Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

हेतुतत्त्वोपदेश

Tác giả
जितारि
Thông tin
GRETIL — G. Tucci: Minor Buddhist Texts, part I, Roma 1956 (Serie Orientale Roma, 9), pp. 261-274.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

जितारि: हेतुतत्त्वोपदेश

1. साधनं दूषणं चैव साभासं परसंविदे / प्रत्यक्षम् अनुमानं च साभासं त्व् आत्मसंविदे //

इति शास्त्रार्थसंग्रहः //

2. वादिना स्वयं साधयितुम् इष्टो ऽर्थः साध्यः / साध्यते येन तत् साधनम् /

3. हेतोस् त्रिरूपवचनम् / कानि पुनस् तानि त्रिणि रूपाणि / पक्षे सत्त्वम् एवेत्य् एकं रूपम् / सपक्ष एव सत्त्वम् इति द्वितीयं रूपम् / विपक्षे चासत्त्वम् एव निश्चितम् इति तृतीयम् //

4. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धेण विशेषेण विशिष्टः स्वयं साधयितुम् इष्टः प्रत्यक्षाद्यविरुद्धः / यथा शब्दो धर्मी अनित्यत्वेन विशेण विशिष्तः साध्यते कृतकत्वाद् इति हेतुः //

5. कः सपक्षः / साध्यधर्मेण सामान्येन समानः सपक्षो यथा घटादिर् इति //

6. को वा हेतोर् विपक्षः / यत्र साध्याभावेन हेतोर् अभावो नियमेन कथ्यते [ यथाकाशादिर् इति //

7. एतद् एव च हेतोस् त्रिरूपवचनं परप्रत्यायनाय प्रयुज्यमानं परार्थम् अनुमानम् उच्यते / यथा अनित्यः शब्द इति पक्षवचनं कृतकत्वाद् इति हेतुवचनम् / घटादिवद् इति सपक्षवचनं / आकाशवद् इति विपक्षवचनम् //

8. तत् पुनर् द्विविधं दृष्टम् / साधर्म्येण वैधर्म्येण च /

9. तत्र साधर्म्येण तावत् / यत् कृतकं तत् सर्वम् अनित्यं दृष्टम् / यथा घटादिः / कृतकश् च शब्द इति //

10. वैधर्म्येण पुनः / असत्य् अनित्यत्वे न भवत्य् एव कृतकत्वं यथाकाशादौ / शब्दस् तु कृतक इति //

11. कः पुनः पक्षाभासः / यः पक्ष इवाभासते / न तु साक्षात् पक्षो भवति / प्रत्यक्षादिभिर् बाधितत्वात् //

12. स तु पक्षाभासः / यथा धूमादिर् धर्मीबुद्धिमता हेतुना जन्यत इति साध्ये / प्रत्यक्षविरुद्धः पक्षाभासः / प्रत्यक्षेण वह्निजन्यस्य धुमस्य दर्शनात् //

13. अनुमानविरुद्धो यथा / वेदवाक्यं धर्म्य् अपौरुषेयम् इति साध्ये / प्रयत्नानन्तरीयकत्वे शब्दस्य पौरुषेयत्वस्य प्रसाधनात् //

14. स्ववचनविरुद्धो यथा / नानुमानं प्रमाणम् इति परप्रतिपादनाय वचनम् उच्चार्यमाणं परार्थम् अनुमानम् इत्य् उक्तत्वात् //

15. लोकविरुद्धो यथा / शुचि नरशिरःकपालं प्राण्यङ्गत्वाच् छङ्खशुक्तिवत् //

16. प्रतीतिविरुद्धो यथा / कियत्कालस्थायी कृतको ऽनित्य इति / कियत्कालस्थायिनो ऽपि कृतकाः सर्वे नित्या इति लोकप्रतीतेः //

