Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh A-hàm · Thanh văn thừa
देवतासूत्र and अल्पदेवतासूत्र
- Thông tin
- GRETIL — Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
देवतासूत्र and अल्पदेवतासूत्र
देवतासूत्र (gbm 1542.5)
एवं मया श्रुतम् एकस्मिं समये भगवां च्छ्रावस्त्यां विहरति स्म (द्स्; ग्ब्म् 1542.6) जेतवने ऽनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भगवांस् तेनोपसंक्रान्ता (द्स्; ग्ब्म् 1542.7) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा / अथ तस्या देवताया वर्णानुभावेन सर्वं जेतवनं उदारेणावभासेन (द्स्; ग्ब्म् 1542.8) स्फुटम् अभूत् / एकान्ते निषण्णा सा देवता तस्यां वेलायाम् इमां गाथाम् अभाषत किं नु तं निशितं शस्त्रं किं वा हालाहलं विषं / को नु प्रज्वालितो वह्नि किं वा तद् दारुणं तमः 1 (द्स्; ग्ब्म् 1543.1) भगवान् आह / दुष्टा वाङ् निशितं शस्त्रं रागो हालाहलं विषं / द्वेषः प्रज्वालितो वह्नि ऽविद्या तद् दारुणं तमः 2 देवता प्राह (द्स्; ग्ब्म् 1543.2) गृहीतं किं नु मर्त्येन किं वा तद् यद् इहोज्झितं / अभेद्यं कवचं किं नु किं वा तीक्ष्णम् इहायुधं / 3 भगवान् आह / गृहीतं यत् स्वयं दत्तं यद् गृहे तद् इहोज्झितं / (द्स्; ग्ब्म् 1543.3) अभेद्यं कवचं क्षान्ति प्रज्ञा तीक्ष्णम् इहायुधम् / 4 देवता प्राह / को न्व् असौ प्रोच्यते चौरो धनं किं वा सतां मतं / के वा सदेवके लोके प्रोच्यन्ते मुषिता इति / 5 (द्स्; ग्ब्म् 1543.4) भगवान् आह / वितर्कः कुशलश् चौरो धनं शीलं सतां मतं / ते चापि मुषिता लोके यैः शीलं विनिपातितम् / 6 (द्स्; ग्ब्म् 1543.5) देवता प्राह / को न्व् असौ सुखितो ज्ञेय को वा यः परमेश्वरः को वा विभूषितो नित्यं ब्रूहि को वा विडंबितः 7 भगवान् आह / (द्स्; ग्ब्म् 1543.6) अल्पेच्छः सुखितो ज्ञेयः संतुष्टो परमेश्वरः शीलवां विभूषितो नित्यं भ्रष्टशीलो विडंबितः 8 देवता प्राह / किं स्विद् अग्निर् न दहति न
भिनत्ति च मारुतः (द्स्; ग्ब्म् 1543.7) किं स्विन् न क्लेदयन्त्य् आपः प्लावयन्तो वसुन्धराम् / 9 भगवान् आह / पुण्यम् अग्निर् न दहति न भिनत्ति च मारुतः पुण्यं न क्लेदयन्त्य् आपः प्लावयन्तो वसुन्धराम् / 10 (द्स्; ग्ब्म् 1543.8) देवता प्राह / किं स्विद् राजा च चौराश् च स्पन्दमाना समुद्यता / नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुषस्य वा / 11 (द्स्; ग्ब्म् 1544.1) भगवान् आह / पुण्यं राजा च चौराश् च स्पन्दमाना समुद्यता / नापहर्तुं शक्नुवन्ति स्त्रिया वा पुरुषस्य वा / 12 देवता प्राह / वत्सलो बान्धवः को ऽसौ को वा दुष्टाशयो रिपुः (द्स्; ग्ब्म् 1544.2) किं वा तद् दारुणं दुःखं किं वा परमं सुखम् / 13 भगवान् आह / वत्सलो बान्धवः पुण्यं पापं दुष्टाशयो रिपुः (द्स्; ग्ब्म् 1544.3) नारकं दारुणं दुःखं शुद्धा भावः परमं सुखम् / 14 देवता प्राह / केनायम् आवृतो लोकः केन लोको वशीकृतः केन त्यजति मित्राणि केन स्वर्गं न गच्छति / 15 (द्स्; ग्ब्म् 1544.4) भगवान् आह / अज्ञानेनावृतो लोको मोहेन च वशीकृतः लोभात् त्यजति मित्राणि संगात् स्वर्गं न गच्छति / 16 (द्स्; ग्ब्म् 1544.5) देवता प्राह / किं तत् प्रियम् अपथ्यं च किं वा पथ्यं न च प्रियं को वा पीडाकरो व्याधिः को ऽसाव् एको भिषग् वरः / 17 भगवान् आह / कामाः प्रिया अपथ्याश् च मोक्षः पथ्यो न च प्रियः (द्स्; ग्ब्म् 1544.6) रागः पीडाकरो व्याधिर् बुद्धश् चैको भिषग् वरः / 18 देवता प्राह / केन मित्राणि वर्धन्ते केन शाम्यन्ति शत्रवः (द्स्; ग्ब्म् 1544.7) केन स्वर्गम् अवाप्नोति केन मोक्षं च गच्छति / 19 भगवान् आह / त्यागान् मित्राणि वर्धन्ते मैत्र्या शाम्यन्ति शत्रवः शीलात् स्वर्गम् अवाप्नोति ज्ञानान् मोक्षं च गच्छति
/ 20 (द्स्; ग्ब्म् 1544.8) देवता प्राह / इदं संशयम् अद्यापि मम त्वं छेत्तुम् अर्हसि / अस्माल् लोकात् परं लोकं को गतो ऽत्यन्तवंचितः / 21 (द्स्; ग्ब्म् 1545.1) भगवान् आह / विद्यमानेषु भोगेषु पुण्यं येन न संचितं / अस्माल् लोकात् परं लोकं सो गतो ऽत्यन्तवंचितः / 22 देवता प्राह (द्स्; ग्ब्म् 1545.2) चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं / सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् //
23 इत्य् उक्त्वा सा देवता भगवतो भाषितम् (द्स्; ग्ब्म् 1545.3) अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता //
अल्पदेवतासूत्र = अद्स्
एवं मया श्रुतम् एकस्मिं समये भगवां च्छ्रावस्त्यां (अद्स्; ग्ब्म् 1545.4) विहरति स्म जेतवने अनाथपिण्डदस्यारामे अथान्यतमा देवता अतिक्रान्तवर्णा अतिक्रान्तायां रात्र्यां येन भगवांस् (अद्स्; ग्ब्म् 1545.5) तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा अपीदानीं तस्या देवताया वर्णानुभावेन (अद्स्; ग्ब्म् 1545.6) सर्वं जेतवनं उदारेणावभासेन स्फुटम् अभूत् / एकान्ते निषण्णा सा देवता तस्यां वेलायां गाथाम् अभाषत //
किंशीलाः किंसमाचाराः के गुणाः केन कर्मणा / (अद्स्; ग्ब्म् 1545.7) के .ए .इहादि .. प्राज्ञाः के जना स्वर्गगामिनः 1 तस्या शास्ता व्याकार्षी देवता .. .. .. .. ..ः (अद्स्; ग्ब्म् 1545.8) श्रूयतां देवते मह्यं ये जना स्वर्गगामिनः 2 प्राणातिपाताद् विरता सुशीलाः संयमे रताः येन हिंसन्ति भूतानि ते जनाः स्वर्गगामिनः 3
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
