्राह्मणा ये रूपशब्दगन्धरसस्पर्शैर् 3 भयभीता अरण्यायतनेषु विहरन्ति / तेषा तत्र्ऽ एकाकिनाम् अद्वितीयानां कायप्रविविक्तविहारिणां 4 रजनीयास् तज्जक्रिया {तर्जनीया?} रुपशब्दगन्धरसस्पर्शावभासम् आगच्छन्ति / ते तत्रावेक्षकाः 5 सुखलिकानुयोगम् अनुयुक्ता विहरन्ति / 106 ते न जानन्ति न बुद्ध्यन्ति किं रूपशब्दगन्धरसस्पर्शानां
fol. 55r (kp-si p/2) 1 निःसरणम् इति / ते अजानन्ताः अबुद्ध्यन्तः तेषां रूपशब्दगन्धरसस्पर्शानाम् आस्वादं चादीनवं 2 च निःसरणं च अवतीर्णा ग्रामनगरनिगमराष्ट्रराजधानीषु पुनर् एव रूपशब्दगन्धरसस्पर्शैर् 3 हन्यन्ते / सचेद् अरण्यगता कालं कुर्वन्ति / तेषां लोकिकसंवरस्थिताना स्वर्गलोक उपपत्तिर् 4 भवति / ते तत्रापि दिव्यैः पंचभिः कामगुणैर् हन्यन्ते / ते ततश् च्युता अपरिमुक्ता समानाश् चतुर्भिर् 5 अपायैर् निरयतिर्यग्योनियमलोकासुरैः एवं हि काश्यप भिक्षवः श्वलोष्ट्वनुजवनसदृशा भवन्ति / //
fol. 55v (kp-si p/2) 1 107 katham ca kāśyapa bhikṣur na śvaloṣṭvanujavanasadṛśo {hereafter written always as śleṣṭś} bhavati yaḥ kāśyapa bhikṣu ākruṣṭo na pratyākrośati tāḍito na 2 pratitāḍayati paṃsito na pratipaṃsayati / bhaṇḍito na pratibhaṇḍayati / roṣito na pratiroṣayati / ādhyātmaṃ 3 cittanidhyaptiṃ pratyavekṣate / ko vākruṣṭo vā tāḍito vā / paṃsito vā bhaṇḍito vā roṣito vā / evaṃ hi 4 kāśyapa bhikṣur na śvaleṣṭvanujavanasadṛśo bhavati / tatredam ucyate // śvāno yathā leṣṭuna 5 trāsyamāno anudhāvate leṣṭu na yena kṣiptaṃ em ev' ih' eke śramaṇā dvijā vā rūpādibhītā vanavāsam āśritā / //
fol. 56r (kp-si p/2) 1 तेषां च तस्मिन् वसताम् अरण्ये रूपादयो दर्शनम् एत इष्टा / उपेक्षकाध्यात्मगते ऽनभिज्ञा आदीनवान् निःसरणं किम् एषा 2 अजानमाना पुन ग्रामम् आश्रिता / पुने पि रूपेहि विहन्यमाना च्युतश् च देवै मनुजैश् च केचित् तत्रापि 3 दिव्यान् उपभुज्य भोगा 3 अपायभूमिः प्रपतन्ति केचित्* च्युता च्युता दुःखम् उपैति मूढाः एवं हि 4 ते दुःखशतानुबद्धा श्वलेष्टतुल्या सुगतेन देशिता / 4 आक्रुष्ट नाक्रोशति ताडितस् तथा न पंसितः 5 पंसयते च केचित्* न भण्डितो भण्डयते तथान्या न रोषितो रोषयते च सूरतः 5 आध्यात्म चित्तं प्रतिपक्षतश्
fol. 56v (kp-si p/2) 1 च गवेषते शान्ततवि स्मृतीमान्* एवंविधः शीलव्रतोपपण्नो : न श्वानतुल्य कथितो जिनेन / 6 //
