Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रसन्नपद
- Tác giả
- चन्द्रकीर्ति
- Thông tin
- GRETIL — P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अन्ताद्या अपि दृष्टयः । तद्यथा- अन्तवान् लोकः, अनन्तवांश्च, अन्तवांश्चानन्तवांश्च, नैवान्तवान् नानन्तवान् लोकः इति । एताश्चतस्रो दृष्टयो ऽपरान्तं समाश्रित्य प्रवृत्ताः । तत्र आत्मनो लोकस्य वा अनागतमुत्पादमपश्यन् अन्तवान् लोक इत्येवं कल्पयन् अपरान्तमालम्ब्य प्रवर्तते। एवमनागतमुत्पादं पश्यन् अनन्तवान् लोक इओति प्रवर्तते। पश्यंश्च अपश्यंश्च उभयथा प्रातिपद्यते। द्वयप्रतिषेधेन नैवान्तवान् नानन्तवानिति प्रतिपद्यते । शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्चाशाश्वतश्च, नैवशाश्वतो नैवाशाश्वातो लोकः, इत्येताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रित्य प्रवर्तन्ते। तत्र आत्मनो लोकस्य वा अतीतमुत्पादं पश्यन् शाश्वतो लोक इति प्रतिपद्यते, अपश्यन्नशाश्वत इति प्रतिपद्यते, पश्यंश्च अपश्यंश्च शाश्वतश्चाशाश्वतश्चेति प्रतिपद्यते, नैव पश्यन्नैवापश्यन् नैवशाश्वतो नाशाश्वतश्चेति प्रतिपद्यते पूर्वान्तमाअश्रित्य । ताश्चैता दृष्टयः कथं युज्यन्ते? यदि कस्यचित्पदार्थस्य कश्चित् स्वभावो भवेत्, तस्य भावाभावकल्पनात् स्युरेता दृष्टयः । यदा तु संसारनिर्वाणयोरविशेषः प्रतिपादितः, तदा-
शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत् । किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम् ॥ 22 ॥
किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम् । अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः ॥ 23 ॥
चतुर्दशाप्येतानि अव्याकृतवस्तूनि असति भावस्वरूपे नैव युज्यन्ते। यस्तु भावस्वरूपमध्यारोप्य तद्विगमाविगमतः एता दृष्टीरुत्पाद्य अभिनिविशते, तस्यायमभिनिवेशो निर्वाणपुरगामिनं पन्थानं निरुणद्धि, सांसारिकेषु च दुःखेषु नियोजयतीति विज्ञेयम् ॥ 23 ॥
अत्राह- यदि एवं भवता निर्वाणमपि प्रतिषिद्धम्, ननु च य एष भवगता अनन्तचरितसत्त्वराश्यनुवर्तकेन विदिताविपरीतसकलजगदाशयस्वभावेन महाकरूणापरतन्त्रेण प्रियैकपुत्र कप्रेमानुगताशेषत्रिभुवनजनेन चरितप्रतिपक्षानुरूपो धर्मो देशितो लोकस्य निर्वाणाधिगमार्थम्, (pp_236) स एवं सति व्यर्थ एव जायते। उच्यते- यदि कश्चिद्धर्मो नाम स्वभावरूपतः स्यात्, केचिच्च सत्त्वास्तस्य धर्मस्य श्रोतारः स्युः, कश्चिद्वा देशिता बुद्धो भगवान्नाम भावस्वभावः स्यात्, स्यादेतदेवम् । यदा तु-
सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः । न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः ॥ 24 ॥
तदा कुतो ऽस्माकं यथोक्तदोषप्रसङ्गः? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमो ऽप्रवृत्तिस्तन्निर्वाणम् । स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः । वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्तेः शिवः । क्लेशानामप्रवृत्त्या वा जन्मनो ऽप्रवृत्त्या शिवः । क्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिवः । ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः । यदा चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवे ऽस्थानयोगेन नभसीव हंसराजाः स्थिताः स्वपुण्यज्ञानसंभारपक्षपातवाते वातगगने वा गगनस्याकिंचनत्वात्, तदा सर्वनिमित्तानुपलम्भान्न क्वचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम् । यथोक्तमार्यतथागतगुह्यसूत्रे- "यां च रात्रिं शान्तमते तथागतो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागतेनैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रव्याहरति नापि प्रव्याहरिष्यति । अथ च यथाधिमुक्ताः सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति । तेषामेवं पृथक् पृथग्भवति- अयं भगवानस्मभ्यमिमं धर्मं देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः । तत्र तथागतो न कल्पयति न विकल्पयति । सर्वकल्पविकल्पजालवासनाप्रपञ्चविगतो हि शान्तमते तथागतः" । इति विस्तरः ॥
तथा-
अवाच ऽनक्षराः सर्वशून्याः शान्तादिनिर्मलाः । य एवं जानति धर्मान् कुमारो बुद्ध सोच्यते ॥
यदि तर्ह्येवं न क्वचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः, तत्कथमिमे एते विचित्राः प्रवचनव्यवहाराः प्रज्ञायन्ते? उच्यते । अविद्यानिद्रानुगतानां देहिनां स्वप्नायमानानामिव स्वविकल्पाभ्युदय एषः- अयं भगवान् सकलत्रिभुवनसुरासुरनरनाथः इमं धर्ममस्मभ्यं देशयतीति । यथोक्तं भगवता-
तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य । नैवात्र तथता न तथागतो ऽस्ति बिम्बं च संदृश्यति सर्वलोके ॥ इति ।
एतच्च तथागतवाग्गुह्यपरिवर्ते विस्तरेण व्याख्यातम् । ततश्च निर्वाणार्थं धर्मदेशनाया अभावात् कुतो धर्मदेशनायाः सद्भावेन निर्वाणस्यास्तित्वं भविष्यति? तस्मान्निर्वाणमपि नास्तीति सिद्धम् । उक्तं च भगवता-
अनिर्वाणं हि निर्वाणं लोकनाथेन देशितम् । आकाशेन कृतो ग्रन्थिराकाशेनैव मोचितः ॥ इति ।
तथा- न तेषां भगवन् संसारसमतिक्रमो ये निर्वाणं भावतः पर्येषन्ते । तत्कस्य हेतोः? निर्वाणमिति भगवन् यः प्रशमः सर्वनिमित्तानामुपरतिः सर्वेञ्जितसमिञ्जितानाम् । तदिमे भगवन् मोहपुरुषा ये स्वाख्याते धर्मविनये प्रव्रज्य तीर्थिकदृष्टौ निपतिता निर्वाणं भावतः पर्येषन्ते तद्यथा तिलेभ्यस्तैलं क्षीरात्सर्पिः । अत्यन्तपरिनिर्वृतेषु भगवन् सर्वधर्मेषु ये निर्वाणं मार्गन्ति तानहमाभिमानिकान् तीर्थिकानिति वदामि । न भगवन् योगाचारः सम्यक् प्रतिपन्नः कस्यचिद्धर्मस्योत्पादं वा निरोधं वा करोति, नापि कस्यचिद्धर्मस्य प्राप्तिमिच्छति नाभिसमयमिति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणम् ॥
26 द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम् ।
अत्राह- यदुक्तम्-
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥ इति,
कः पुनरसौ प्रतीत्यसमुत्पादः, यः शून्यतेत्युच्यते?