17. अप्रसिद्धविशेषणो यथा / वैशेषिकस्य सांख्यं प्रति विनाशी शब्द इति साध्ये //

18. अप्रसिद्धविशेष्यो यथा / सांख्यस्य बौद्धं प्रति आत्मा चेतन इति साधयतः //

19. उभयाप्रसिद्धो यथा / वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणम् आत्मेति // प्रसिद्धसंबन्धो यथा वायुर् अस्थिरस्वभाव इति //

20. उक्ताः पक्षाभासाः // //

21. हेत्वाभासः कीदृशः / यो हेतुर् इवाभासते / न पुनः सिद्धो हेतुर् इति //

22. हेत्वाभासो ऽसिद्धो विरुद्धो ऽनैकान्तिकश् चेति त्रिप्रकारः //

23. तत्र पक्षे ऽसिद्धत्वाद् असिद्धसंज्ञको हेत्वाभासः /

24. पक्षसपक्षयोर् नास्ति / विपक्ष एवास्ति स विरुद्धसंज्ञको हेत्वाभासः / साध्यविपर्ययसाधनात् //

25. तत्र यो हेतुः सपक्षविपक्षयोर् उभयत्रास्ति नास्ति वा संदिह्यते / अप्रसिद्धसंबन्धो वा सो ऽनैकान्तिकसंज्ञको हेत्वाभासः / वादिनः प्रतिवादिनो वा साधयितुम् इष्टस्यैकान्तस्यासाधनात् //

26. उभयासिद्धः तद्यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः वादिप्रतिवादिनोर् असिद्धः //

27. चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणाद् इति हेतुः प्रतिवादिनो बौद्धस्यासिद्ध इति प्रतिवाद्यसिद्धः / चैतन्यादिनिरोधस्य बौद्धेनोपगमात् //

28. अचेतनाः सुखादय इति साध्ये / उत्पत्तिमत्त्वाद् इति हेतुः स्वयं वादिनः सांख्यस्यासिद्धः / इति वाद्यसिद्ध इति //

29. वैशेषिकस्य बौद्धं प्रति क्षमादिकं धर्मी कार्यम् इति साधयतः प्रतिक्षणं सदृशापरापरोत्पत्तेर् इति स्वयं वादिनो ऽसिद्धः / उत्पत्तौ सिद्धायाम् अपि प्रतिक्षणसदृशापरापरोत्पत्तिर् इत्य् असिद्धः //

30. पक्षैकदेशासिद्धो यथा / चेतनास् तरवः स्वापाद् इति हेतुः / दिगम्बरस्य स्वयं वादिनः पक्षैकदेशासिद्धः / न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः //

31. तथा पृथिव्यादिकं धर्मी बुद्धिमद्धेतुजन्यम् इति साध्ये कार्यत्वाद् इति हेतुर् बौद्धं प्रत्य् असिद्धः / प्रत्यक्षानुपलम्भनिबन्धनो हि कार्यकारणभावो बौद्धस्य पृथिव्यादौ न सिद्धः / विहाराहारादिषु सिद्धं चेत् तदा पक्षैकदेशासिद्धः //

32. संदिग्धासिद्धो यथा यद्य् अयं धूमो ऽग्निर् अत्रेति साध्ये हेतोर् एवानिश्चयात् //

33. धर्मिसंदेहे ऽप्य् असिद्धो यथा / इह बहुषु निकुञ्जेषु क्वचिद् एकस्मिन् निकुञ्जे मयूर इति साध्ये केकायिकाद् इति हेतुः //

34. धर्म्यसिद्धाव् अप्य् असिद्धो यथा आत्मा धर्मी सर्वगत इति साध्ये सर्वत्रोपलभ्यमानगुणत्वाद् इति हेतुः //

35. दशैते ऽसिद्धसंज्ञका हेत्वाभासाः //

36. // अनैकान्तिको हेत्वाभासः कीदृश उच्यते //

37. यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वं हेतुः सपक्स्विपक्षयोः सर्वत्र वर्तमानः साधारणानैकान्तिकः //