108 तद्यथापि नाम 2 काश्यप कुशलो अश्वदमकसूतो / यत्र यत्र पृथिवीप्रदेशे अश्व स्खलति / उत्कुंभति वा खडुंकक्रिया वा करोति / 3 तत्र तत्र चैव पृथिवीप्रदेशे निगृह्णाति स तथा तथा निगृह्णाति यन् न पुनर् अपि प्रकुप्यते / एवम् एव 4 काश्यप योगाचारो भिक्षुर् यत्र यत्रैवं चित्तस्य विकारं पश्यति / तत्र तत्रैवास्य निग्रहाय प्रतिपद्यते / स तथा 5 तथा चित्तं निगृह्णाति यथा न पुन प्रकुप्यते / तत्रेदम् उच्यते / // यथाश्वसूत कुशलो भवेत स्खलितं च अश्वं समभिग्रहेति /
fol. (57)r (kp-si p/2) 1 yogī tathā cittavikāra dṛṣṭvā tathā nigṛhṇāti yathā na kupyati / //
109 तद्यथापि नाम काश्यप गलग्रह सर्वेन्द्रियाणां 2 ग्रहो भवति जीवितेन्द्रियस्योपरोधे वर्तते / एवम् एव काश्यप सर्वदृष्टिगतानाम् आत्मग्राहो धर्मजीवितेन्द्रियस्योपरोधेन 3 वर्तते / तत्रेदम् उच्यते // गलग्रहो वे यथ जीवितेन्द्रिया निगृह्णते नास्य सुखं ददाति / 4 दृष्टीकृतानाम् अपि आत्मदृष्टि विनाशयेत इम धर्मजीवितं //
110 तद्यथापि नाम काश्यप पुरुषो यतो यतः 5 बद्धो भवति ततस् तत एव मोचयितव्यो भवति / एवम् एव काश्यप यतो यत एव चित्तं सज्यति / ततस् तत
fol. (57v) (kp-si p/2) 1 eva mocayitavyaṃ bhavati / tatredam ucyate // yathāpi baddhaḥ puruṣaḥ samantāt samantato mocayitavya bhoti / 2 evaṃ yahiṃ sajjati mūḍhacittaṃ tatas tato yogina mocanīyam* //
111 द्वाव् इमौ काश्यप प्रव्रजितस्याकाशपलिगोधौ / 3 कतमौ द्वौ / लोकायतमन्त्रपर्येष्टिता च / उत्सदपात्रचीवरधारणता च / इमौ द्वौ / तत्रेदम् उच्यते 1 //
4 लोकायतस्याभ्यसनाभियोगो ततोत्सदं चीवरपात्रधारणं / आकाशबोधे इमि द्वे ऽप्रतिष्ठिते तौ 5 बोधिसत्वेन विवर्जनीयौ //
112 द्वाव् इमौ काश्यप प्रव्रजितस्य गाढबन्धनो / कतमौ द्वौ / यदुतात्मदृष्टिकृतबन्धनं
fol. 58r (kp-si p/2) 1 च लाभसत्कारश्लोकबन्धनं चेतीमे काश्यप द्वौ प्रव्रजितस्य गाढबन्धनं / तत्रेदम् उच्यते 2 // द्वे बन्धने 2 प्रव्रजितस्य गाढे दृष्टीकृतं बन्धनम् उक्तम् आर्यैः सत्कारलाभयशबन्धनं च ते सर्वदा प्रव्रजितेन 3 त्यज्ये //
113 द्वाव् इमौ काश्यप प्रव्रजितस्यान्तारयकरौ धर्मौ / कतमौ द्वौ / गृहपतिपक्षसेवना 4 च आर्यपक्षविद्वेषणता चेतीमे काश्यप द्वौ प्रव्रजितस्यान्तरायकरौ धर्मौ / तत्रेदम् उच्यते 3 //
5 गृहस्थपक्षस्य च सेवना या आचार्यपक्षस्य च या विगर्हणा / द्वाव् अन्तरायो परिपन्थभूतो तौ बोधिसत्वेन
