Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
प्रसन्नपद
- Tác giả
- चन्द्रकीर्ति
- Thông tin
- GRETIL — P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अत्राह- नैव हि सामग्र्याः फलोत्पादनसामर्थ्यमस्ति यतः इयं चिन्ता स्यात्- किं सामग्र्यां फलमस्ति उताहो नास्तीति । किं तर्हि हेतोः फलोत्पादनसामर्थ्यम् । सामग्री तु हेतोरनुग्रहमात्रं करोति । स हेतुः फलस्योत्पत्त्यर्थं हेतुं दत्वा निरुध्यते, तेन च हेतुना अनुगृह्यमाणं फलमुत्पद्यते इति । उच्यते । नैव हि अजातस्य फलस्य हेतोरनुग्रहणमस्ति । न चाप्यजातस्य बन्ध्यातनयस्येव केनचित्किंचिन्मात्रं कर्तुं शक्यमित्ययुक्तैषा कल्पना ॥ 4 ॥
अपि च-
हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते । यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत् ॥ 5 ॥
यदि हेतुः फलस्योत्पत्त्यर्थं हेतुकं कारणं दत्वा निरुध्यत इति परिकल्प्यते, एवं सति यद्दत्तं यन्निरुद्धं च तदात्मभावद्वयं हेतोः स्यात् । न चैतद् युक्तम्, अर्धशाश्वतप्रसङ्गात् नित्यानित्ययोश्च परस्परविरुद्धयोरेकत्वाभावात् ॥ 5 ॥
अथ हेतोरात्मभावद्वयप्रसङ्गपरिहारार्थं सर्वात्मना निरोध इष्यते फलस्योत्पत्त्यर्थं किंचिदप्यदत्वा, एवमपि-
हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते । हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत् ॥ 6 ॥
यदि फलस्य किंचिदप्यदत्वा सर्वात्मना हेतुर्निरुध्यते, ननु तस्मिन् हेतौ निरुद्धे यत्फलमुत्पद्यते तत् आहेतुकं स्यात् । न च आहेतुकमस्ति । इत्ययुक्तैषा कल्पना ॥ 6 ॥
अत्राह- यदि एवं फलस्य हेतोरुत्पत्तौ दोषः, एवं सति सहोत्पन्नैव सामग्री फलस्य जनिका अस्तु, तद्यथा प्रदीपप्रभाया इति । एषापि कल्पना नोपपद्यते इति प्रतिपादयन्नाह-
फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः । एककालौ प्रसज्येते जनको यश्च जन्यते ॥ 7 ॥ न चैककालयोः सव्येतरगोविषाणयोर्जन्यजनकत्वं दृष्टम्, वामदक्षिणकरयोश्चरणयोर्वा, इत्ययुक्तैषा कल्पना इत्ययुक्तमेतत् ॥ 7 ॥ अत्राहुरेके- नैव हि अभूत्वा भावानामुत्पत्तिर्युक्ता आकस्मिकत्वप्रसङ्गात् । तस्माद् हेतुप्रत्ययसामग्रीतः पूर्वमेव तत् फलमनागतावस्थायां व्यवस्थितमनागतात्मना । तस्य हेतुप्रत्यय सामग्र्या वर्तमानावस्था जन्यते, द्रव्यं तु व्यवस्थितमेवेति । तान् प्रत्युच्यते-
पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि । हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत् ॥ 8 ॥
यदि भवतामभीप्सितं सामग्रीतः पूर्वमेव फलं स्वरूपतः स्यादिति, तद् हेतुप्रत्ययनिरपेक्षं स्यात्, ततश्च आहेतुकं स्यात् । न च आहेतुकानां पदार्थानामस्तित्वं युक्तम्, खरतुरगोरगविषाणादीनामप्यस्तित्वप्रसङ्गात्, पूर्वसिद्धस्य च पुनः हेतुप्रत्ययापेक्षया निष्प्रयोजनत्वादित्ययुक्तमेतत् ॥ 8 ॥
अन्ये पुनर्वर्णयन्ति- हेतुरेव फलं जनयति न सामग्री । न च उक्तदोषप्रसङ्गः । यस्मात् न हि अन्योहेतुः अन्यत् फलम् । यतः, किं हेतुं दत्वा फलस्य हेतुर्निरुध्यते उत अदत्वैवेति विचारः स्यात् । अपि तु हेतुरेव निरुद्धः फलात्मना व्यवस्थितः इति । उच्यते । एवमपि-
निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत् । पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते ॥ 9 ॥
यदि निरुद्धे हेतौ भवन्मतेन फलमुत्पद्यते, तच्च फलं हेत्वात्मकमेव भवतीति परिकल्प्यते, एवं सति हेतोः संक्रमणं भवेत्, नटस्य वेषान्तरपरित्यागेन वेषान्तरसंचारवत् हेतोः संक्रमण मात्रमेव स्यात्, न तु अपूर्वस्य फलस्योत्पादः । ततश्च हेतोर्नित्यतैव स्यात् । न च नित्यानामस्तित्वं क्वचिदस्ति । यथोक्तं शतके-
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् । न कदाचित्क्वचित्कश्चिद्विद्यते तेन शाश्वतः ॥ इति ॥
किं च । एतस्यां कल्पनायां पूर्वजातस्य च हेतोः पुनर्जन्म प्राप्नोति । न च जातस्य पुनरपि [जन्म] युज्यते निष्प्रयोजनत्वात्, अनवस्थाप्रसङ्गाच्च ॥