38. तथा शब्दस्य नित्यत्वे श्रावणत्वं हेतुः सपक्षविपक्षयोर् अप्रवर्तमानात् / असाधारणानैकान्तिकः //

39. तथा शब्दस्याप्रयत्नानन्तरीयकत्वे साध्ये ऽनित्यत्वाद् इति हेतुः / सपक्षैकदेशवृत्तिर् विपक्षव्याप्य् अनैकान्तिकः // अप्रयत्नानन्तरीयकः शब्दस्य विद्युदाकाशादिः सपक्षः तत्रैकदेशे विद्युदादौ वर्तते ऽनित्यत्वं नाकाशादौ प्रयत्नान्तरीयकः पुनः सर्वो घटादिर् विपक्षः / तत्र सर्वत्र वर्तते //

40. तथा प्रयत्नानन्तरीयकत्वे शब्दस्य साध्ये ऽनित्यत्वं हेतुः घटादौ सर्वत्र विद्यते / अप्रयत्नानन्तरीयकः पुनर् विद्युदाकाशादिर् विपक्षः / तत्रैकदेशे विद्युदादौ वर्तते नाकाशादौ / तस्माद् अयं विपक्षैकदेशवृत्तिः सपक्षव्यापी हेतुर् अनैकान्तिकः //

41. उभयपक्षैकदेशवृत्तिर् अनैकान्तिको यथा / शब्दे धर्मिणि नित्यत्वे साध्ये ऽमूर्तत्वाद् इति हेतुः / परमाण्वाकाशादिः सपक्षो ऽस्य / तत्रैकदेशे ऽमूर्तत्वम् आकाशे प्रवर्तते न परमाणौ मूर्तत्वात् परमाणूनम् / घटसुखादिर् अनित्यो विपक्षः / तत्रैकदेशे सुखादौ विद्यते न घटादौ //

42. तथा संदिग्धविपक्षव्यावृत्तिकः सपक्षव्यापी हेतुर् अनैकान्तिको यथा / कपिलादिधर्म्य् असर्वज्ञ इति साध्ये वक्तृत्वाद् इति हेतुः / रथ्यापुरुषादौ सपक्षे ऽस्ति / विपक्षे सर्वज्ञे संदिग्धः / सर्वज्ञस्यातीन्द्रियत्वाद् वचनम् अस्ति न वेति संदिग्धम् //

43. तथा संदिग्धसपक्षवृत्तिर् विपक्षव्याप्ल् हेतुर् अनैकान्तिको यथा / ऋषभवर्धामानादिधर्मी सर्वज्ञ इति साध्ये केवलिशास्त्रकरणाद् इति हेतुः सपक्षे सर्वज्ञे संदिग्धः / सर्वज्ञस्यातीन्द्रियत्वात् केवलिशास्त्रकरणं संदिग्धम् / विपक्षे वराहमिहिरादाव् असर्वज्ञे विद्यते //

44. संदिग्धान्वयव्यतिरेकहेतुर् अनैकान्तिको यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति हेतुः / जीवच्छरीरसंबन्धी प्राणादिर् न सात्मके अनात्मके वा प्रवृत्तो निवृत्तो वेति निश्चीयते //

45. ततः केवलान्वयी हेतुर् दृष्टान्ताभावात् //

46. तथा द्वितीयो ऽपि केवलव्यतिरेकी नेदं निरात्मकं जीवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गाद् इति / दृष्टान्ताभावाद् एव नान्वयनिश्चयो नापि व्यतिरेकनिश्चय इति संशयहेतुः //

47. उक्ता नव एते ऽनैकान्तिकसंज्ञका हेत्वाभासाः //

48. विरुद्धसंज्ञको हेत्वाभासः कीदृशः //

49. यथा शब्दो धर्मी नित्य इति साध्यो धर्मः कृतकत्वाद् आकाशादिवत् / अयं हेतुर् घटादौ विपक्ष एवास्ति न सपक्षे //