fol. 58v (kp-si p/2) 1 विवर्यनीयौ //
114 द्वाव् इमौ काश्यप प्रव्रजितस्य मलौ कतमौ द्वौ / यदुत क्लेशाधिवासनता च मित्रकुलभेक्षाककुलाध्यवसनताग्रहणं 2 चेतीमे काश्यप द्वौ प्रव्रजितस्य मलौ / तत्रेदम् उच्यते 4 // क्लेशश् च यो प्रव्रजितो 3 ऽधिवासयेत्* मित्रं सभेक्षाककुलं च सेवति / एतौ जिनेन्द्रेण हि देशितौ मलौ तौ बोधिसत्वेन विवर्जनीयौ : //
4 115 द्वाव् इमौ काश्यप प्रव्रजितस्याशनिप्रपातौ / कतमौ द्वौ / सद्धर्मप्रतिक्षेपश् च च्युतशीलस्य 5 च श्रद्धादेयपरिभोगं चेतीमे काश्यप द्वौ प्रव्रजितस्य अशनीप्रपातो धर्मः तत्रेदम् उच्यते // 5 // सद्धर्मस्य
fol. 59r (kp-si p/2) 1 प्रतिक्षेप च्युतशीलस्य भोजनं / अशनिप्रपातो द्वाव् एतौ वर्जनीयो कृपात्मकैः //
116 द्वाव् इमौ काश्यप प्रव्रजितस्य व्रणौ 2 कतमौ द्वौ / परदोषप्रत्यवेक्षनता च स्वदोषप्रतिच्छादनता चेतीमे काश्यप द्वौ प्रव्रजितस्य व्रणौ 3 तत्रेदम् उच्यते 6 // वृणुते च स्वका दोषा परि दोषाश् च वीक्षते / विषाग्नितुल्यो द्वाव् एतौ व्रणौ त्यज्यौ परीक्षकैः //
4 117 द्वाव् इमौ काश्यप प्रव्रजितस्य परिदाघौ कतमौ द्वौ / यदुत सकषायस्य च काषायधारणं शीलवन्ता गुणवन्ता 5 चान्तिकाद् उपस्थानपरिचर्यास्वीकरणं चेतीमे काश्यप द्वौ प्रव्रजितस्य परिदाघौ / तत्रेदम् उच्यते 7 //
fol. 59v (kp-si p/2) 1 सकषायचित्तस्य कषायधारणं शीलान्वितानां च सकाश सेवना परिचर्युपस्थानभिवादनं च धर्माव् 2 इमौ द्वौ परिवर्जणीयौ / //
118 द्वाव् इमौ काश्यप प्रव्रजितस्य दीर्घग्लान्यौ कतमौ द्वौ / यदुत अभिमानिकस्य च चित्तनिध्यप्तिर् 3 महायानसंप्रस्थितानां च सत्वाना विछन्दना इमौ काश्यप द्वौ प्रव्रजितस्य दीर्घगैलान्यौ / 4 तत्रेदम् उच्यते / 8 // निध्यप्ति चित्तस्य्ऽ अभिमानिकानां विच्छन्दना यापि च बुद्धयानं / इमे हि द्वे प्रव्रजितस्य 5 ग्लान्ये उक्ते जिनेनाप्रतिपुद्गलेन //
119 द्वाव् इमौ काश्यप प्रव्रजितस्य अचिकित्सौओ गैलान्यौ / कतमौ द्वौ / यदुताभीक्ष्णापत्ति-आपद्यनता /
fol. 60r (kp-si p/2) 1 अव्युत्थानता चेति इमे काश्यप द्वौ प्रव्रजितस्य अचिकित्सो ग्लान्यो 9 //
120 द्वाव् इमौ काश्यप 2 प्रव्रजितस्य शल्यौ कतमौ द्वौ / यदुत शिक्षापदसमतिक्रमं च अनादत्तसारस्य च कालक्रिया 3 इमे काश्यप द्वौ प्रव्रजितस्य शल्यौ 10 //
121 श्रमण श्रमण इति काश्यप उच्यते / कियन् नु तावत् काश्यप 4 श्रमणः श्रमण इत्य् उच्यते / चत्वार इमे काश्यप श्रमणाः कतमे चत्वारः यदुत वर्णरूपलिङ्गसंस्थानश्रमण / 5 आचारगुप्तिकुहकश्रमणः कीर्तिशब्दश्लोकश्रमणः भूतप्रतिपत्तिश्रमणः इमे काश्यप