अथवा । यदेतदुक्तम्-
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति । दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ इति,
तत्कतमो ऽसौ प्रतीत्यसमुत्पादः इति? अतस्तदङ्गप्रभेदविवक्षयेदमुच्यते-
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा । अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः ॥ 1 ॥
तत्र अविद्या अज्ञानं तमो यथाभूतार्थप्रच्छादकं स्तिमितता । अविद्यया निवृतः छादितः पुद्गलः पुनर्भवाय पुनर्भवार्थं पुनर्भवोत्पत्त्यर्थमभिसंस्करोति उत्पादयति यान् कुशलादिचेतनाविशेषांस्ते पुनर्भवाभिसंस्कारात् संस्काराः । ते च त्रिविधाः- कुशला अकुशला आनेज्याश्च, यदि वा- कायिका वाचिका मानसाश्चेति । तांस्त्रिविधान् कर्मलक्षणान् संस्कारानविद्यानिवृतः पुद्गलः करोति । तैश्च संस्कारैरभिसंस्कृतैः कर्मभिः कर्मसंज्ञितैः तद्धेतुकां गतिं गच्छति ॥ 1 ॥
ततो ऽस्य-
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ ।
कृतोपचितसंस्कारस्यास्य पुद्गलस्य संस्कारानुरूपायां गतौ देवादिकायां संस्कारहेतुकं विज्ञानं संनिविशते प्रविशति उपपद्यते संसारानर्थबीजभूतम् । तत उत्तरकालम्- संनिविष्टे ऽथ विज्ञाने नामरूपं निषिच्यते ॥ 2 ॥ तत्र कर्मक्लेशाविद्धं तस्मिंस्तस्मिन्नुपपत्त्यायतने नामयतीति नाम, संज्ञावशेन वा अर्थेषु नामयतीति नाम ।
चत्वारो ऽरूपिणः स्कन्धा नामेति व्यपदिश्यते ।
रूप्यत इति रूपम् । बाध्यत इत्यर्थः । इदं च रूपं पूर्वकं च नाम, उभयमेतदभिसंक्षिप्य नामरूपमिति व्यवस्थाप्यते । तत्र बिम्बप्रतिबिम्बन्यायेन स्वाध्यायदीपमुद्राप्रतिमुद्रादिन्यायेन वा मारणान्तिकेषु स्कन्धेषु निरुध्यमानेषु एकस्मिन्नेव क्षणे तुलादण्डनामोन्नामन्यायेनैव औपपत्त्यांशिकाः (pp_239) स्कन्धा यथाकर्माक्षेपत उपजायन्ते । एवं च बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रान्यायेन प्रतीत्यसमुत्पादः सिध्यति । तुलादण्डनामोन्नामन्यायेन तु यद्विज्ञानं संनिविशते इत्युक्तम्, तद् बाललोकबोधानुरोधेन, समानकाल एव भवप्रतिसंधिरिति ।
तथा समानेन समानकालं लोकस्य दुःखं च सुखोदयं च । हर्तुं च कर्तुं च सदास्तु शक्तिस्तमः प्रकाशं च यथैव भानोः ॥ इति ।
न तु पुनः प्रतीत्यसमुत्पादस्वरूपविचक्षणानामेवं वक्तुं युज्यते साहचर्यादित्वमेकक्षणे तुलादण्डनामोन्नामदृष्टान्तेनेति ।
जन्मोन्मुखं न सदिदं यदि जायमानंनाशोन्मुखं सदपि नाम निरुध्यमानम् । इष्टं तदा कथमिदं तुलया समानं कर्त्रा विना जनिरियं न च युक्तरूपा ॥
इत्यादिवचनात् । यथा बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रादिन्यायेन क्षणिकत्वं नेष्यते भवद्भिः, तथा अन्यस्यापि भावस्य उत्पादसमनन्तरध्वंसिनः क्षणिकत्वं न युक्तम् । यतः जातिजरास्थित्यनित्यताख्यानि चत्वारि संस्कृतलक्षणानि उत्पद्यमानस्य भावस्य बाह्यस्य आध्यात्मिकस्य वा एकस्मिन्नेव क्षणे भवन्तीत्यभिधर्मपाठः । तत्र जातिजरयोः परस्परविरोधात् स्थित्यनित्यतयोश्च एकस्मिन्नेव भावे न युगपत्संभव इष्यते सद्भिः ।
क्षणिके सर्वथाभावात्कुतः काचित्पुराणता । स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता ॥
यथान्तो ऽस्ति क्षणस्यैवमादिमध्यं च कल्प्यताम् । अन्तकत्वात्क्षणस्यैवं न लोकस्य क्षणस्थितिः ॥
आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः । आदिमध्यावसानत्वं न स्वतः परतो ऽपि वा ॥
इति मध्यमकसिद्धान्तपाठात् क्षणिकपदार्थासिद्धेरसिद्धिरवसेया । न च जातिमरणयोः परस्परभिन्नलक्षणयोः एकस्मिन् क्षणे संभवो भवेत्, संशयनिश्चयज्ञानयोरालोकान्धकारयोर्ज्ञानाज्ञानयोर्बीजाङ्कुरयोर्मरणभवोपपत्तिभवयोर्भिन्नलक्षणयोरित्यादिवत् । परस्परनिरपेक्षयोरेव स्वहेतुप्रत्ययसिद्धयोः सहभावो युज्यते सव्येतरगोविषाणयोर्युवतिस्तनयोर्नरकर्णयोरित्यादिवत्, न तु पुनः कदाचिदपि परस्परविरुद्धयोर्विनाशोत्पादयोः । यथोक्तं रागरक्तपरीक्षायाम्-
सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः । भवेतां रागरक्तौ हि निरपेक्षौ परस्परम् ॥
नैकत्वे सहभावो ऽस्ति न तेनैव हि तत्सह । पृथक्त्वे सहभावो ऽथ कुत एव भविष्यति ॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह । रागवत्सर्वधर्माणां सिद्धिर्न सह नासह ॥
इति प्रतिषेधात् कुतः समानकालता भावानां मरणभवोपपत्तिभवयोरिति? अतः सहभावो विनेयजनबोधानुरोधप्रवृत्त एवेति लक्ष्यते । तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलायाः संभवतः नामोन्नामयोः कालभेदात् । बलवत्पुरुषाच्छटामात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीति पाठात्, उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति । तथापि अत्र उत्पलपत्रशतसहस्रवेधः सूच्यग्रेण क्रमशो वेधो ऽवसेयः क्षणानामतिसूक्ष्मत्वात् । एकक्षणेन श्लोकाक्षरपदोदाहरणवत् ॥
किं च-
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम् ।
इति पाठादुत्पादनिरोधयोरसंभव एव प्रतिपादितः शास्त्रे मध्यमके । आगमसूत्रेषु-
अविनाशमनुत्पन्नं धर्मधातुसमं जगत् । सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥
त्रीषु अध्वसु सत्त्वानां प्रकृतिं नोपलम्भति । सत्त्वधातुं च देशेति एषा लोकानुवर्तना ॥ इत्यादि ।
तथा-
फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः । मायोपमं च विज्ञानमुक्तमादित्यबन्धुना ॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान् । दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृतः । प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम् ॥ इति ।
एताश्च गाथाः सर्वनिकायशास्त्रसूत्रेषु पठयन्ते । अतः फेनपिण्डादीनां हेतुप्रत्ययसामग्रीं प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुतः क्षणिकाक्षणिकचिन्तेति? महायानसूत्रेषु च-
सुपिनोपमा भवगती सकला न हि कश्चि जायति न चो म्रियते । न च कर्म नश्यति कदाचि कृतं फलु देति कृष्णशुभ संसरतो ॥
न च शाश्वतं न च उच्छेद पुनो न च कर्मसंचयु न चापि स्थितिः । न च सो ऽपि कृत्व पुनरास्पृशती न च अन्यु कृत्व पुन वेदयते ॥
यथा कुमारी सुपिनान्तरस्मिं स्वपुत्र जातं च मृतंच पश्यति । जाते ऽतितुष्टा मृति दौर्मनस्यिता तथोपमान् जानथ सर्वधर्मान् ॥
यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः । न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् ॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कार ऽनुच्छेदशाश्वताः ॥
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तत् एवमनुच्छेद अशाश्वत धर्मता ॥
यथ मुञ्ज प्रतीत्य बल्बजं रज्जु व्यायामबलेन वर्तिता । घटियन्त्र सचक्र वर्तते तेषु एकैकसु नास्ति वर्तना ॥
तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता । एकैकेषु तेषु वर्तनी पूर्वमपरान्ततु नोपलभ्यते ॥
अत एवोक्तमाचार्यनागार्जुनपादैः-
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः । स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरुपधार्यौ ॥ इति ।
शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितैः-
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः । धूमिकान्तः प्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥ इति ॥
तदेवं बिम्बप्रतिबिम्बादिन्यायेन मातुः कुक्षौ विज्ञाने संमूर्च्छिते विज्ञानप्रत्ययं नामरूपं निषिच्यते, क्षरति प्रादुर्भवतीत्यर्थः । यदि इह गतौ विज्ञानं न संमूर्छितं स्यात्, तदा नामरूपप्रादुर्भावो न स्यात् ।
सचेदानन्द विज्ञानं मातुः कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत । इति वचनात् ॥ 2 ॥
तदेवम्-
निषिक्ते नामरूपे तु षडायतनसंभवः ।
दुःखोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसस्पर्शमनआख्यं षडायतनं नामरूपहेतुकमुपजायते । स चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्टः सन् रागजं द्वेवजं मोहजं कर्म करोतीत्यादिना दुःखोत्पत्तावायद्वारत्वं षण्णामायतनानाम् । तदेवं संभूते षडायतने उत्तरकालम्- षडायतनमागम्य संस्पर्शः संप्रवर्तते ॥ 3 ॥ कः पुनरयं संस्पर्शः, कथं वा संप्रवर्तते इति प्रतिपादयन्नाह-
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च । नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते ॥ 4 ॥
संनिपातस्रयाणां यो रूपविज्ञानचक्षुषाम् । स्पर्शः सः
चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादिविलक्षणं समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुश्च रूपायतनं च रूपम् । समन्वाहारश्चतुःस्कन्धलक्षणं नाम । तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते । तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां यः संनिपातः सहोत्पादः अन्योन्योपकारेण तुल्यं या प्रवृत्तिः, स स्पृष्टिलक्षणः स्पर्शः । तत उत्तरकालम्- तस्मात्स्पर्शाच्च वेदना संप्रवर्तते ॥ 5 ॥ इष्टानिष्टोभयविपरीतविषयानुभूतिर्विषयानुभवो वेदनं वित्तिर्वेदनेत्युच्यते । दुःखा सुखा अदुःखासुखा च त्रिविधा । यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां संनिपातलक्षणं स्पर्शमागम्य (pp_243) वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसंनिपातलक्षणस्पर्शहेतुका वेदना व्याख्येया ॥ 5 ॥
तत उत्तरकालम्-
वेदनाप्रत्यया तृष्णा
संप्रवर्तते इति वर्तते । वेदना प्रत्ययो यस्यास्तृष्णायाः सा वेदनाप्रत्यया । किंविषया पुनः सा तृष्णा? वेदनाविषयैव । किं कारणम्? यस्मादसौ तृष्णालुः
वेदनार्थं हि तृष्यते ।
वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थः । कथं कृत्वा? यदि तावत् सुखा वेदना अस्योपजायते, स तस्याः पुनः पुनः संयोगार्थं परितृष्यते । अथ दुःखा, तदा तस्या विसंयोगार्थं परितृष्यते । अथ अदुःखासुखा, तस्या अपि नित्यमपरिभ्रंशार्थं परितृष्यते । स एवम्- तृष्यमाण उपादानमुपादत्ते चतुर्विधम् ॥ 6 ॥ स एवं वेदनास्वभिनिविष्टः सक्तः तृष्णाप्रत्ययं कामदृष्टिशीलव्रतात्मवादोपादानाख्यं चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति । तदेवमस्य तृष्णाप्रत्ययमुपादानं भवति ॥ 6 ॥
तत उत्तरकालम्-
उपादाने सति भव उपादातुः प्रवर्तते । स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः ॥ 7 ॥
पञ्च स्कन्धाः स च भवः
चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता । तस्य उपादातुः उपादानप्रत्ययो भवः उपजायते । किं कारणम्? यस्मात्, यो हि अनुत्पादितवेदनातृष्णः प्रतिसंख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसंमुखीभावात् स्याद्धि यद्यनुपादानो मुच्येत सः । तदानीं तस्य न भवेद्भवः ॥
कः पुनरयं भवः? पञ्च स्कन्धाः स च भवः । यः उपादानात् प्रवर्तते, स पञ्चस्कन्ध स्वभावो वेदितव्यः । त्रिविधमपि कायिकं वाचिकं मानसिकं च कर्म भवत्यस्मादनागतं स्कन्ध पञ्चकं भवः इति व्यपदिश्यते । तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात् । मानसं तु चतुःस्कन्धस्वभावमिति । एवं स भवः पञ्च स्कन्धा इति विज्ञेयम् । तस्मात्-
भवाज्जातिः प्रवर्तते ।
अनागतस्कन्धोत्पादो जातिः । सा च भवात् प्रवर्तते । तत उत्तरकालम्- जरामरणदुःखादि शोकाः सपरिदेवनाः ॥ 8 ॥ दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते ।
जातिहेतुका एते जरामरणादयः प्रवर्तन्ते । एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम् । तत्र स्कन्धपरिपाको जरा । जीर्णस्य स्कन्धभेदो मरणम् । म्रियमाणस्य विगच्छतः संमूढस्य सामिषङ्गो हृदयसंतापः शोकः । शोकसमुत्थितो वाक्प्रलापः परिदेवः । पञ्चेन्द्रियासातनिपातो (pp_244) दुःखम् । मनोनिष्टनिपातो दौर्मनस्यम् । दुःखदौर्मनस्यबहुत्वसंभूता उपायासाः । इति । तदेवं यथोपवर्णितेन न्यायेन केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः ॥ 9 ॥ केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य । दुःखात्मकस्य सुखाव्यामिश्रस्यैवेत्यर्थः । एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थः । दुःखस्कन्धस्येति दुःखसमुदायस्य दुःखसमूहस्य दुःखराशेरित्यर्थः ॥ 9 ॥
यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्तिः, अतः-
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः । अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात् ॥ 10 ॥
तत्र संसारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्काराः । ततश्च संसारमूलान् संस्कारानविद्वान् संस्करोति ॥
अविद्यानुगतो यः पुद्गलो भिक्षवः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्करोति ॥
इति भगवद्वचनात् । यतश्चैवमविद्वान् कारकः, तस्मादविद्वानेव पुद्गलः कारको भवति संस्काराणाम्, न विद्वांस्तत्त्वदर्शी प्रहीणाविद्यः । किं कारणम्? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थनामेवानुपलम्भात् नास्ति किंचिद् यदालम्ब्य कर्म कुर्यादिति ॥ 10 ॥
यतश्चैवमविद्यायामेव सत्यां संस्काराः प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अतः-
अविद्यायां निरुद्धायां संस्काराणामसंभवः ।
हेतुवैयर्थ्यात् । तस्याः पुनरविद्यायाः कुतो निरोधः इत्याह- अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात् ॥ 11 ॥ अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनातः अविद्या प्रहीयते । यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते । प्रतिबिम्बस्वप्रालातचक्रमुद्गादिवत्तु स्वभावशून्यतां सर्वेषां भावानामवतरति । स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किंचिद्वस्तु उपलभते बाह्यमाध्यात्मिकं वा । सो ऽनुपलभमानो न क्वचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति । एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति ।तत्त्वदर्शिनोयोगिनो नियतमेव अविद्या प्रहीयते । प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते ॥ 11 ॥
यथा चैवमविद्यानिरोधात् संस्कारा निरुध्यन्ते, एवम्-
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते । दुःखस्कन्धः केवलो ऽयमेवं सम्यङ् निरुध्यते ॥ 12 ॥
पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उतरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम् । अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनायासनिरस्तः कारकवेदकविरहितं भावस्वभावशून्यं दुःखराशिं पुनरनुत्पत्त्या सम्यङ्निरोधयति । यथोक्तमार्यशालिस्तम्बसूत्रे-