अथ मन्यसे- येनात्मना विद्यमानो न तेनैवात्मना जायते, येन चात्मना अविद्यमानः तेनैव जायत इति । एतदपि न युक्तम् । अपरित्यक्तहेतुस्वभावस्य हेतुस्वरूपस्य फलमिति संज्ञामात्रभेदादवस्थाभेदाच्च द्रव्याभेदस्य साधयितुमशक्यत्वात् । फलावस्थायां च परित्यक्तहेतुस्वभावस्य फलशब्दवाच्यत्वाद् हेतुः फलात्मना तिष्ठतीति यत्किंचिदेतत् ॥ 9 ॥
किं चान्यत्- यदि हेतुः फलं जनयेत्, निरुद्धो वा जनयेदनिरुद्धो वा? फलमपि उत्पन्नं वा जनयेदनुत्पन्नं वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
जनयेत्फलमुत्पन्नं निरुद्धो ऽस्तंगतः कथम् । तिष्ठन्नपि कथं हेतुः फलेन जनयेद्धृतः ॥ 10 ॥
[यदि तावत निरुद्धः अस्तंगतः हेतुः उत्पन्नं सत् विद्यमानं फलं जनयतीति परिकल्प्यते, तन्नोपपद्यते । कस्मादिति चेत्, कथं निरुद्धः असंविद्यमानः हेतुः फलं जनयेत्? यदि जनयति, वन्ध्यापुत्रो ऽपि पुत्रं जनयिष्यति । फलं च सद् विद्यमानमपि जन्मनिरपेक्षमपि कथं हेतुर्जनयि ष्यति? अथ मन्यसे- शक्त्यभावान्निरुद्धो न जनयति, किं तु तिष्ठन्नेव हेतुः फलं जनयिष्यतीति । उच्यते ।] तिष्ठन्नपि हेतुरविकृतरूपो विद्यमानेन फलेन वृतः संबद्धः कथं जनयेत्? इह हि-
कारणं विकृतिं गच्छज्जायते ऽन्यस्य कारणम् ।
इति कारणाभावं प्रतिपद्यमानस्य हेतोरवश्यं विकारेण भवितव्यम् । यस्तु न विक्रियते, स हेतुलक्षणयुक्त एव न भवतीति । फलेन च संबद्धः कथं जनयेत्? फलस्य विद्यमानत्वात् ॥ 10 ॥
अथ मन्यसे- विद्यमानस्य फलस्य पुनर्जनयितुमशक्यत्वात् अवृत एव असंबद्ध एव हेतुः फलेन फलं जनयिष्यतीति, एतदप्ययुक्तमित्याह-
अथावृतः फलेनासौ कतमज्जनयेत्फलम् ।
यदि हेतुः फलेन असंबद्ध एवेष्यते, तदा कतमदिदानीं फलं जनयेत्? सर्वमेव वा फलं जनयेदसंबद्धत्वात्, न वा किंचिज्जनयेदसंबद्धत्वादेवेत्यभिप्रायः ॥
किं चान्यत् । यदि हेतुः फलं जनयेत्, स दृष्ट्वा फलं जनयेददृष्ट्वा वा? उभयथा च न युज्यते इत्याह- न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम् ॥ 11 ॥ तत्र यदि हेतुर्दृष्ट्वा जनयतीति परिकल्प्यते, तन्न युज्यते । यस्माद्विद्यमानमेव द्रष्टुं पार्यते नाविद्यमानम् । विद्यमानं चेत्, तन्न जन्यते विद्यमानत्वादिति । एवं तावद् हेतुः फलं दृष्ट्वा न जनयति, अदृष्ट्वापि न जनयति, सर्वस्य फलस्य हेतोर्जनकत्वप्रसङ्गात् ॥
अथ किमिदं दर्शनं किं वा अदर्शनमिति? उच्यते । प्रसिद्धमेतल्लोके- उपलब्धिर्दर्शनमिति ॥
ननु एतद् बीजादिषु निरिन्द्रियेषु न संभवति । संभवतु मा वा । नास्माकमयं पर्यनुयोगः किं तर्हि तस्योत्पादवादिनः । तत्र यः उत्पादवादी ब्रूयात्- दृष्ट्वा जनयतीति, स वक्तव्यः- न दृष्टमेतल्लोके यद्बीजादिकं पश्यतीति । तस्मादयुक्ता एषा कल्पना । अथ अदृष्ट्वा कल्पयेत्, एवमपि यत्किंचिददृष्टं संभवति तत्सर्वमुत्पादयेत्, न चोत्पादयति, तस्मात् न अदृष्ट्वापि जनयति । अनिष्टापत्त्या हि वयं परकल्पनां विचारयामः संसाराटवीकान्तारगिरिदरीप्रपातदुःखमालासमाकुलामा तामीव । बुद्धिपूर्वकर्तृकं च पुरुषादिकारणिनो जगदभ्युपगच्छन्तो निर्ग्रन्थाश्चैकेन्द्रियं बीजादिकं प्रतिपन्नाः प्रसङ्गान्न व्यतिवर्तन्त इति । तस्मान्नास्ति दोषः ॥ 11 ॥
किं चान्यत्- यदि युष्मदभिमतं हेतोः फलस्य च अन्योन्यढौकनलक्षणं संगमनं स्यात्, स्यात्तदानीं तयोर्जन्यजनकभावः । यस्मात् न हि परस्परासंगतयोरालोकान्धकारयोः संसारनिर्वाण योर्जन्यजनकभावो दृष्ट इति । अतः अवश्यं हेतुफलभावयोर्जन्यजनकभावमिच्छता परेण संगतिरभ्युपेया । सा च कालत्रये ऽपि विचार्यमाणा न संभवति । अतो हेतुः फलं न जनयति । यथा च संगतिर्नास्ति तथा प्रतिपादयन्नाह-
नातीतस्य ह्यतीतेन फलस्य सह हेतुना । नाजातेन न जातेन संगतिर्जातु विद्यते ॥ 12 ॥
अतीतस्य तावत् फलस्य अतीतेन हेतुना सह जातु कदाचिदपि संगतिर्नास्ति, अतीतत्वेनोभयोरप्यविद्यमानत्वात् । नापि अजातेन हेतुना अतीतस्य फलस्य संगतिर्जातु विद्यते, नष्टाजातत्वेन उभयोरप्यविद्यमानत्वात्, भिन्नकालत्वाच्च । नापि जातेन वर्तमानेन हेतुना सह अतीतस्य फलस्य संगतिः संभवति, भिन्नकालत्वात्, नष्टस्य च फलस्य अविद्यमानत्वाद्वन्ध्यापुत्रेणेव देवदत्तस्येत्यभिप्रायः ॥ 12 ॥