50. तथा शब्दो धर्मी नित्य इति साध्ये प्रयत्नानन्तरीयकत्वाद् इति हेतुर् आकाशादौ सपक्षे नास्त्य् एव / विपक्षैकदेसे घटादौ विद्यते न विद्युदादौ // एतौ द्वौ हेतू धर्मस्वरूपविपरीतसाधनौ //

51. धर्मविशेशविपरीतसाधनो यथा / चक्षुरादय इति धर्मी परार्था इति साध्यो धर्मः संघतत्वाद् इति हेतुः / मञ्चपीठादिवद् इति सपक्षवचनं / अयं तु हेतुर् यथा चक्षुरादीनां पारार्थ्यं साधयति / तथा संघातत्वं परस्य साधयति / मञ्चपीठादीनां संघातस्य देवदत्तादेः परस्योपकारदर्शनात् //

52. धर्मिस्वरूपविपरीतसाधनो यथा पृथिव्यादिर् धर्मी बुद्धिमद्धेतुजन्य इति साध्ये साश्रयत्वाद् इति हेतुः / घटादिवद् इति सपक्षवचनम् / अयं हेतुर् यथा बुद्धिमद्धेतुजन्यत्वं साधयति तथा बुद्धिमतः कर्तुः साश्रयत्वम् अपि साधयति //

53. धर्मिविषेशविपरीतसाधनो यथा / वैशेषिकस्य मीमांसकं प्रत्य् आत्मा धर्मी चेतयत इति साध्ये (htu 267) चेतनाधिष्ठानत्वाद् इति हेतुर् आत्मनो ऽचेतनस्य यथा चैतन्यं साधयति / तथा हेतुर् अयम् अनित्यत्वम् अपि साधयति / अनित्यत्वाद् विज्ञानस्य //

54. उक्ताः पञ्चैते विरुद्धसंज्ञका हेत्वाभासाः //

55. विरुद्धाव्यभिचारी नाम न कश्चिद् धेतुदोषो ऽस्तीति न तस्योदाहरणं युक्तम् / तत्रोदाहरणं / यत् सर्वदेशावस्थितैः स्वयं च स्वसंबन्धिभिर् युगपद् अभिसंबध्यते तत् सर्वगतम् / यथाकाशम् इति / अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर् युगपत् सामान्यम् इति पैलुकस्य स्वभावहेतुप्रयोगः / / द्वितीयो ऽपि प्रयोगः पैठरस्य / यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते न तत्रास्ति / तद् यथा क्वचिद् अविद्यमानो घटः / नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्व् इति // अनुपलम्भो हेतुः पूर्वोक्तश् च स्वभावः परस्परं बाधयतः / संशयजननात् /

56. न सपक्षाद् अन्यो दृष्टान्तो नाम कश्चिद् इति सपक्ष एव साधर्म्यदृष्टान्तः // तत्र दृष्टान्ताभासः कीदृशः /

57. साधर्म्येण तावत् /

58. नित्यः शब्दो ऽमूर्तत्वात् कर्मवत् / साध्यविकलः कर्मणो ऽनित्यत्वात् //

59. नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत् / साधनविकलः परमाणूनां मूर्तत्वात् //

60. नित्यः शब्दो ऽमूर्तत्वाद् घटवद् / साध्यसाधनोभयविकलः //

61. तथा संदिग्धसाध्यधर्मा दृष्टान्ताभासः / कश्चित् पुरुषो धर्मी रागादिमान् वचनात् / रथ्यापुरुषवत् / (htu 268) तत्र दृष्टान्ते रथ्यापुरुषे रागादिमत्त्वं संदिग्धः परचेतोवृत्तीनां दुरन्वयत्वात् //

62. संदिग्धसाधनधर्मा यथा / कश्चित् पुरुषो मरणधर्म इति साध्ये रागादिमत्त्वाद् इति हेतुः / रथ्यापुरुषे दृष्टान्ते संदिग्धः / वीतरागो ऽपि रागीव चेष्टते यतः //