एवमाध्यात्मिको ऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते । कतमाभ्यां द्वाभ्याम्? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते । एवं यावज्जातिश्चेन्नाभविष्यज्जरामरणं न प्रज्ञास्यते । अथवा, सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति । अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति । संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति । एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति । जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति । अथ च सत्यामविद्यायां संस्काराणाभिनिर्वृत्ति र्भवति प्रादुर्भावः । एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः ॥
कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात् । कतमेषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः । तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः । यः कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यते ऽब्धातुः । यः कायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः । यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः । यः कायस्यान्तः शौषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः । यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः । तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति । यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति । तत्र पृथिवीधातोर्नैवं भवति- अहं कायस्य कठिनभावमभिनिर्वर्तयामीति । अब्धातोर्नैवं भवति- अहं कायस्यानुपरिग्रहकृत्यं करोमीति । तेजोधातोर्नैवं भवति- अहं कायस्याशितपीतखादितं परिपाचयामीति । वायुधातोर्नैवं भवति- अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति । आकाशधातोर्नैवं भवति- अहं कायस्यान्तःशौषीर्यमभिनिर्वर्तयामीति । विज्ञानधातोर्नैवं भवति- अहं कायस्य नामरूपमभिनिर्वर्तयामीति । कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति । अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्ति र्भवति । तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् । एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुर्नात्मा (pp_246) न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित् ॥
तत्र अविद्या कतमा? या एषामेवं षण्णां धातूनायमैक्संज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधमज्ञानम् । इयमुच्यते ऽविद्येति । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते । तत्र ये रागद्वेषमोहा विषयेषु, अमी संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि, तानि चोपादाय रूपम् । तच्च नाम रूपम् । ऐकध्यमभिसंक्षिप्य तन्नामरूपम् । नामरूपसंनिश्रितानीन्द्रियाणि षडायतनम् । त्रयाणां धर्माणां संनिपातः स्पर्शः । स्पर्शानुभवो वेदना । वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुइपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जातस्य स्कन्धस्य परिपाको जरा । जीर्णस्य स्कन्धस्य विनाशो मरणम् । म्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः । शोकोत्थमालपनं परिदेवः । पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम् । मनसा संयुक्तं मानसं दुःखं दार्मनस्यम् । ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति ॥
तत्र मोहान्धकारार्थेनाविद्या । अभिसंस्कारार्थेन संस्काराः । विज्ञापनार्थेन विज्ञानम् । अन्योन्योपस्तम्भनार्थेन नामरूपम् । आयद्वारार्थेन षडायतनम् । स्पर्शनार्थेन स्पर्शः । अनुभवनार्थेन वेदना । परितर्षणार्थेन तृष्णा । उपादानार्थेनोपादानम् । पुनर्भवार्थेन भवः । जन्मार्थेन जातिः । परिपाकार्थेन जरा । विनाशार्थेन मरणम् । शोचनार्थेन शोकः । परिदेवनार्थेन परिदेवः कायपरिपीडनार्थेन दुःखम् । चित्तसंपीडनार्थेन दौर्मनस्यम् । उपक्लेशार्थेनोपायासाः ॥
अथवा तत्त्वे ऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या । एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनेञ्ज्योपगाः । तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति । अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति । आनेञ्ज्योपगानां संस्काराणामानेञ्ज्योपगमेव विज्ञानं भवति । इदमुच्यते विज्ञानम् । विज्ञानप्रत्ययं नामरूपमिति वेदनादयो ऽरूपिणश्चत्वारः स्कन्धास्तत्र तत्र भवे नामयन्तीति नाम । सहरूपस्कन्धेन च नाम रूपं चेति नामरूपमुच्यते । नामरूपविवृद्धया षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते प्रज्ञायन्ते, तन्नामरूपप्रत्ययं षडायतनमित्युच्यते । षड्भ्यश्चायतंएभ्यः षट् स्पर्शकायाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते । इयमुच्यते भिक्षवः स्पर्शप्रत्यया वेदनेति । यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते । आस्वादनाभिनन्दनाध्यवसानस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भून्नित्यमपरित्यागो भवेदिति यैवं प्रार्थना इदमुच्यते भिक्षवस्तृष्णाप्रत्ययमुपादानम् । यत्र वस्तुनि सतृष्णस्तस्य वस्तुनो ऽर्जनाय विठपनायोपादानमुपादत्ते, तत्र तत्र प्रार्थयते, एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च, स उपादानप्रत्ययो भव इत्युच्यते । (pp_247) तत्कर्मनिर्जातानां स्कन्धानामभिनिर्वृतिर्या सा भवप्रत्यया जातिरित्युच्यते । जात्याभिनिर्वृत्तानां स्कन्धानामुपचयनपरिपाकाद्विनाशो भवति । तदिदं जातिप्रत्ययं जरामरणमित्युच्यते ॥
एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽन्योन्यहेतुको ऽन्योन्यप्रत्ययो नैवानित्यो नैव नित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता नावेदयिता न प्रतीत्यसमुत्पन्नो नाप्रतीत्यसमुत्पन्नो न क्षयधर्मो नाक्षयधर्मो न विनाशधर्मो नाविनाशधर्मो न निरोधधर्मो नानिरोधधर्मो ऽनादिकालप्रवृत्तो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत् ॥
यद्यप्ययं द्वादशाङ्गः प्रतीत्यसमुत्पादो ऽनुच्छिन्नो ऽनुप्रवर्तते नदीस्रोतवत्, अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते । कतमानि चत्वारि? यदुत अविद्या तृष्णा कर्म विज्ञानं च । तत्र विज्ञानं बीजस्वभावत्वेन हेतुः । कर्म क्षेत्रस्वभावत्वेन हेतुः । अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः । कर्मक्लेशा विज्ञानबीजं जनयन्ति । तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति । तृष्णा विज्ञानबीजं स्नेहयति । अविद्या विज्ञानबीजमवकिरति । असतां तेषां प्रत्ययानां विज्ञानबीजस्यभिनिर्वृत्तिर्न भवति । तत्र कर्मणो नैवं भवति- अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति । तृष्णाया अपि नैवं भवति- अहं विज्ञानस्य स्नेहकार्यं करोमिति । अविद्याया अपि नैवं भवति- अहं विज्ञानबीजमवकिरामीति । विज्ञानबीजस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति ॥
अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति । तत्रतत्रोपपत्त्यांयतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति । स च नामरूपाङ्कुरो न स्वयं कृतोअ न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः । अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेष्वममेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात् ॥
तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते । कतमैः पञ्चभिः? यदुत चक्षुः प्रतीत्य रूपं चालोकं चाकाशं च तज्जमनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानम् । तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति । रूपमालम्बनकृत्यं करोति । आलोको ऽवभासकृत्यं करोति । आकाशमनावरणकृत्यं करोति । तज्जमनसिकारः समन्वाहरणकृत्यं करोति । असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते । यदा तु चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते । तत्र चक्षुषो नैवं भवति- अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति । आलोकस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति । आकाशस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमिति । तज्जमनसिकारस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति । चक्षुर्विज्ञानस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनितमिति । अथ च सतामेषां प्रत्ययानां समवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति । एवं शेषाणामिन्द्रियाणां यथायोगं करणीयम् ॥
तत्र न कश्चिद्धर्मो ऽस्माल्लोकात्परलोकं संक्रामति । अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्शमण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न कश्चिच्च्युतो नाप्यन्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । तद्यथा भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्ते ऽप्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् । एवमस्माल्लोकान्न कश्चिच्च्युतो नान्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात् ॥
तद्यथा- अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति, एवमेव भिक्षवः कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात् ॥
तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः । कतमैः पञ्चभिः? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः । न तु य एव मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति । अतो न शाश्वततः । कथं नोच्छेदतः? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यनिरुद्धेषु । अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति तुलादण्डोन्नाभावनामवत् चन्द्रबिम्बप्रतिबिम्बवत् । अतो नोच्छेदतः । कथं न संक्रान्तितः? विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति । अतो न संक्रान्तितः । कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । परीत्तं कर्म क्रियते, विपुलः फलविपाको ऽनुभूयते । अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः । कथं तत्सदृशानुप्रबन्धतः? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाको ऽनुभूयते । अतस्तत्सदृशानुप्रबन्धतश्च । इति विस्तरः ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम् ॥
27 दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम् ।
यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं प्रतिसरति,- इत्यादि सूत्रे पठयते, तत्र कतमः पूर्वान्तः, कतमो ऽपरान्तः, कथं न प्रतिसरतीति? तद्वयुत्पत्यर्थमिदमारभ्यते । तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते । पूर्वो हि जन्मपरंपरांशः पूर्वान्तः । तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते । तत्र अष्टौ दृष्टयः पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा-
अभूमतीतमध्वानं नाभूमिति च दृष्टयः । यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः ॥ 1 ॥
तत्र इतिशब्दः आद्यर्थः । अथवा दृष्टिद्वयोपादानमुपलक्षणार्थम् । चतस्त्रस्त्वेता दृष्टयः । तद्यथा- किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभूवं च नाभूवं च, नैवाभूवं न नाभूवम्, इति । एताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रिताः । अपरा अपि चतस्र इत्याह-
यास्ताः शाश्वतलोकाद्याः
पूर्वं प्रसङ्गेन उपवर्णिताः, ता अपि
पूर्वान्तं समुपाश्रिताः ॥
तत्र यद्यपि पूर्वान्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्रविशेषमाश्रित्य पृथगुपादीयते । तच्च उत्तरत्र व्याख्यास्यामः । तत्र शाश्वतो लोकः इत्येतत्, अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते । अथवा अयं विशेषः- यच्छाश्वतो लोकः इत्येषां दृष्टिः सामान्येन पूर्वान्तमाश्रिता । अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वान्तपरामर्शेन प्रवृत्ता, न सामान्येनेति । एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्यः । इत्येवं तावत् अष्टावेता दृष्टयः पूर्वान्तं समुपाश्रिताः ॥ 1 ॥
उक्तः पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभिः सार्धम् । इदानीमपरान्त उच्यते । तत्र वर्तमानमात्मभावमपेक्ष्य भाविनः आत्मभावाः अपरान्त इत्युच्यते । अपरो हि जन्मपरंपरांशो ऽपरान्तः, तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते । प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात्, नान्यथावस्थितं वस्तु अन्यथाभिनिविशते । तत्र अष्टौ दृष्टयः अपरान्तमालम्ब्य अन्यथा प्रवृत्ताः । तद्यथा-
दृष्टयो न भविष्यामि किमन्यो ऽनागते ऽध्वनि । भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः ॥ 2 ॥
इहापि दृष्टिद्वयोपादानमुपलक्षणार्थम् । चतस्त्रस्त्वेता दृष्टयः । तद्यथा- किं नु भविष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव (pp_250) भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टयः अपरान्तं समाश्रिताः । किमेता एव चतस्रो दृष्टयः अपरान्तं समाश्रिताः? नेत्याह । किं तर्हि अपरा अपि चतस्रो विद्यन्ते अन्ताद्या अपरान्तं समाश्रिताः । तत्र अन्ताद्याश्चतस्रो दृष्टयः सामान्येन अपरान्तमाअश्रित्य प्रवृत्ताः, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ताः, इत्येवं दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम् ॥ 2 ॥
तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभवः, तथा प्रतिपादयन्नाह-
अभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु स एव न भवत्ययम् ॥ 3 ॥
तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्, तदा युक्तमस्य ग्रहीतुम्- अभूवमहमतीतमध्वानमिति । न चैतदेवं संभवति नित्यत्वप्रसङ्गात्, नित्यस्य च संसरणानुपपत्तेः, एकगतिस्थस्यापि नानागतिसंगृहीतत्वप्रसङ्गात् । इह हि पूर्वं यदि नरकादिगतिको भूत्वा इदानीं कर्मवैचित्र्यात् मनुष्येषु उपपन्नः एवंकल्पयेत्- अहमेवासौ नारक आसम् इति, तदस्य न युक्तम् । कथं हि नाम मनुष्यः सन् नारकादिकः स्यात्?