fol. 60v (kp-si p/2) 1 चत्वारः श्रमणाः / 122 तत्र काश्यप कतमो वर्णरूपलिङ्गसंस्थानश्रमणः इह काश्यप इह्ऽ एकत्य श्रमण वर्णरूपलिङ्गसंस्थानसमन्वागतो 2 भवति / संघाटीपरिवेष्टितो मुण्डशिरः सुपात्रपाणैः परिगृहीतः स च 3 भवत्य् अपरिशुद्धकायकर्मसमुदाचार अपरिशुद्धवाक्कर्मसमुदाचारः अपरिशुद्धमनस्कर्मसमुदाचारः 4 भवति / अयुक्त अमुक्तः अदान्तः अशान्तः अगुप्तः अविनीतः लुब्धः अलसो : दुःशीलः पापधर्मसमाचारः 5 अयम् उच्यते काश्यप वर्णरूपलिङ्गसंस्थानश्रमणः //
123 तत्र काश्यप कतमः आचारगुप्तिकुहकः
fol. 61r (kp-si p/2) 1 श्रमणः इह काश्यप इहैकत्य श्रमणः आचारचारित्रसंपन्नो भवति संप्रजानचारी चतुर्भि ईर्यापथैर् 2 लूहान्नपानभोजी संतुष्टः चतुर्भिर् आर्यवंशेर् असंसृष्टो गृहस्थप्रव्रजितैर् अल्पभाष्यो ऽल्पमन्त्रः ते 3 चास्येर्यापथाः कुहनलपनतया कल्पिता भवन्ति / न चित्तपरिशुद्धये / न शमाय नोपशमाय / 4 न दमाय / उपलंभदृष्टिकश् च भवति / शुन्यतानुपलंभाश् च धर्मेषु श्रुत्वा प्रपातसंज्ञी भवति / 5 शुन्यतावादिनां च भिक्षूणाम् अन्तिके अप्रसादसंज्ञीम् उत्पादयति इयम् उच्यते काश्यप आचारगुप्तिकुहकश्रमणः //
fol. 61v (kp-si p/2) 1 124 तत्र काश्यप कतमः कीर्तिशब्दश्लोकः श्रमणः इह काश्यप इहैकत्य श्रमणः प्रतिसंख्याय शीलं 2 रक्षति / कथं मां परे जानीयुः शीलवान् इति / प्रतिसंख्याय श्रुतम् उद्गृह्णीते कथं मां परे जानीयुर् बहुश्रुत 3 इति / प्रतिसंख्यायारण्ये प्रतिवसति / कथं मां परे जानीयुर् आरण्यक इति / प्रतिसंख्याय 4 अल्पेच्छः संतुष्टः प्रविविक्तो विहरति / यावद् एव परोपदर्शनाय न निर्वेदाय न विरागाय 5 न निरोधाय / नोपशमाय / ना संबोधये / न श्रामण्याय / न ब्राह्मण्याय / न निर्वाणाय / अयम् उच्यते
fol. 62r (kp-si p/2) 1 काश्यप कीर्तिशब्दश्लोकश्रमण //
125 तत्र काश्यप कतमो भूतप्रतिपत्तिः श्रमणः यः काश्यप भिक्षुर् अनर्थिको 2 भवति कायेन च जीवितेनापि / कः पुनर् वादो लाभसत्कारश्लोके / शुन्यता आनिमित्ता अप्रणिहिताश् च धर्मां 3 श्रुत्वा आप्तमनो भवति तथत्वतायां प्रतिपन्नो निर्वाणे चाप्य् अनर्थिको ब्रह्मचर्यं चरति / कः पुनर् 4 वादस् त्रैधातुकाभिनन्दनतया शुन्यतादृष्ट्याप्य् अनर्थिको भवति / कः पुनर् वाद आत्मसत्वजीवपोषपुद्गलदृष्ट्या / 5 धर्मप्रतिसरणश् च भवति / क्लेषानां च अध्यात्म विमोक्ष मर्गति / न बहिर्धा धावति / अत्यन्तपरिशुद्धश् च