63. संदिग्धोभयधर्मा दृष्टान्ताभासो यथा कश्चित् पुरुषो धर्मी असर्वज्ञ इति साध्ये रागादिमत्त्वाद् इति हेतुः / रथ्यापुरुषे दृष्टान्ते साध्यं साधनं संदिग्धम् //

64. अनन्वयो ऽप्रदर्शितान्वयो विपरीतान्वयश् च दृष्टान्टाभासाः //

65. तत्रानन्वयो यथा / यो वक्ता स रागादिमान् रथ्यापुरुषवत् / वक्तृत्वरागादिमत्त्वयोः कार्यकारणभावप्रतिषेधात् //

66. अप्रदर्शितान्वयो यथा / अनित्यः शब्दः कृतकत्वाद् इति / अत्र विद्यमानो ऽप्य् अन्वयो व्याप्त्या न दर्शित इति / वक्तृदोषाद् अयं दृष्टान्ताभासः //

67. विपरीतान्वयो यथा / यद् अनित्यं तत् कृतकं घटादिवद् इत्य् अत्रानित्यत्वं साध्यम् / साध्येनैव साधनं व्याप्तं कथनीयम् / न तु साधनेन व्याप्तं साध्यं कथ्यते / अथ विपरीतान्वयो दृष्टान्ताभासः //

68. उक्ता नवैते साधर्म्येण दृष्टान्ताभासाः //

69. वैधर्म्येण दृष्टान्ताभासा उच्यन्ते /

70. साध्याव्यतिरेकी दृष्टान्ताभासो यथा / नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत् / अत्र परमाणोर् वैधर्म्यदृष्टान्तत्वाद् अमूर्तत्वं साधनधर्मो व्यावृत्तो (htu 269) मूर्तत्वात् परमाणूनाम् / नित्यत्वं साध्यधर्मो न व्यावृत्तः / परमाणोर् नित्यत्वात् //

71. साधनाव्यतिरेक्ल् यथा / नित्यः शब्दो ऽमूर्तत्वात् कर्मवत् / अत्र नित्यत्वं साध्यधर्मो व्यावृत्तः कर्मणो ऽनित्यत्वात् / साधनधर्मो न व्यावृत्तः कर्मणो ऽमूर्तत्वात् //

72. उभयाव्यावृत्तो यथा / नित्यः शब्दो ऽमूर्तत्वाद् आकाशादिवत् / अत्राकाशादौ वैधर्म्यदृष्टान्तात् साध्यं साधनं च न व्यावृत्तम् //

73. तथा संदिग्धसाध्यव्यतिरेकी संदिग्धसाधनव्यतिरेकी / संदिग्धोभयव्यतिरेकी चेति /

74. संदिग्धसाध्यव्यतिरेको दृष्टान्ताभासो यथा / असर्वज्ञाः कपिलादयः / सर्वज्ञतालिङ्गभूतकेवलिशास्त्राकरणाद् इति / अत्र वैधर्म्योदाहरणम् / यः सर्वज्ञः स ज्योतिर्ज्ञानादिकम् उपदिष्टवान् यथा ऋषभवर्धमानादिर् इति / अत्र वैधर्म्योदाहरणाद् ऋषभवर्धमानादेर् असर्वज्ञता निवृत्तान वेति संदेहः //

75. संदिग्धसाधनव्यतिरेको यथा / नात्र त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कपिलकणादादिः पुरुषो रागादिमत्त्वाद् इति / अत्र वैधर्म्योदाहरणं ये ग्राह्यवचना न ते रागादिमन्तो यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्यो रागादिमत्त्वस्य धर्मस्य व्यावृत्तिः संदिग्धा //