यत्तर्हि इदं पठयते सूत्रे- अहमेव स तेन कालेन तेन समयेन मान्धाता नाम राजा चक्रवर्ती अभूवम् इति, तत् कथं वेदितव्यमिति? अन्यत्वप्रतिषेधपरं तद्वचनं नैकत्वप्रतिपादकमिति विज्ञेयम् । अत एव हि नान्यः स तेन कालेन तेन समयेनेति पठयते । यदि पुनः स एवायमिति पूर्वकस्य चाधुनातनस्य च एकत्वं स्यात्, को दोषः स्यात्? उक्तस्तावदत्र दोषः- नित्यत्वं स्यादिति ॥ 3 ॥
तथापि भूय उच्यते-
स एवात्मेति तु भवेदुपादानं विशिष्यते ।
यदि स एव पूर्वक आत्मायमिदानीं स्यात्, तदा उपादानस्य पञ्चस्कन्धलक्षणस्य विशेषो न स्यात् उपादातुरविशेषात्पूर्वावस्थायामिव । न चैवमुपादानाविशेषो ऽस्यात्मनः, किं तर्हि विशिष्यत एव उपादानमुपादातुः कर्मभेदात् कारकभेदाच्च । ततश्च उपादानविशेषात् स एवायमात्मेति न युज्यते ॥
अथ मन्यसे- विशिष्यतामुपादानम्, आत्मा तु एक एवेति । अतः आत्मनो ऽविशिष्टत्वादभूमतीतमध्वानमित्येतद् भविष्यत्येव । उच्यते- उपादानविनिर्मुक्त आत्मा ते कतमः पुनः ॥ 4 ॥ यदि हि अन्यदुपादानम्, अन्यश्चात्मा स्यात्, तदा उपादानविशेषे ऽपि आत्मनो ऽविशेषात् स्यादेतदेवम् । न चैतद् भेदेन दर्शयितुं शक्यम्- अयमसावात्मा, इदमस्योपादानमिति, (pp_251) उपादानविशिष्टस्वभावत्वादात्मनो ऽहेतुकत्वप्रसङ्गात्, पृथग्ग्रहणप्रसङ्गाच्च । यदा चैवमुपादानविनिर्मुक्त आत्मा दर्शयितुं न शक्यते, तदा उपादानविशेषे ऽपि आत्माविशेष इति न शक्यते कल्पयितुम् ॥ 4 ॥
अथापि कश्चित् परिकल्पयेत्- सत्यम्, उपादानविनिर्मुक्त इति एवं न संभवति, किमुपादानमेव आत्मत्वेन परिकल्प्यते इति? एतदपि न युक्तमिति प्रतिपादयन्नाह-
उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति । स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः ॥ 5 ॥
यथा तावदुपादानमेवात्मा न संभवति तथा प्रतिपादयन्नाह-
न चोपादानमेवात्मा व्येति तत्समुदेति च । कथं हि नामोपादानमुपादाता भविष्यति ॥ 6 ॥
तत्र यदेतत् पञ्चोपादानस्कन्धाख्यमुपादानम्, तत् प्रतिक्षणमुत्पद्यते च विनश्यति च । न चैवमात्मा प्रतिक्षणमुत्पद्यते च विनश्यति च । आत्मा स्कन्धेभ्यस्तत्त्वान्यत्वादिना च नित्यानित्यत्वेनाप्यशक्य एव वक्तुम्, अनेकदोषप्रसङ्गात् । नित्यत्वे हि आत्मनः शाश्वतवादः स्यात्, अनित्यत्वे च उच्छेदवादप्रसङ्गः । ततश्च तदुभयं शाश्वतोच्छेदाख्यं महानर्थकरमिति नोपगन्तव्यम् । अतः उपादानमेवात्मेति तावन्न युज्यते ॥
अपि च-
कथं हि नामोपादानमुपादाता भविष्यति ।
इह उपादीयते इत्युपादानं कर्म । तस्य च अवश्यमुपादात्रा उपार्जकेन भवितव्यम् । तस्य चोपादानस्य यदि आत्मत्वमिष्यते, तत्र उपादानमेव उपादाता इत्यपि विद्यते । ततश्च कर्तृकर्मणोरैक्ये सति छेतृच्छेत्तव्यघटकुम्भकाराग्नीन्धनादीनामपि ऐक्यं स्यात् । न चैतद् दृष्टं युक्तं वा इति प्रतिपादयन्नाह-
कथं हि नामोपादानमुपादाता भविष्यति । इति । अपि तु अत्यन्तासंभव एवास्य पक्षस्येत्यभिप्रायः ॥ 6 ॥ अत्राह- सत्यमुपादानमात्रमात्मा न युज्यते, किं तर्हि उपादानव्यतिरिक्त एव आत्मा भविष्यति । एतदपि न युक्तम् । किं कारणम्? यस्मात्-
अन्यः पुनरुपादानादात्मा नैवोपपद्यते । गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते ॥ 7 ॥
यदि उपादानादात्मा व्यतिरिक्तः स्यात्, गृह्येत स उपादानव्यतिरिक्तः, घटादिव पटः । न चैवं गृह्यते । तस्मादुपादानव्यतिरिक्तो ऽपि नास्ति । अनुपादानः उपादानव्यतिरेकेण अगृह्यमाणत्वात् खपुष्पवत्, इत्यभिप्रायः ॥ 7 ॥
इदानीं यथोपपादितमर्थं निगमयन्नाह-
एवं नान्य उपादानान्न चोपादानमेव सः । आत्मा नास्त्यनुपादानः
अथ स्यात्- यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्वप्रसङ्गात् । उदयव्ययप्रसङ्गाच्च । स हि अन्यो ऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहणप्रसङ्गात् । न चाप्यनुपादानः, उपादाननिरपेक्षस्य ग्रहणप्रसङ्गात् । एवं तर्हि नास्ति आत्मेत्यस्तु । उच्यते- नापि नास्त्येष निश्चयः ॥ 8 ॥ यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात्? न हि अविद्यमानो वन्ध्यातनयः स्कन्धानुपादाय प्रज्ञप्यते । कथं सति उपादाने उपादाता नास्तीति युज्यते । तस्मान्नास्तित्वमप्यस्य न युज्यते । तस्मान्नास्ति आत्मेति निश्चयो ऽप्येष नोपपद्यते । अस्य त्वात्मनो व्यवस्थानं विस्तरेण मध्यमकावतारादवसेयम् । इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न पुनरिह तद्वयवस्थाने यत्न आस्थीयते ॥ 8 ॥
एवं तावदभूवमतीतमध्वानमित्येषा कल्पना नोपपद्यते । इदानीं नाभूवमतीतमध्वानमित्येदपि यथा नोपपद्यते तथा प्रतिपादयन्नाह-
नाभूमतीतमध्वानमित्येतन्नोपपद्यते । यो हि जन्मसु पूर्वेषु ततो ऽन्यो न भवत्ययम् ॥ 9 ॥
यदि पूर्वकादात्मनः अस्य अधुनातनस्य आत्मनो ऽन्यत्वं स्यात्, तदानीं नाभूमतीतमध्वानमिति स्यात् । न चैतदेवं संभवति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥ 9 ॥
यदि पुनः पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, को दोष इति? उच्यते-
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् । तथैव च स संतिष्ठेत्तत्र जायेत वामृतः ॥ 10 ॥
यदि हि अयमधुनातन आत्मा पूर्वकादात्मनः अन्यः स्यात्, तदा तं पूर्वकमात्मानं प्रत्याख्याय परित्यज्य तन्निरपेक्षः अतद्धेतुक एव स्यात् । किं चान्यत् । तथैव च स संतिष्ठेत्तत्र यदि पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मना उत्तरस्मिन्नपि आत्मनि समुत्पद्यमाने ऽपि अनिरोधः स्यात् । अनिरुद्धत्वाच्च यत्र पूर्वं देवमनुष्यादिजन्मसु उपपन्नः, येन वर्णसंस्थानादिना पूर्वमुपलभ्यमानः, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत तथैवावतिष्ठेतेति । तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते ॥
अत्राह- तत्र यदुक्तम्-
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत् । इति,
यदि पुन पूर्वकमात्मानं प्रत्याख्याय [अयमिह भवेत्, को दोषः स्यात्? तत्र दोषा बहवः स्युः । कथमिति चेत्, यस्मादेवं सति-
उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम् । अन्येन परिभोगः स्यादेवमादि प्रसज्यते ॥ 11 ॥
यदि पूर्वकमात्मानं प्रत्याख्याय अयमात्मा भवेत्, तदा] पूर्वकस्य आत्मनः तत्र नष्टत्वाद्, इह च अन्यस्यैव चोत्पादनात्पूर्वकस्यात्मन उच्छेदः स्यात् । तस्मिंश्च आत्मनि उच्छिन्ने कर्मणामदत्तफलानामेवाश्रयविच्छेदेन विच्छेदात्, भोक्तश्चाभावान्नाश एव स्यात् । अथ पूर्वकेनात्मना कृतस्य कर्मणः उत्तरेणात्मना फलपरिभोगः परिकल्प्यते, तथापि अन्येन कृतस्य कर्मणः फलस्य अन्येनोपभोगः स्यात् । ततश्च-
अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि । इत्येवमादि अनिष्टमापद्यते ॥ 11 ॥ अपि च । यदि अयमात्मा पूर्वकादात्मनः अन्य एव अत्रोपपन्नः स्यात्, तदा पूर्वमभूत्वा पश्चादुत्पन्न इति स्यात् । न चैतद्युक्तमिति प्रतिपादयन्नाह-
नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते । कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः ॥ 12 ॥
इति । यदि हि आत्मा पूर्वमभूत्वा पश्चादुत्पन्नः स्यात्, तदा कृतक एव आत्मा स्यात् । न च कृतक आत्मेष्यते, अनित्यत्वप्रसङ्गात् । व्यतिरिक्तस्य च तन्निष्पादकस्य कर्तुरभावात् कुतः कृतकत्वमात्मनो योज्येत? कृतके चात्मनि परिकल्प्यमाने आदिमान् संसारः स्यादेव, अपूर्वसत्त्वस्य प्रादुर्भावश्च । न चैतदेवम् । तस्मान्न कृतक आत्मा । अपि च । संभूतो वाप्यहेतुकः । अभूत्वा प्रागात्मा समुत्पद्यमानो निर्हेतुक एवोपपद्यते । पूर्वं हि आत्मा नास्तीति अकृतको निर्हेतुकः स्यात् । वाशब्दो विकल्पे । कृतको वा भवेदात्मा यदि वा नाभूवमतीतमध्वानमित्येतन्नाभ्युपेयम् । संभूतो वाप्यहेतुकः, यदि वा-