यथा च अतीतस्य फलस्य अतीतेन अनागतवर्तमानेन हेतुना सह न कदाचित् संगतिरस्ति, एवं वर्तमानस्यापि फलस्य त्रैकालिकेन हेतुना सह नास्ति संगतिरिति तत् प्रतिपादयन्नाह-
न जातस्य ह्यजातेन फलस्य सह हेतुना । नातीतेन न जातेन संगतिर्जातु विद्यते ॥ 13 ॥
जातस्य फलस्य भिन्नकालत्वादजातेन च अतीतेन च हेतुना सह संगमनं नास्ति । नापि वर्तमानस्य वर्तमानेन हेतुना सह संगतिरस्ति, हेतुफलयोर्यौगपद्याभावात्, तयोश्च संगतिर्वैयर्थ्यात् । किं हि विद्यमानयोः परस्परनिरपेक्षयोः पुनः संगत्या प्रयोजनमिति नास्ति संगतिः ॥ 13 ॥
इदानीमनागतस्यापि फलस्य यथा अतीतानागतप्रत्युत्पन्नेन हेतुना सह संगमनं नास्ति तथा प्रतिपादयन्नाह-
नाजातस्य हि जातेन फलस्य सह हेतुना । नाजातेन न नष्टेन संगतिर्जातु विद्यते ॥ 14 ॥
अजातं हि फलमसंविद्यमानम् । तस्य भिन्नकालेन वर्तमानेन अतीतेन च हेतुना सह नास्ति संगमनं भिन्नकालत्वात् । अनागतेनापि हेतुना सह नास्ति संगमनम्, उभयोरविद्यमानत्वात् ॥ 14 ॥
यदा चैवं सर्वथा हेतुफलयोः संगतिर्नास्ति, तदा- असत्यां संगतौ हेतुः कथं जनयते फलम् ।
नैव हेतुः फलं जनयति संगतेरविद्यमानत्वात् वन्ध्यापुत्रमिवेत्यभिप्रायः ॥
अथापि स्यात्- सत्यामेव संगतौ हेतुः फलं जनयतीति, तदपि न युक्तम्, कालत्रये ऽपि संगत्यनुपलब्धेः । अथापि कथंचिद् हेतुफलयोः संगतिः परिकल्प्यते, एवमपि- सत्यां वा संगतौ हेतुः कथं जनयते फलम् ॥ 15 ॥संनिहितस्य फलस्य पुनर्जन्मवैयर्थ्यात्, असंहितानां च संगतेरयुक्तत्वात् इत्यभिप्रायः ॥ 15 ॥ किं चान्यत्-
हेतुः फलेन शून्यश्चेत्कथं जनयते फलम् । हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम् ॥ 16 ॥
यो ऽयं फलस्य हेतुः फलस्य जनक इष्यते, स तेन शून्यो वा भवन् फलमुत्पादयेत्, अशून्यो वा? तत्र हेतुः शून्यः फलेन रहितः फलं न जनयति, अहेतुवत् फलशून्यत्वात् । फलेन अशून्यो ऽपि हेतुः फलं न जनयति, विद्यमानत्वात् फलस्य, विद्यमानपुत्रं देवदत्त इव । एवं तावत् फलशून्यो वा फलाशून्यो वा हेतुः फलं न जनयति ॥ 16 ॥
यच्चापि फलमुत्पद्यते, तच्चाप्यशून्यं वा समुत्पद्यते, शून्यं वा? तत्र तावत्-
फलं नोत्पत्स्यते ऽशून्यमशून्यं न निरोत्स्यते । अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति ॥ 17 ॥
अशून्यं हि फलमप्रतीत्यसमुत्पन्नं स्वभावव्यवस्थितम्, तदेवंविधं फलं नैवोत्पत्स्यते स्वभावस्यानपायित्वाच्च न निरोत्स्यते । ततश्च अशून्यं तदिष्यमाणमनिरुद्धमनुत्पन्नं च स्यात् । न चैतदिष्टम्, इत्यतः अशून्यं तत्फलं न भवति, उत्पादनिरोधाभ्युपगमात् ॥ 17 ॥
इदानीं शून्यमपि तत्फलं न संभवति, अनुदयाव्ययवत्त्वप्रसङ्गात् इति प्रतिपादयन्नाह-
कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते । शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते ॥ 18 ॥
तत्र शून्यमुच्यते यत्स्वभावेन नास्ति । यच्च वस्तु स्वभावेन नास्ति, तत् कथमुत्पत्स्यते, कथं वा निरोत्स्यते? न हि स्वभावेन अविद्यमानस्य आकाशादेः उदयव्ययौ दृष्टौ । तस्माच्छून्यमपि तत्फलमिष्यमाणमनिरुद्धमनुत्पन्नं च प्रसज्यते ॥ 18 ॥
किं चान्यत्- यदि हेतुः फलं जनयेत्, स फलादव्यतिरिक्तो वा जनयेत्, व्यतिरिक्तो वा? उभयथा च नोपपद्यते इत्याह-
हेतोः फलस्य चैकत्वं न हि जातूपपद्यते । हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते ॥ 19 ॥
तदेतत् प्रतिज्ञामात्रकमिति प्रतिपादयन्नाह-
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः । पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना ॥ 20 ॥
यदि हेतोः फलस्य च एकत्वं स्यात्, तदा जन्यजनकयोरेकत्वमभ्युपेतं स्यात् । न चानयोरेकत्वम्, पितापुत्रयोश्चक्षुश्चक्षुर्विज्ञानयोर्बीजाङ्कुरयोश्चैक्यप्रसङ्गात् । एवं तावद् हेतोः फलस्य च एकत्वं नास्ति ॥
इदानीमन्यत्वमपि नास्ति । किं कारणम्? यदि हेतोः फलस्य च भवन्मतेनाभिमतमन्यत्वं स्यात्, तदा परत्र निरपेक्षत्वाद् हेतुनिरपेक्षमेव फलं स्यात् । न चैतदेवम्, इत्यतः अन्यत्वमपि हेतोः फलस्य च न संभवति । ययोश्च एवं विचार्यमाणयोस्तत्त्वान्यत्वे न स्तः, तयोर्न कदाचिज्जन्यजनकभावः इष्यते । अतो नैव हेतुः फलं जनयति ॥ 20 ॥