76. संदिग्धोभयव्यतिरेकी यथा / अवीतरागाः कपिलादयः परिग्रहाग्रहयोगाद् इति / अत्र वैधर्म्योदाहरणं यो वीतरागो न तस्य परिग्रहाग्रहौ संभवतः (htu 270) यथा ऋषभवर्धमानादेर् इति / ऋषभादेर् वैधर्म्यदृष्टान्तात् अवीतरागत्वं साध्यधर्मः परिग्रहाग्रहयोगः साधनधर्मो व्यावृत्तो न वेति संदेहः / अपूर्वार्थलाभः परिग्रहः / लब्धस्यापरित्याग आग्रहः / तौ च द्वाव् अपि ऋषभादौ संभव्येते / छत्रचामरदुन्दुभीनां परिग्रहाग्रहश्रवणात् //

77. अव्यतिरेको वैधर्म्यदृष्टान्ताभासो ऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश् चेति /

78. अव्यतिरेको यथा / कपिइआदिर् अवीतरागो वक्तृत्वात् / यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति / यद्य् उपलखण्डाद् अयं व्यावृत्तस् तथापि सर्वो वीतरागो वक्तेति संदेहः //

79. अप्रदर्शितव्यतिरेको यथा / अनित्यः शब्दः कृतकत्वाद् आकाशादिवद् इति / परमार्थतः संयग् दृष्टान्तो ऽप्य् अयं वक्तृदोषाद् दृष्टान्ताभासः / परार्थानुमाने वक्तुर् गुणदोषयोर् विचार्यमाणत्वात् / तथा हि यन् नित्यं तत् सर्वं नियमेनाकृतकं दृष्टं यथाकाशादिर् इति वचनेन विभज्य वक्त्रा व्याप्तिपूर्वको व्यातिरेको न प्रदर्शित इत्य् अप्रदर्शितव्यतिरेकः //

80. विपरीतव्यतिरेको यथा / यद् अकृतकं तन् नित्यं दृष्टम् इति / अत्र साधननिवृत्त्या साध्यनिवृत्तिर् व्याप्ता दर्शयितव्या तेन यत्र यत्र साध्यनिवृत्तिस् तत्र तत्र नियमेन साधननिवृत्तिः सिध्यतीति //

81. उक्ता दृष्टान्ताभासा अष्टादश //

82. एत एव सर्वे पक्षहेतुदृष्टान्ताभासाः / वादिना साधयितुम् इष्टम् अर्थं न साधयन्तीति साधनाभासा (htu 271) वादिनो भवन्ति / एवं च प्रतिवादिना दूषणत्वेनोपन्यस्ता दूषणानि भवन्ति / पूर्वपक्षवादिनो ऽभिप्रेतार्थसिद्धिप्रतिबन्धात् / साधनस्य न्यूनतोद्भावनम् एव दूषणस्य लक्षणं विभज्य पृथग् उच्यते /

83. दूषणाभासः / एतान्य् एव दूषणानि प्रतिवादिनोक्तानि / यदा पूर्वपक्षवादी मिथ्यादूषणत्वेन प्रतिपादयतीति तदा दूषणाभासा जातय इति पठ्यन्ते / अभूतदोषोद्भावनानि मिथ्योत्तराणि जात्युत्तरणीति वचनात् / याथादुष्टपक्षे पक्षदोषोद्भावनं निर्दोषे हेतौ हेतुदोषख्यापनम् / अदुष्टदृष्टान्ते दृष्टान्तदोषोपादानं दूषणाभास इति न्यायात् / ज्

84. तत्र प्रतिज्ञाहेतुदाहरणोपनयनिगमनानि पञ्चावयवं परैः साधनम् उच्यते / यथानित्यः शब्द इति प्रतिज्ञा कृतकत्वाद् इति हेतुः / यत् कृतकं तत् सर्वम् अनित्यं दृष्टं यथा घटादीत्य् उदाहरणम् / तथा कृतकः शब्द इत्य् उपनयः / तस्माद् अनित्य इति निगमनम् / दृष्टान्ते प्रतीतिसमर्थो हेतुर् धर्मिण्य् उपनीयत इत्य् उपनयः / प्रतिज्ञायाः पुनर्वचनं निगमनम् इति वचनात् / नैतद् अस्ति / त्रिभिर् एवावयवैर् अन्वयव्यतिरेकपक्षधर्मसंज्ञकैः साध्यार्थसिद्धेः //