fol. 62v (kp-si p/2) 1 प्रकृत्या सर्वधर्मा असंक्लिष्टान् पश्यति / आत्मद्वीपश् च भवत्य् अनन्यद्वीपः धर्मतो ऽपि तथागतं न समनुपश्यति कः पुनर् 2 वाद रूपकायेन / विरागतो ऽपि धर्मं नाभिनिविशते कः पुनर् वाद रुतवाक्पथोदाहरणेन / असंस्कृतम् 3 अपि चार्यसंघं न विकल्पयति / कः पुनर् वादो गणसंनिपाततः नापि कस्यचिद् धर्मस्य प्रहाणायाभियुक्तो 4 भवति न भावनायै न साक्षीक्रियाय / न संसारे विरोहति / न निर्वाणम् अभिनन्दति / 5 न मोक्षं पर्येषते / न बन्धं / प्रकृतिपरिनिर्वृता च सर्वधर्मान् विदित्वा न संसरति न परिणिर्वायति /
fol. 63r (kp-si p/2) 1 अयम् उच्यते काश्यप भूतप्रतिपत्तिः श्रमणः // भूतप्रतिपत्त्या श्रामण्या योगः करणीयो न नामहेतुन 2 भवितव्यो इमे काश्यप चत्वार श्रमणा / तत्रेदम् उच्यते //
126 यो कायवाक्चित्तमनेर् अशुद्धो अदान्त्ऽ 3 अगुप्तो अविनीत लुब्धो मुण्डशिरश् चीवरपात्रपाणी संस्थानलिङ्गा श्रमणेषु वुक्तो 1 आचारचर्यापि 4 समन्वितो पि रूक्षान्नभोजी कुहनादिसेवी चतुरार्यवंशेहि समन्वितो पि संसर्ग दूरात् परिवर्जयन्तो 2 5 ते चास्य सर्वे न दमाय भोन्ति न शान्तये नापि च निर्विदाय / शुन्यानिमित्तेषु प्रपातसंज्ञी आचारगुप्तिः
fol. 63v (kp-si p/2) 1 कुहको द्वितीयो : 3 धुतागुणा शील श्रुतं समाधिः परस्य विस्वापनहेतु कुर्वति / न शान्तये नापि च 2 निर्विदाय कीर्तीयश्लोकश्रमणो तृतीय / 4 कायेन यो ऽनर्थिक जीवितेन वा यो लाभसत्कारपरामुखश् च 3 विमोक्ष-उत्पादमुखं च श्रुत्वा अनर्थिका सर्वभवद्गतीषु / 5 // अत्यन्तशुन्याश् च परीक्ष्य धर्मान् 4 न निर्वृतिं पश्यति नाप्य् अनिर्वृतिं / विरागतो धर्मम् अवेक्षते सदा असंस्कृतं धर्मम् अनित्य निर्वृतः 6 //
127 तद्यथापि 5 नाम काश्यप दरिद्रपुरुषस्य समृद्धकोश इति नामधेयं भवेत्* तत् किं मन्यसे काश्यप अनुरूपं
fol. 64r (kp-si p/2) 1 तस्य दरिद्रपुरुषस्य तन् नामधेयं भवेत्* आह नो हीदम् भदन्त भगवन्* भगवान् आह / एवम् एव काश्यप ये ते श्रमणब्राह्मणा 2 इत्य् उच्यन्ते / न च श्रामण्यब्राह्मण्यसमन्वागता भवन्ति / तान् अहं दरिद्रपुरुषान् इति वदामि / 3 तत्रेदम् उच्यते // यथा दरिद्रस्य भवेत नामं समृद्धकोशं ति न तच् च शोभते / श्रामण्यहीन श्रमणो न 4 शोभते दरिद्र आढ्येति व उच्यमानः //
128 तद्यथापि नाम काश्यप कश्चिद् एव पुरुषो महता उदकार्णवेनोह्यमानः 5 तृषया कालं कुर्यात्* एवम् एव काश्यप इह्ऽ एकत्ये श्रमणब्राह्मणो बहून् धर्मान् पर्याप्नुवन्ति न रागतृष्णान्