किं चान्यत्- यदि हेतुः फलं जनयेत्, स तत्फलं स्वभावेन सद्भूतं वा जनयेत्, असद्भूतं वा? उभयथा च न युज्यते इत्याह-
फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति । फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति ॥ 21 ॥
तत्र यत् फलं स्वभावेन सद्भूतं स्वभावेन विद्यमानम्, तन्न पुनर्जन्यते विद्यमानत्वात्, विद्यमानघटवत् । यदपि स्वभावेन असद्भूतं फलम्, तदपि हेतुर्न जनयति, स्वभावेन असद्भूतत्वात्, खरविषाणवत् ॥
प्रतिबिम्बेनानैकान्तिकतेति चेत्, भवतु अनैकान्तिकता, नैःस्वाभाव्यं तु सिद्धं भावानाम् । ततश्च सस्वभाववादत्यागः स्यात्, अस्मद्वादानुवर्णनमेव स्यात् । सस्वभावश्च न कश्चित् पदार्थो नाम अस्तीति प्रतिद्वन्द्वयभावात् निःस्वभावो ऽपि पदार्थो नास्तीति कुतो ऽनैकान्तिकता? न हि अस्माकं प्रतिबिम्बकं सस्वभावं नापि निःस्वभावम्, धर्मिणमन्तरेण तद्धर्मयोरप्यभावात् । न हि आर्याः प्रतिबिम्बकं नाम किंचित् निःस्वभावं सस्वभावं वा उपलभन्त इति ॥
तत्र पूर्वं फलं नोत्पत्स्यते इत्यादिना श्लोकद्वयेन साक्षादुत्पत्तिक्रियाकर्तृत्वं फलस्य निषिद्धम् । इदानीं हेतोः फलोत्पत्तिक्रियाप्रयोजकत्वं प्रतिषिद्धमिति । अयमस्य पूर्वकाद्विशेष इति विज्ञेयम् ॥ 21 ॥
अत्राह- यद्यपि हेतोः फलोत्पत्तिक्रियाप्रयोजकत्वं निषिद्धम्, तथापि हेतुस्तावत् स्वभावतो ऽस्ति, न च असति फले हेतोर्हेतुत्वं सिध्यति, तस्मात् फलमपि भविष्यतीति । उच्यते- स्याद्धेतुः, यदि अजनयतो ऽस्य हेतुत्वं स्यात् ।
न चाजनयमानस्य हेतुत्वमुपपद्यते ।
अथ स्यात्- यद्यपि एवं हेतोर्हेतुत्वं नास्ति, तथापि फलं तावदस्ति । न च हेतुमन्तरेण फलं युक्तमिति फलसद्भावाद् हेतुरपि भविष्यतीति । उच्यते । यदा अजनयमानस्य हेतोर्हेतुत्वं नास्तीत्युक्तम्, तदा- हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति ॥ 22 ॥ इति । तस्मात् फलमपि नास्तीति ॥ 22 ॥
अत्राह- नैव हि केवलस्य हेतोः फलोत्पत्तिक्रियायाः प्रयोजकत्वम्, किं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते इति । उच्यते । उक्तदोषत्वात् न युक्तमेतत् । अपि च, इयं हेतुप्रत्ययसामग्री यदि फलस्य जनिकेति कल्प्यते, किं सास्वयमेव तावदात्मानं जनयति, उताहो न? यदि जनयतीति कल्प्यते, तन्न युज्यते । न हि अलब्धात्मभावस्य प्रयोजकत्वं दृष्टमित्यतः सामग्र्या अवश्यं लब्धात्मभावया भवितव्यम् । न च लब्धात्मभावायाः पुनः स्वात्मोत्पादे प्रयोजकत्वं युक्तम्, इत्यतः न सामग्री स्वात्मानमुत्पादयति । या च आत्मानं नोत्पादयति, सा कथं फलमुत्पादयितुं शक्नोतीति प्रतिपादयन्नाह-
न च प्रत्ययहेतूनामियमात्मानमात्मना । या सामग्री जनयते सा कथं जनयेत्फलम् ।23 ॥
प्रत्ययानां हेतूनां च येयं सामग्री सा तावदात्मनैव आत्मानं नोत्पादयति, स्वात्मनि वृत्तिविरोधात्, सत्याः पुनरुत्पादवैयर्थ्याच्च । या च एवमात्मानमेव तावन्न जनयति, सा कथं फलं जनयिष्यति? न हि बन्ध्यादुहिता आत्मानं जनयितुमशक्ता सती पुत्रं जनयिष्यतीति युज्यते । एवं सामग्र्यपि स्वात्माजनिका फलं जनयतीति न युज्यते ॥ 23 ॥
तस्मात्-
न सामग्रीकृतं फलं
अथापि स्यात्- यदि सामग्रीकृतं फलं न संभवति, एवं तर्हि असामग्रीकृतं भविष्यतीति चेत्, उच्यते-
नासामग्रीकृतं फलम् । यदा सामग्रीकृतं फलं न संभवति, तदा कथमत्यन्तविरुद्धमसामग्रीकृतं भविष्यति? असामग्रीकृतं फलं न संभवति ॥
अथ स्यात्- यद्यपि नास्ति फलं स्वभावतः, तथापि हेतुप्रत्ययसामग्री तावदस्ति । न च फलमन्तरेण हेतुप्रत्ययसामग्री संभवतीति फलमपि संभविष्यतीति । उच्यते । स्याद्धेतुप्रत्ययसामग्री, यदि फलमेव भवेत् । यदा तु यथोदितेन न्यायेन फलमेव नास्ति, तदा- अस्ति प्रत्ययसामग्री कुत एव फलं विना ॥ 24 ॥ फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्रायः । उक्तं हि आर्यललितविस्तरसूत्रे-
कण्ठोष्ठ प्रतीत्य तालुकं जिह्वपरिवर्ति रवन्ति अक्षराः । न च कण्ठगता न तालुके अक्षरैकैकश नोपलभ्यते ॥