नाभूमतीतमध्वानमित्येतन्नोपपद्यते । इत्यभ्युपगम्यताम् ॥ 12 ॥ इदानीं यथोपवर्णितमेवार्थं निगमयन्नाह-
एवं दृष्टिरतीते या नाभूमहमभूमहम् । उभयं नोभयं चेति नैषा समुपपद्यते ॥ 13 ॥
एवं यथोपवर्णितेन न्यायेन अभूमतीतमध्वानमिति या दृष्टिः, एषापि नैवोपपद्यते । एतद्द्वयस्याभावाच्च उभयमपि नोपपद्यते । किं कारणम्? यस्माद् द्वयं ह्येतत्समाहतमुभयमिति कल्प्यते । एकैकस्य च पृथक्पृथगभावात् कुतस्तत्समाहार इति उभयमपि न संभवति । (pp_254) उभयस्याभावात् कुतस्तत्प्रतिषेधेन नोभयं भविष्यतीति? तस्मान्नैवाभूवं न नाभूवमित्येतदपि नोपपद्यते ॥ 13 ॥
तदेवं पूर्वान्तं समाश्रितस्य दृष्टिचतुष्टयस्य असंभवमुद्भाव्य इदानीमपरान्तसमाश्रितस्य प्रतिषेधमाह-
अध्वन्यनागते किं नु भविष्यामीति दर्शनम् । न भविष्यामि चेत्येतदतीतेनाध्वना समम् ॥ 14 ॥
यथैव हि अतीते ऽध्वनि दृष्टिचतुष्टयं निषिद्धम्, एवमनागते ऽप्यध्वनि दृष्टिचतुष्टयं निषेधनीयमुक्तपाठपरिवर्तनेन । तद्यथा-
अध्वन्यनागते किं नु भविष्यामीत्यसंगतम् । ऐष्यजन्मनि यो भावो स एव न भवत्ययम् ॥
इत्येवमादिना सर्वं समं योज्यमेकत्वप्रतिषेधे । एवमन्यत्वप्रतिषेधे ऽपि समं योज्यम्-
न स्यामनागते काले इत्येतन्नोपपद्यते ऐष्य जन्मनि यो भावो ततो ऽन्यो न भवत्ययम् ॥ इत्येवमादिना पूर्वश्लोकपाठपरिवर्तनेन ॥ 14 ॥ इदानीं पूर्वान्तं समाश्रितस्य शाश्वतादिदृष्टिचतुष्टयस्य प्रतिषेधार्थमाह-
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम् । अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम् ॥ 15 ॥
इह हि कश्चिन्मनुष्यगतिस्थः कुशलं कर्म कृत्वा देवगतिं गच्छति । तत्र यदि स एव देवः स एव मनुष्य इति एवमुभयोरैक्यं स्यात्, तदा शाश्वतं स्यात् । न चैतदेवं यदेव एव मनुष्यो भवेदिति । अतो नास्ति किंचिच्छाश्वतम् । अपि च । शाश्वतवादे सति असमुत्पन्नश्च देवः स्यात् । किं कारणम्? यस्माज्जायते न हि शाश्वतम् । यद्धि वस्तु शाश्वतम्, तद्विद्यमानत्वान्नैव जायते । ततश्च अनुत्पन्नो देवः स्यात्, अनुत्पन्नो देवो न युज्यते इति ॥ एवं तावच्छाश्वतं न युज्यते ॥ 15 ॥
इदानीमशाश्वतमपि यथा न संभवति तथा प्रतिपादयन्नाह-
देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत् । देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ॥ 16 ॥
यदि हि अन्यो देवो ऽन्यश्च मनुष्यः स्यात्, तदा पूर्वकस्य मनुष्यात्मनस्तत्र नष्टत्वादिह च अन्यस्यैवोत्पादात् स पूर्वको मनुष्यात्मा तत्र विनष्ट इत्यशाश्वतं स्यात् । तत्संतानानुवृत्त्या नाशाश्वतमिति चेत्, उच्यते-
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते ।
यदि देवादन्यो मनुष्यो भवेत्, तदा यथा निम्बस्य न आम्रतरुसंतानो भवति, एवं मनुष्यस्य देवः एकसंतानपतितो न स्यात् । ततश्च पूर्वकस्य विनाशादशाश्वतमेव भवेत् । अथवा । (pp_255) यदि देवादन्यो मनुष्यो भवेत्, तदा संतानानुवृत्तिर्न स्यात् । अस्ति चेयं संतानानुवृत्तिः देवस्य मनुष्यः एकसंतानपतित इति । तस्मात् संतानाभावप्रसङ्गात् देवादन्यो मनुष्यो न भवति । यतश्चैवम्, अतो ऽशाश्वतमपि नास्ति ॥ 16 ॥
इदानीं शाश्वताशाश्वतप्रतिषेधार्थमाह-
दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः अशाश्वतं शाश्वतं च भवेत्तच्च न युज्यते ॥ 17 ॥
यदि अयं मनुष्यः अंशेन मनुष्यतां विजह्यात्, अंशेन विहाय मनुष्यतां देवात्मभावमुपादद्यात्, तदा एकदेशस्य नाशादशाश्वतं स्यात्, एकदेशस्य च अवस्थानाच्छाश्वतं स्यात् । एतच्च अयुक्तं यदेकस्य दिव्यगतिसंगृहीतः एकदेशः स्यात्, एकदेशश्च मनुष्यः स्यात् । तस्माच्छाश्वतं च अशाश्वतं च एतदुभयं नोपपद्यते ॥ 17 ॥
इदानीं नशाश्वतनैवाशाश्वतदृष्टिप्रतिषेधार्थमाह-
अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि । सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि ॥ 18 ॥
यदि शाश्वतं किंचिद्वस्तु स्यात्, तदा पश्चादशाश्वतदर्शनान्नैव शाश्वतमिति स्यात् । एवं यदि किंचिदशाश्वतं स्यात्, तदा तस्य पश्चाच्छाश्वतोपपत्तितो नाशाश्वतमिति स्यात् । यदा तु शाश्वताशाश्वतमेवाप्रसिद्धम्, तदा कुतस्तत्प्रतिषेधेन नैवशाश्वतं नाशाश्वतम् स्यादिति? तस्मादेतदप्ययुक्तम् ॥ 18 ॥
अथ स्यात्- अनादिजन्ममरणपरंपराप्रवृत्तमविच्छिन्नकमं संसारप्रबन्धमुपलभ्य शाश्वत मात्मानं परिकल्पयामः । अस्त्यसौ शाश्वतः कश्चित् पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति । उच्यते । एतदपि नोपपद्यते । किं कारणम्? यो हि नाम-
कुतश्चिदागतः कश्चित्किंचिद्गच्छेत्पुनः क्वचित् । यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः ॥ 19 ॥
यदि हि संस्काराणामात्मनो व कुतश्चिद्गत्यन्तराद् गमनं गत्यन्तरमागमनं स्यात्, ततश्च गन्त्यन्तरात् पुनः क्वचिद् गमनं स्यात्, तदानीमनादिः संसारः स्यात् । न च कुतश्चित् कस्यचिदागमनं संभवति, नित्यस्य वा अनित्यस्य वा आगमनानुपपत्तेः । न चापि इतः पुनः कस्यचित् क्वचिद् गमनं संभवति, नित्यस्य वा अनित्यस्य गमनानुपपत्तेः । यदा चैवं न संभवति, तदा कुतो जन्ममरणपरंपराया अतिदीर्घत्वेन आद्यनुपलम्भादनादिमान् संसारः स्यात्? संसर्तुरभावात् कुतः अनादिमत्त्वमादिमत्वं वा संसारस्य संभवेत्? यदा च न संभवति, तदा यदुक्तम्- अस्त्यसौ शाश्वतः कश्चित्पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति, तन्न युक्तम् ॥
अतश्च, एवं यथोदितन्यायेन-
नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः । शाश्वतो ऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः ॥ 20 ॥
यदा चैवं शाश्वत एव पदार्थो न संभवति, तदा कस्य विगमनादशाश्वतः स्यात् । शाश्वताशाश्वतानुपलम्भाच्च कुतः उभयं कुतो नोभयमिति? तस्मादेवं शाश्वतादिदृष्टिचतुष्टयं पूर्वान्ते संसारस्य न संभवति ॥ 20 ॥
इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह-
अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत् । अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत् ॥ 21 ॥
यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको न स्यात्, तदा परलोको न स्यात् अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते । अथापि अनन्तवांल्लोकः स्यात्, तदानीमपि परलोकः कथं भवेत्? नैव परलोकः स्यादित्यभिप्रायः । न च परलोको नास्ति । अतः परलोकसद्भावादन्तवानपि लोको न भवति ॥ 21 ॥
इदानीमन्तवत्त्वमनन्तवत्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रतिपादयन्नाह-
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव । प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते ॥ 22 ॥ पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नकमवर्ती यस्मादयं प्रदीपवत् प्रतिक्षणविनाशी स्कन्धसंतानः प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नान्तवत्त्वं नानन्तवत्त्वं च युज्यते ॥ 22 ॥ कथं कृत्वा?
पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोको ऽन्तवान् भवेत् ॥ 23 ॥
यदि पूर्वे मनुष्यस्कन्धा नश्येयुः, तांश्च प्रतीत्य उत्तरे देवगत्युपपत्तिसंगृहीता नोपपद्येरन्, तदा अन्तवान् लोको भवेत् तैलवर्तिक्षयनिरुद्धप्रदीपवत् । उत्तरात्मभावोत्पादान्नास्ति अन्तवत्त्वम् ॥ 23 ॥
पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी । स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोको ऽनन्तो भवेदथ ॥ 24 ॥
अथ यदि पूर्वकाः स्कन्धा न नश्येषुः, तान् प्रतीत्य उत्तरे फलभूताः स्कन्धा नोत्पद्येरन् तदा अनन्तो ऽविनाशी लोकः स्यात् स्वरूपादप्रच्युतत्वात् । यदा तु पूर्वकाः स्कन्धा निरुध्यन्ते तद्धेतुकाश्चापरे स्कन्धा उत्तरकालं जायन्ते, तदा पूर्वकानामनवस्थानात् कुतो ऽनन्तवत्त्वं संसारस्य स्यात्? ॥ 24 ॥
इदानीं तृतीयमुभयपक्षभावं प्रतिपादयन्नाह-
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान् । स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते ॥ 25 ॥
यदि हि कस्यचिदेकदेशस्य विनाशः स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्, यात्तदानीमन्तवांश्च लोको ऽनन्तवांश्च । न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न नश्यतीति । अतः अन्तवांश्च अनन्तवांश्च लोक इति न युज्यते ॥ 25 ॥
कस्मात् पुनरेकदेशस्य विनाशः एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह-
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते। न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते ॥ 26 ॥
इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातुरेकदेशस्य विनाशः अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य? तत्र यदि तावदुपादातुरेकदेशस्य विनाशः एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते । किं कारणम्? यस्मात्-
कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेशः
नैव हि अत्र काचिदुपपत्तिरस्ति यया एकदेशस्य विनाशमेकदेशस्य चाविनाशं परिकल्पयिष्यामः । अत एव उपपत्तिमपश्यन्नाचार्य आह-
एवं चैतन्न युज्यते ॥ इति ।
अथवा । उपादाता हि नाम आत्मा । स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति । यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते? अत एवाह- एवं चैतन्न युज्यते इति । अथवा यदि उपादातुरेकदेशो नश्येदेकदेशश्च न नश्येत्, तदा एकस्यैव उपादातुर्देवत्वमंशेनान्येन मनुष्यत्वं स्यात् । न चैतदिष्यते इत्याह- एवं चैतन्न युज्यते इति । एवं तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति ॥ 26 ॥
इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह-
उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते । न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते ॥ 27 ॥ उपादातृवदेतदपि व्याख्येयम् ॥ 27 ॥ तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह-
अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि । सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि ॥ 28 ॥
प्रतिषेध्यस्य वस्तुनो ऽसंभवात् प्रतिषेधस्याप्यसंभव इति । अतः अन्तवत्त्वे च अनन्तवत्त्वे च उभयस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोकः इति दृष्टिसंभवः स्यादिति ॥ 28 ॥
एवं तावत् सांवृतं प्रतिबिम्बाकारमुपादातारमुपादानं चाभ्युपेत्यापि शाश्वतादिदृष्टयसंभवं प्रतिपाद्य इदानीं सर्वथा भावस्वभावानुपलम्भेन बन्ध्यापुत्रश्यामगौरतादिवत् शाश्वतादिदृष्टीनामसंभवं प्रतिपिपादयिषुराह-
अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः । क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ॥ 29 ॥
इह सर्वभावानां प्रतीत्यसमुत्पन्नत्वात् शून्यत्वं सकलेन शास्त्रेण प्रतिपादितम् । ततश्च सर्वभावानां शून्यत्वात् कतमास्ताः सर्वभावबाह्याः शाश्वताद्या दृष्टयो भविष्यन्ति, याः कश्चिद् ग्रहीष्यति यतस्तन्निराकरणमारप्स्यामहे? तथा किं वा आलम्बनं यत् सर्वभावानन्तर्गतं यत्रैता दृष्टय उत्पत्स्यन्ते यत्रैता दृष्टीर्निवारयिष्यामः? कतमश्चासौ भावः पुद्गलो वा सर्वभावबाह्याः यस्यैता दृष्टयः उत्पत्स्यन्ते यं दृष्टिभ्यो निवारयिष्यामः? किं वा दृष्टीनामुत्पत्तिकारणमालम्बननिमित्तं सर्वभावबाह्यं यस्मान्निमित्तादुत्पद्यमानाः शाश्वतादिकाः दृष्टीः वारयिष्यामः? सर्वेषामेव हि पदार्थानां सर्वभावान्तर्गतत्वात् शून्यत्वम्, शून्यत्वाच्च सर्वे एव हि ते पदार्था नोपलभ्यन्त इति,
क्व कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः ।
नैव काश्चित्, नैव क्वचित्, नैव कस्यचित्, नापि केनचिदाकारेण संभविष्यन्तीत्यभिप्रायः । असंभवे च सति आसां परिकल्पनैव नोत्पद्यते इत्ययुक्ता एवैता दृष्टयः ॥ 29 ॥
तदेवम्-
सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत् । अनुकम्पामुपादाय तं नमस्यामि गौतमम् ॥ 30 ॥
तत्र संसारनिर्वाणप्रहाणाधिगमोपलम्भप्रपातपतनसंधारणात् धर्मः । सतामार्याणां कृतकार्याणां धर्मः सद्धर्मः । यदि वा शोभनो धर्मः सद्धर्मः, सकलसंसारदुःखक्षयकरत्वेन प्रशंसनीयत्वात् ॥ यः सद्धर्मम्-
अनिरोधमनुत्पादमनुच्छेदमशाश्वतम् । अनेकार्थमनानार्थमनागममनिर्गमम् ॥
प्रपञ्चोपशमं शिवं प्रतीत्यसमुत्पादसंज्ञया हि देशितवान् सर्वदृष्टिप्रहाणार्थं जगतामनुकम्पामुपादाय महाकरुणामेवाश्रित्य प्रियैकपुत्राधिकतरप्रेमपात्रसकलत्रिभुवनजनः न लाभसत्कारप्रत्युपकारादिलिप्सया, तं नमस्यामि निरुत्तरमद्वितीयं शास्तारम् । किंनामधेयम्? गौतमम् । परमर्षिगोत्रसंभूतमित्यर्थः ॥
यथोक्तमार्यशालिस्तम्बसूत्रे आर्यमैत्रेयेण महाबोधिसत्त्वेन-
य इमं प्रतीत्यसमुत्पादमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनावरणं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति असतस्तुच्छतः रिक्ततो ऽसारतो रोगतो गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतः, न स पूर्वान्तं प्रतिसरति । किं न्वहमभूवमतीते ऽध्वनि, आहोस्विन्नाभूवमतीते ऽध्वनि, को न्वहमभूवमतीते ऽध्वनि, कथं न्वहमभूवमतीते ऽध्वनि । अपरान्तं वा पुनर्न प्रतिसरति किं न्वहं भविष्याम्यनागते ऽध्वनि, (pp_259) आहोस्विन्न भविष्याम्यनागते ऽध्वनि, को नु भविष्याम्यनागते ऽध्वनि, कथं नु भविष्याम्यनागते ऽध्वनि । प्रत्युत्पन्नं वा पुनर्न प्रतिसरति किं न्विदं कथं न्विदं के सन्तः के भविष्यामः अयं सत्त्वः कुतं आगतः, स इतश्च्युतः कुत्र गमिष्यतीति यान्येकेषां श्रमणब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति तद्यथा- आत्मवादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि कौतुकमङ्गलप्रतिसंयुक्तानि, तान्यस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातानि समुच्छिन्नमूलानि तालमस्तकवदनाभासगतानि आयत्यामनुत्पादानिरोधधर्माणि ॥
अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य भाषितमभिनन्द्य अनुप्रमोद्य उत्थायासनात् प्रक्रान्तः, प्रक्रान्तास्ते च भिक्षव इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ दृष्टिपरीक्षा नाम सप्तविंशतितमं प्रकरणं समाप्तम् ॥
॥ समाप्तं चेदं मध्यमकशास्त्रं सकललौकिकलोकोत्तरप्रवचननीतनेयार्थव्याख्याननैपुण्य विशारदं श्रावकप्रत्येकबुद्धानुत्तरसम्यक्संबुद्धबोधिमण्डासनदायकमिति ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