85. तथा हि / वादकाले व्याप्तिपूर्वक एव प्रयोगः कर्तव्यः / यत् कृतकं तत् सर्वम् अनित्यं दृस्तं यथा घटादिर् इति / साध्येन साधनस्य दृष्टान्ते व्याप्तिकथनम् अन्वय उच्यते //

86. विपक्षे च साध्यनिवृत्त्या साधननिवृत्तिर् व्यतिरेक उच्यते यथासत्य् अनित्यत्वे न भवत्य् एव कृतकत्वं यथाकाशादौ /

87. कृतकश् च शब्द इति पक्षधर्मवचनम् / प्रतिज्ञानिगमने पुनः सर्वथा न वक्तव्ये //

88. तथा साधर्म्यवति प्रयोगे ऽन्वयाभिधानसामर्थ्याद् एव व्यतिरेको ऽवगन्तव्य इति न पृथग् उच्यते / यथा यत् कृतकं तत् सर्वम् अनित्यं द्रष्टव्यम् / यथा घटादिः / कृतकश् च शब्द इति / साधर्म्यवान् प्रयोगः / तथा वैधर्म्यवति प्रयोगे व्यतिरेकोक्तिसामर्थ्याद् एवान्वयः प्रतिपन्न इति नान्वयः पुनर् उच्यते / यन् नित्यं तद् अकृतकं दृष्टं यथाकाशादिः कृतकश् च शब्द इति / वैधर्म्यवान् प्रयोगः //

89. उक्ताः साधनाभासा दूषनाभसाः //

90. प्रत्यक्षं कीदृशम् / प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् / प्रतिगतम् आश्रितम् अक्षं यद् विज्ञानं तत् प्रत्यक्षम् / पञ्चेन्द्रियाश्रयाणि ज्ञानानीति यावत् / अत्यादयः क्रान्ताद्यर्थे द्वितिययेति समासेन प्रत्यक्षशब्दो वाच्यलिङ्गः सिद्धः / प्रत्यक्षो बोधः प्रत्यक्षा बुद्धिः / प्रत्यक्षं ज्ञानम् इत्य् उपपन्नं भवति //

91. चक्षुःश्रोत्रघ्राणजिह्वाकायाख्यानि पञ्चेन्द्रियाणि तदाश्रितानि पञ्च ज्ञानानि प्रमाणानि / तद्ग्राह्या विषया रूपशब्दगन्धरसस्पर्शाख्याः प्रमेयाणि पञ्चैव //

92. तच् च प्रत्यक्षं नामजात्यादिकल्पनारहितं निर्विकल्पकम् अभ्रान्तं च यदि भवति / तदा प्रमाणम् उच्यते / दर्शितस्यार्थस्याविसंवादनात् //

93. तत्र नामकल्पना / देवदत्तो ऽयम् इति यद् ज्ञानम् / जातिकल्पना गौर् इयम् इति ज्ञानम् / विशेषणविशेष्यम् (htu 273) इति कल्पना नीलोत्पलम् इति ज्ञानं / अन्यद् अपि सविकैपकं ज्ञानं प्रत्यक्षाभासः / भ्रान्तं चार्थे ऽपि तैमिरिकस्य द्विचन्द्रज्ञानं / शुक्तिकायां रजतज्ञानं स्थाणुर् अयं पुरुषो वेति ज्ञानम् / अन्यद् अपि ज्ञानं प्रत्यक्षाभासः प्रदर्शितार्थाप्रापकत्वात् //

94. तत्र त्रिविधं प्रत्यक्षं / व्यवहारम् अपेक्ष्य इन्द्रियज्ञानम् / सर्वचित्तचैत्तानां स्वरूपसंवेदनं स्वसंवेदनम् / भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति //

95. तस्य विषयः स्वलक्षणम् अर्थक्रियासमर्थं तु स्वलक्षणम् उच्यते / सामान्यं तु नार्थक्रियासमर्थम् /

96. तद् एव च प्रत्यक्षं प्रमाणम् / प्रमाणम् अर्थप्रतीतिरूपं फलं च तादृशम् एव / न प्रमाणफलयोर् भेदः कश्चिद् अस्ति //

97. अनुमानं द्विधा स्वार्थं परार्थं च /

98. तत्र स्वार्थं तावत् / गृहीते च पक्षधर्मे स्मृते च साध्यसाधनभावे पश्चात् प्रतिपत्ता यथार्थं प्रतिपद्यते येन तत् स्वार्थम् अनुमानम् /

99. पक्षधर्मश् च त्रिविध एव भवति / कार्यं स्वभावो ऽनुपलम्भश् चेति /

100. सिद्धे हि कार्यकारणभावे कार्यं हेतुर् द्रष्टव्यः / यथा यत्र धूमस् तत्राग्निः / यथा महानसादौ / अस्ति चेह धूम इति [ असत्य् अग्नौ न भवत्य् एव धूमो यथा सजलप्रदेशे / अस्ति चेह धूम इति /

101. स्वभावहेतुः / वृक्षो ऽयं शिंशपात्वाद् इति / पूर्वप्रवर्तितशिंशपाव्यवहारवत् / असति वृक्षत्वे न भवत्य् एव शिंशपात्वम् / यथा स्थण्डिलप्रदेशे / अत्रापि व्याप्यव्यापकभावे निश्चिते सति व्याप्यो हेतुर् द्रष्टव्यः //

102. अनुपलम्भहेतुर् यथा / नात्र घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणादिवत् / अत्रापि दृष्यानुपलम्भो दृष्याभवेन व्याप्तो यदा निश्चितस् तदायं हेतुर् गमकः //

103. अनुमानाभासः कीदृशः / पूर्ववत् / शेषवत् / सामान्यतोदृष्टं चेति परैः कल्पितम् अनुमानं सर्वम् अनुमानाभासः // तेषु तादात्म्यतदुत्पत्तिलक्षणस्य प्रतिबन्धाभावात् [ सिद्धे सत्य् एव हि कार्यकारणभावे व्याप्यव्यापकभावे च साध्यसाधनभावो नान्यथा व्यभिचारसंभवात् //

104. यथा वृष्टिमान् अयं मेघो गम्भीरध्वनत्वाद् इति / गम्भीरध्वनवतो ऽपि मेघस्य वृष्टिविघातसंभवात् //

105. यथोपरि वृष्टो देवो नदीपूरदर्शनात् बन्धभङ्गादिनापि नदीपूरस्य दर्शणात् //

106. यथा पक्वा एते तण्डुला एकस्थाल्यन्तर्गतत्वाद् दृष्टतण्डुलवत् //

107. पक्वान्य् एतान्य् फलानि एकशाखप्रबन्धात् / उपयुक्तफलवत् / अत्र भूयो दर्शने ऽपि साध्यसाधनयोर् व्यभिचारसंभव एव //

108. यथा यत् पार्थिवं तत् सर्वं लोहलेख्यं दृष्टम् / यथा काष्ठादि) / वज्रम् अपि पार्थिवं //

109. यः प्राणी स सर्वः सग्रीवः / यथा करभादिः कुलीरो ऽपि प्राणी //

110. यथा यद् द्रवद् द्रव्यम् आर्द्रकृत् तद् दृष्टं यथोदकं / पारदम् अपि द्रवद् द्रव्यम् इति / एवम् अन्ये ऽप्य् अनुमानाभासा द्रष्टव्या इति //

हेतुतत्त्वोपदेशः समाप्तः // कृतिर् इयं पण्डितराजजितारिपादानाम् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.