सामग्रि प्रतीत्यतश्च सा वाच मनबुद्धिवशेन निश्चरी । मन वाच अदृश्यरूपिणी बाह्यतो ऽभ्यन्तरि नोपलभ्यते ॥
उत्पादव्ययं विपश्यतो वाचरुतघोषस्वरस्य पण्डितः । क्षणिकां वशिकां तदा दृशी सर्व वाच प्रतिश्रुतकोपमा ॥
तथा आर्योपालिपरिपृच्छायामुक्तं भगवता-
इह शासनि सूरमणीये प्रव्रजथा गृहिलिङ्ग जहित्वा । फलवन्तु भविष्यथ श्रेष्ठा एषु निदेशितु कारुणिकेन । प्रव्रजित्व गृहिलिङ्ग जहित्वा सर्वफलस्य भविष्यति प्राप्तिः । पुन धर्मसभाव तुलित्वा सर्वफलान फलान च प्राप्तिः ॥
अलभन्त फलं तथ प्राप्तिं आश्चरियं पुन जायति तेषाम् । अहो ऽतिकारुणिको नरसिंहो सुष्टुपदेशित युक्ति जिनेन ॥ इति ।
तथा आर्यप्रज्ञापारमितायामष्टसाहस्रिकायाम्-
तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम् । न स्रोतआपत्तिफले न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम् ॥ इति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम् ॥
21 संभवविभवपरीक्षा एकविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव स्वभावतः कालः, संभवविभवनिमित्तत्वात् । इह कंचित् कालविशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम्- इत्यतो विद्यत एव कालः, संभवविभव निमित्तत्त्वात् । उच्यते । स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम् । न तु स्तः । यथा च न स्तः, तथा प्रतिपादयन्नाह-
विना वा सह वा नास्ति विभवः संभवेन वै । विना वा सह वा नास्ति संभवो विभवेन वै ॥ 1 ॥
इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा । उभयथा च विचार्यमाणौ न संभवतः । कथं कृत्वा? तत्र तावद् यथा विना संभवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह-
भविष्यति कथं नाम विभवः संभवं विना । विनैव जन्म मरणं विभवो नोद्भवं विना ॥ 2 ॥
संभवं विना कथं नाम विभवो विनाशो भविष्यति? कथं नामेत्यनेन प्रसिद्धमत्यन्तासंभवं दर्शयति । कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्रायः । यदि पुनर्विनैव संभवं विभवः स्यात्, को दोषः स्यात्? उच्यते । विनैव जन्म मरणं स्यात्, अजातस्य मरणं स्यात् । न च अजातस्य मरणं दृष्टमिति । तस्माद्विभवो नोद्भवं विना भवितुमर्हति । आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम् ॥ 2 ॥
एवं तावद्विना संभवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह संभवेनापि विभवो न संभवति तथा प्रतिपादयन्नाह-
संभवेनैव विभवः कथं सह भविष्यति । न जन्ममरणं चैवं तुल्यकालं हि विद्यते ॥ 3 ॥
यदि हि संभवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत् स्याताम् । न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति । तस्मात् सहापि संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम् ॥ 3 ॥
यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं संभवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह-
भविष्यति कथं नाम संभवो विभवं विना अनित्यता हि भावेषु न कदाचिन्न विद्यते ॥ 4 ॥
नैव हि संभवो विभवेन विना युज्यते । यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद धर्मकेषु न कदाचिन्न विद्यते, किं तर्हि सर्वदैव विद्यते । उक्तं हि-
जरामरणधर्मेषु सर्वभावेषु सर्वदा । तिष्ठन्ति कतमे भावा ये जरामरणं विना ॥ इति ।
यदा चैवं नित्यमनित्यतानुगताः सर्वे भावाः, तदा कुतः सा काचिदवस्था या विनाशरहिता स्यादिति? अतो नास्ति विभवेन विना उत्पाद इति । एवं तावद्विना विभवेन नास्ति संभवः । शेषमत्र संस्कृतपरीक्षायां विचारितत्त्वान्न विचार्यते ॥
यस्तु सहेतुको विनाशः, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्यचित्तचैत्तक्षणैरनैकान्तिकतामाह, स न युक्तमाह, तद्विनाशस्यापि जातिप्रत्ययत्वेन सहेतुकत्वात् साध्यसमत्वाच्च अनैकान्तिकताभावात् । यदपि निर्दिष्टम्- भावात्मभाव एव अभूत्वा भावादुत्पाद उच्यते, तस्माद् द्रव्यसदुत्पादसिद्धेर्व्यवहारतो दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां प्रतिबिम्बादीनां सहेतुकत्वाभ्युपगमात् । यथोक्तमाचार्यपादैः-