fol. 64v (kp-si p/2) 1 विनोदयन्ति / न द्वेषतृष्णा न मोहतृष्णा शक्नुवन्ति विनोदयितुं / ते महता धर्मार्णवेनोह्यमाना क्लेशतृष्णया 2 कालगता दुर्गतिगामिनो भवन्ति / तत्रेदम् उच्यते 2 // यथा मनुष्यो उदकार्णवेन उह्याति तृष्णाय करेय 3 कालम्* तथा पठन्ता बहुधर्म तृष्णया धर्मार्णवस्था पि व्रजन्त्य् अपायं //
129 तद्यथापि नाम काश्यप वैद्यो ओषधभारं 4 गृहीत्वा अनुविचरेत्* तस्य कश्चिद् एव व्याधि उत्पद्येत न च तं व्याधि शक्नुया चिकित्सितुं / एवम् एव काश्यप 5 बहुश्रुतस्य क्लेशव्याधि द्रष्टव्या यस् तेन श्रुतेन न शक्नोति आत्मनः क्लेषव्याधि चिकित्सितुं / निरर्थकं तस्य तच् छ्रुतं
fol. 65r (kp-si p/2) 1 भविष्यति / तत्रेदम् उच्यते 3 // यथ्ऽ एव वैद्य्ऽ औषधभ्रस्त्रसंस्थे परिभ्रमेत निखिलंहि लोके / उत्पन्न व्याधिन् न निवर्तये च निरर्थकं 2 तस्य भवेत तं हि / भिक्षुस् तथा शीलगुणेर् उपेतः श्रुतेन युक्तो पि न चश् चिकित्सेत्* अयोनिश क्लेशसमुत्थिता 3 रुजा वृथाश्रमस् तस्य श्रुताभियोगः //
130 तद्यथापि नाम काश्यप ग्लानः पुरुषो राजार्हन् भैषज्यम् उपयुज्यासंवरेण 4 कालं कुर्यात्* एवम् एव काश्यप बहुश्रुतस्य क्लेशव्याधि द्रष्टव्यः यस् तेनासंवरेण कालं करोति / 5 यो राजार्हां भैषज्यां पर्यापुनित्वा असंवरेण अपायगामी भवति / तत्रेदम् उच्यते 4 // यथापि राजार्हं पीत्व भेषजं
fol. 65v (kp-si p/2) 1 व्रजेन् नरो ऽसंवरतो निपातं / बहुश्रुतस्य्ऽ एष तु क्लेशव्याधिर् यो ऽसंवरेणेह करोति कालम्* 131 तद्यथापि नाम काश्यप अनर्घं 2 वैडूर्यमहामणिरत्नम् उच्चारे पतितम् अकार्योपकं भवति / एवम् एव काश्यप बहुश्रुतस्य लाभसत्कार-उच्चारपतनं 3 द्रष्टव्य / निष्किंचनं देवमनुष्येषु / तत्रेदम् उच्यते 5 // रत्नं यथोच्चारगतं जुगुस्पितं यथा 4 स्यान् न तथा यथा पुर / बहुश्रुतस्यापि वदामि भिक्षोः सत्कारमीडे पतनं तथ्ऽ एव / // तद्यथापि नाम काश्यप 5 तद् एव वैडूर्यं महामणिरत्नम् अमेध्यावस्कराद् उद्धृतं भवेत् सुधौतं सुप्रक्षालितं सुपरिमार्जितं / तं मणिरत्नस्वभावम्
fol. 66r (kp-si p/2) 1 एव न विजहत्य् एवम् एव काश्यप बहुश्रुतो ऽल्पप्रयत्नेन सर्वक्लेशान् विशोधयति महाप्रज्ञारत्नस्वभावम् एव 2 न विजहाति 6 / //