हेतुतः संभवो येषां तदभावान्न सन्ति ये । कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः ॥ इति ।
अस्मादा[गमात्] कुतो व्यवहारतो दृष्टान्तासिद्धिः? यदि च भावात्, यत् तत्त्वान्यत्वेन न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते । नीलादिकमपि नास्तीत्युच्यते । यथोक्तं रत्नावल्याम्-
रूपस्याभावमात्रत्वादाकाशं नाममात्रकम् । भूतैर्विना कुतो रूपं नाममात्रकमप्यतः ॥ इति ॥
अपि च । कुतो माध्यमिकानां स्वभावरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पादः स्यात्? अतः अयुक्तमेव दृष्टान्तासिद्धतोद्भावनम् । यच्चोक्तम्- न सहेतुको विनाशः, अविनाशवत्त्वात्, यथा असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवति । यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं साधयति, एवं संस्कृतलक्षणत्वाभावमपि साधयति । तथा संस्कारस्कन्धसंग्रहप्रतीत्यसमुत्पादाङ्गसंग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम् । तथा । न विज्ञानं विषयस्वरूपच्छेदकम्, अविज्ञानवत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वनिषेधान्महती अनिष्टापत्तिरुपपद्यते ऽस्य, इति नास्थेयमेतत् ॥ 4 ॥
इदानीं विभवेन सह यथा संभवस्य नास्ति सिद्धिः, तथा प्रतिपादयन्नाह-
संभवो विभवेनैव कथं सह भविष्यति । न जन्ममरणं चैव तुल्यकालं हि विद्यते ॥ 5 ॥
यदि हि संभवो विभवेनैव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात् । न च [सा] संभवति । तस्मात् सहभावेनापि संभवविभवयोर्नास्ति सिद्धिः ॥ 5 ॥
अथ स्यात्- यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तथापि विद्येते एव संभवविभवौ, वाच्यत्वात्, विज्ञानवत्, इति । उच्यते । यदि वाच्यत्वेन अनयोः सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम् ॥
अपि च-
सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः । न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते ॥ 6 ॥
सहभावासहभावरहितं नास्ति पक्षान्तरं यतः संभवविभवयोः सिद्धिः स्यात् । अवाच्यतया सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम? यदि मिश्रीभावः, सो ऽनुपपन्नः, पृथक्पृथगसिद्धयो मिश्रीभावाभावात् । अनिर्धार्यमाणौ स्वरूपत्वात् बन्ध्यापुत्रश्यामगौरतादिवन्न स्तः एव संभवविभवाविति । यदा चैवं संभवविभवौ न स्तः, तदा तद्धेतुरपि कालो नास्तीति सिद्धम् ॥ 6 ॥
किं चान्यत्- इहेमौ संभवविभवौ परिकल्प्यमानौ क्षयधर्मिणो वा भावस्य परिकल्प्येयातामक्षयधर्मिणो वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः । क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च ॥ 7 ॥
तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् संभवो न युक्तः । अक्षयस्यापि भावलक्षणवियुक्तत्वात् खरविषाणस्येव संभवो न युक्तः । एवं क्षयस्य विभवो नास्ति । क्षयधर्मो हि अविद्यमानः, तस्य निराश्रयो विभवो न युक्तः । तथा विभवो नाक्षयस्य च । अक्षयधर्मो हि भावाभावलक्षणविलक्षणः । तस्य अविद्यमानस्य कुतो विभवो भविष्यति? यौ च संभवविभवौ न क्षयधर्मिणो नाक्षयधर्मिणो भावस्य संभवतः, तौ न संभवतः । इति न स्तः संभवविभवौ ।7 ॥
अत्राह- विद्येते एव भावानां संभवविभवौ, तदाश्रयिधर्मिसद्भावात् । इह भावाश्रयौ संभवविभवौ, स च तावद् भावो ऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यतः इति । उच्यते । स्यातां भावाश्रितावेतौ धर्मौ, यदि भावः स्यात् । यदा तु भावो नास्ति, तदा-
संभवो विभवश्चैव विना भावं न विद्यते ।
कस्मात्पुनर्भावो नास्तीति चेत्, यस्मात्- संभवं विभवं चैव विना भावो न विद्यते ॥ 8 ॥ भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ । यदा च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं संभवं विभवं च विना कुतो भावलक्षणविलक्षणो भावो भविष्यति? भावं च विना न स्तः संभवविभवौ ॥
अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते । स्तः एव संभवविभवौ, भावधर्मत्वात् । इह यन्नास्ति, न तस्यास्ति भावधर्मत्वम्, तद्यथा मण्डूकजटाशिरोमणेः । भावधर्मौ च संभवविभवौ, (pp_181) तस्मात् स्तः एव तौ इति । यदि कस्यचित् परमार्थतः संभवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम् । तौ च न स्तः, इति
संभवं विभवं चैव विना भावो न विद्यते ।
भावस्य संभवविभवसत्त्वे विद्यमानत्वात्, इति भावः । तदसत्त्वे च हेतोरसिद्धार्थता । तथा-
संभवो विभवश्चैव विना भावं न विद्यते ॥ आश्रयस्याभावादाश्रितस्य असिद्धिः इत्यभिसंधिरिति ॥ 8 ॥ किं चान्यत्- इहेमौ संभवविभवौ परिकल्पमानौ शून्यस्य वा भावस्य परिकल्प्येयातामशून्यस्य वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह-
संभवो विभवश्चैव न शून्यस्योपपद्यते ।
अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्रायः । तथा- संभवो विभवश्चैव नाशून्यस्योपपद्यते ॥ 9 ॥अशून्यस्य असत्त्वात् निराश्रयौ संभवविभवौ नोपपद्यतः ॥ 9 ॥ किं चान्यत्- इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा? उभयथा च नोपपद्यते इत्याह-
संभवो विभवश्चैव नैक इत्युपपद्यते ।
परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः । संभवो विभवश्चैव न नानेत्युपपद्यते ॥ 10 ॥ उभयोः परस्परमव्यभिचारित्वात् । न हि संभवरहितस्य विनाशः, न विभवरहितस्य संभवो दृष्ट इति । एवमुभयोः परस्परमव्यभिचारित्वात्
संभवो विभवश्चैव न नानेत्युपपद्यते ॥
अथ स्यात्- किमनया सूक्ष्मेक्षिकया? आगोपालाङ्गनादिको हि जनः यस्मात् संभवं विभवं च पश्यति, तस्मात् स्तः संभवविभवौ । न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति । एवमपि-
दृश्यते संभवश्चैव विभवश्चैव ते भवेत् ।
उच्यते । अनैकान्तिकमेतत् । न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम् । तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमानमपि पश्यति इन्द्रियोपघातात्, एवमिमावपि संभवविभवौ असन्तौ मोहादेव पश्यतीत्याह- दृश्यते संभवश्चैव मोहाद्विभव एव च ॥ 11 ॥ अथ कस्मात् पुनरेतदेवं निश्चीयते- अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव वारलोकेन दृश्येते इति । युक्त्या ह्येतदेवं निश्चीयते । का पुनरत्र युक्तिः? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा । तथा यदि अभावो नाम कश्चित्, सो ऽपि भावाद्वा जायेत अभावाद्वा । उभयथा च उभयोरप्यसंभवः इत्याह-
न भावाज्जायते भावो भावो ऽभावान्न जायते । नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥ 12 ॥
भावात् तावत् संभवाख्याद् भावस्य संभवाख्यस्य उत्पादो न विद्यते, कार्यकारणयोर्यौगपद्याभावात्, उत्पादस्य च लब्धजन्मनः पुनरुत्पादवैयर्थ्यात् । अभावादपि भावो न जायते । किं कारणम्? अभावो हि नाम विभवो विनाशः । स च भावविरुद्धः । तस्माद्भावविरुद्धात् कथं भावः स्यात्? यदि स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादपि भावो न भवति । इदानीमभावो ऽप्यभावान्न भवति । भावनिवृत्तिरूपो हि अभावः, तत कुतो ऽस्य कार्यकरणसामर्थ्यम्? यदि स्यात्, निर्वाणस्यापि कार्यकरणसामर्थ्यं स्यात् । यदि च अभावादभावः स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात् । न चैतदेवमिति । तस्मादभावादप्यभावो न भवति । इदानीं भावादप्यभावो न भवति । भावविरुद्धो ह्यभावः । स कथं भावाद्भवेत् । यदि भवेत्, प्रदीपादन्धकारः स्यात् । यतश्चैवं विचार्यमाणौ संभवविभवौ न स्तः, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम् ॥
अथवा । अयमन्यः पूर्वपक्षः- इह हि यदि संभवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा । तौ च भावाभावौ सर्वथा विचार्यमाणौ न संभवतः । ततश्च कुतो निराश्रयौ संभवविभवाविति? अतः-
दृश्यते संभवश्चैव मोहाद्विभव एव च ।
इति विज्ञेयम् । यथा च भावाभावौ न संभवतः, तथा प्रतिपादयन्नाह-