132 तद्यथापि नाम काश्यप मृतकस्य शिरसि सुवर्णमाला / एवम् एव काश्यप दुःशीलस्य काषायधारणं द्रष्टव्यं / तत्रेदम् उच्यते / 7 // सुवर्णमालेव मृतस्य शीर्षे न्यस्ता यथा स्याद् अथ पुष्पमाला / 4 काषायवस्त्राणि तथा विशीले दृष्ट्वान कुर्यान् मनसः प्रदोषं //
133 तद्यथापि नाम काश्यप अवदातवस्त्रप्रावृतस्य 5 प्रवरचन्दनानुलिप्तस्य श्रेष्ठिपुत्रस्य वा राजपुत्रस्य वा शिरसि चण्पकमालाबद्धं भवेत्* एवम् एव काश्यप दुःशीलवतो
fol. 66v (kp-si p/2) 1 बहुश्रुतस्य काषायधारणं द्रष्टव्य : तत्रेदम् उच्यते 8 // सुस्नातस्यानुलिप्तस्य श्रेष्ठिपुत्रस्य शोभनं शीर्षे चण्पकमालेव 2 शुभगन्धा मनोरमा यथा तथ्ऽ एव काषायं संवरस्थे बहुश्रुते द्रष्टव्यं शीलसंपन्नजिनपुत्रे 3 गुणान्विते 2 //
134 चत्वार इमे काश्यप दुःशीला शीलवन्तप्रतिरूपकाः कतमे चत्वारः इह काश्यप एकत्यो 4 भिक्षुः प्रातिमोक्षसंवरसंवृतो विहरति / आचारगोचरसंपन्न अणुमात्रेष्व् अवद्येषु भयदर्शी समादाय 5 शिक्षते शिक्षापदेषु / परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति / परिशुद्धाजीवः स च भवत्य्
fol. 67r (kp-si p/2) 1 आत्मवादी अयं काश्यप प्रथमो दुःशीलः शीलवन्तप्रतिरूपको द्रष्टव्यः // पुनर् अपरं काश्यप इह्ऽ एकत्यो भिक्षुर् विनयधरो भवति / 2 प्रवर्तितविनयो विनयगुप्तिप्रतिष्ठितः सत्कायदृष्टिर् अस्यानुचलिता भवति / अयं काश्यप द्वितीयो 3 दुःशीलः शीलवन्तप्रतिरूपकः // पुनर् अपरं काश्यप इह्ऽ एकत्यो भिक्षुः मैत्राविहारि भवति सत्वारंबणया 4 समन्वागतः स च अजाति सर्वधर्माणां श्रुत्वा उत्त्रसति / संत्रसति / संत्रासम् आपद्यते / अयं काश्यप 5 तृतीयो दुःशीलः शीलवन्तप्रतिरूपकः // पुनर् अपरं काश्यप इह्ऽ एकत्यो भिक्षुः द्वादशधुतगुणसमादाय वर्तते
fol. 67v (kp-si p/2) 1 उपलंभदृष्टिकश् च भवत्य् अहंकारस्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूपको द्रष्टव्यः इमे काश्यप 2 चत्वारो दुःशीला शीलवन्तप्रतिरूपका द्रष्टव्याः //
135 शीलं शीलम् इति काश्यप उच्यते / यत्र नात्मा + नैर्. + 3 नात्मीयं न सत्वो न सत्वप्रज्ञप्तिः न क्रिया नाक्रिया / न करणं नाकरणं / न चारो नाचारः न प्रचारो 4 नाप्रचारः न नामं न रूप / न निमित्तं नानिमित्तं / न शमो न प्रशमः न ग्राहो नोत्सर्गः न ग्राह्यं नाग्राह्य / 5 न सत्वो न सत्वप्रज्ञप्तिः न वाङ् न वाक्प्रज्ञप्ति न चित्तं न चित्तप्रज्ञप्तिः न लोको नालोकः न निश्रयो नानिश्रयः
fol. 68r (kp-si p/2) 1 नात्मशीलोत्कर्षणा / न परदुःशीलपंसना / न शीलमन्यना / न शीलकल्पना / न विकल्पना / न संकल्पना / 2 न परिकल्पना / इयम् उच्यते काश्यप आर्याणां शील / अनास्रवम् अपर्यापन्नं त्रैधातुकानुगतं 3 सर्वनिश्रयापगं / 136 अथ भगवांस् तस्यां वेलायम् इमां गाथाम् अभाषतः // न शीलवन्तस्य मलं 4 न किंचन न शीलवन्तस्य मदो न निश्रयः न शीलवन्तस्य तमो न बन्धनम्* न शीलवन्तस्य रजो न दोषः 5 शान्तप्रशान्त-उपशान्तमानसो कल्पविकल्पापगतो निरंगणः सर्वेञ्जनामन्यनविप्रमुक्तः स शीलवान्
fol. 68v (kp-si p/2) 1 काश्यप बुद्धशासने : न कायसापेक्षि न जीवितार्थिको ह्य् अनर्थिकः सर्वभवोपपत्तिभिः सम्यग्गतः स्ः ः ः ः 2 प्रतिष्ठितः स शीलवान् काश्यप बुद्धशासने / 3 न लोकलिप्तो न च लोकनिश्रितो : आलोकप्राप्तो अममो अकिञ्चनः 3 न चात्मसंज्ञी न परेषु संज्ञी संज्ञा परिज्ञाय विशुद्धशीलः 4 यस्या न ऽपारं न च पारमध्यं अपारपारे 4 च न जातु सक्तः अवबद्ध्ऽ असक्तो अकुहो अनास्रवः स शीलवान् काश्यप बुद्धशासने / 5 137 नामे च 5 रूपे च असक्तमानसः समाहितस् सो हि सुदान्तचित्तः यस्येह आत्मा न च आत्मनीया-म्-एतावता शीलस्थितो
fol. 69r (kp-si p/2) 1 निरुच्यते / 6 न शिक्षया मन्यति प्रातिमोक्षे न चापि तेन भवतेह तन्मयो / अथोत्तरं मर्गति आर्यमार्गे विशुद्धशीलस्य 2 इमे निमित्ता 7 न शीलपरमो न समाधितन्मयो : पर्येषते-द्-उत्तरि प्रज्ञभावना / अनोपलंभम् आर्याण गोत्रं 3 विशुद्धशीलं सुगतप्रशस्तम्* सत्कायदृष्टे हि विमुक्तमानसो अहं ममेतीह न तस्य भोति / अधिमुच्यते 4 शुन्यत बुद्धगोचरम् इमस्य शीलस्य समो न विद्यते / 9 शीले प्रतिष्ठाय समाधि शुद्धः समाधिप्राप्तस्य च 5 प्रज्ञभावना / प्रज्ञाय ज्ञानं भवते विशुद्धं विशुद्धज्ञानस्य च शीलसंपदा / 10 //
138 अस्मिन् खलु पुनर् गाथाभिनिर्हारे
fol. 69v (kp-si p/2) 1 भाष्यमाणे अष्टानां भिक्षुशतानाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि / द्वात्रिंशतीनां च प्राणसहस्राणां विरजो 2 विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं / पंच भिक्षुशतानि ध्यानलाभीन्य् उत्थायासनेभ्यः प्रक्रान्तानि इमां 3 गंभीरां धर्मदेशनां नावतरन्तो नावगाहमानाः अनधिमुच्यमानाः 139 अथायुष्मान् महाकाश्यपो भगवन्तम् 4 एतद् अवोचत्* इमानि भगवां पंच भिक्षुषतानि ध्यानलाभीन्य् उत्थायासनेभ्यः प्रक्रान्तानि / इमां 5 गंभीरां धर्मदेशनाम् नावतरन्तो नावगाहन्तो-म्-अनधिमुच्यमानाः भगवान् आह / तथा ह्य् एते काश्यप भिक्षवः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