न भावाज्जायते भावो भावो ऽभावान्न जायते । नाभावाज्जायते ऽभावो ऽभावो भावान्न जायते ॥ अस्यार्थः पूर्ववत् ॥ 12 ॥ अपि च । यदि कश्चिद् भावो नाम स्यात्, तस्य उदयव्ययवत्त्वात् संभवविभवौ स्याताम् । न च कश्चिद् भावः स्वरूपतो ऽस्ति खरविषाणवत् स्वभावानुत्पन्नत्वात् । अनुत्पन्नत्वमसिद्धमिति चेत्, तत् सिद्धम्, यस्मात्-
न स्वतो जायते भावः परतो नैव जायते । न स्वतः परतश्चैव जायते, जायते कुतः ॥ 13 ॥
एतच्च आद्य एव प्रकरणे व्याख्यातत्त्वान्न पुनर्व्याख्यायते । यश्चैवं यथोक्तप्रकारेण जायते स इदानीं कुतो जायते? नैव कुतश्चिज्जायते इत्यभिप्रायः । अवश्यं चैतदेवमभ्युपेयम्- सर्वथा नास्ति भावस्योत्पाद इति ॥ 13 ॥
भावसद्भावताभ्युपगमे च भवतः शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्येत्याह- भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम् । प्रसज्यते
यस्मात्, स भावो हि नित्यो ऽनित्यो ऽथ वा भवेत् ॥ 14 ॥ यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचनात्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते । किं कारणम्? यस्मात् स भावः परिकल्प्यमानः नित्यो वा भवेदनित्यो वा । यदि नित्यः, तदा नियतं शाश्वतवादः । अथ अनित्यः, तदा नियतमुच्छेद इति ॥ 14 ॥
अत्राह-
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम् ।
किं कारणम्? यस्मात्- उदयव्ययसंतानः फलहेत्वोर्भवः स हि ॥ 15 ॥ यो हि हेतुफलयोरुदयव्ययानुप्रबन्धः, स हि अस्माकं भवः संसारः । तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोषः । यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा स्याच्छाश्वतवाददर्शनदोषः । न चैतदेवमिति । तस्माद् भावाभ्युपगमे ऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्गः । स एव संसारः यो ऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्धः संस्काराणामिति । अतो नास्ति अस्माकमयं दोष इति ॥ 15 ॥
उच्यते-
उदयव्ययसंतानः फलहेत्वोर्भवः स चेत् ।
ननु एवमपि- व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते ॥ 16 ॥ यो हि हेतुक्षणः फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते, ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते । तवायं कथं न दोष इति चेत्, भावमभ्युपपन्नस्य अयं दोषः । न च मया भावो ऽभ्युपगतः, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम् । यत्रापि मया-
प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत् । न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम् ॥
इत्युक्तम्, तत्रापि अमुना न्यायेन नैःस्वाभाव्यमेव भावानां प्रतिपादितम् । अन्यथा हि सति भावस्वरूपे बीजाङ्कुरयोः कथमन्यत्वं न स्यात्? तस्मान्नायं प्रसङ्गो ऽस्माकं बाधक इति ॥ 16 ॥
एवं तावद् भावमभ्युपपन्नस्य हेतोः पुनरनुत्पादादुच्छेददर्शनप्रसङ्गमुद्भाव्य इदानीं शाश्वतवादे दोषप्रसङ्गमुद्भावयन्नाह-
सद्भावस्य स्वभावेन नासद्भावश्च युज्यते ।
यदि हि हेतोः सद्भावः स्वभावतः स्यात्, तस्य पश्चादसद्भावो न स्यात् स्वभावस्या नपायित्वात् । ततश्च शाश्वतदर्शनप्रसङ्गः तदवस्थ एव ॥
किं चान्यत्- निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः ॥ 17 ॥ यद्यपि हेतुफलयोरुदयव्ययसंतानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्गः परिह्रियते, तथापि यत्रास्य संतानस्य पुनरप्यप्रवृत्तिः, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते । उच्छेददर्शनं च प्रहातव्यमित्युक्तं भगवता । एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवता भविष्यतीति भावविच्छेदालम्बनत्वात्, निर्वाणकाले भावविच्छेदालम्बनवदित्यभिप्रायः ॥
यच्चोक्तम्-
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ।
इति, तदपि नोपपद्यते । कथं कृत्वा? इह हि चरमो भवो निवृत्तिलक्षणः, प्रथमो गतिप्रतिसंधिलक्षणः । तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते । उपपत्तिलक्षणस्तु प्रथमो भवः फलरूपत्वेन व्यवतिष्ठते । अनयोश्च भवयोः संसार इति संज्ञा कृता ॥ 17 ॥
अत्र च इदं विचार्यते- य एष प्रथमो भवः फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसारः स्यात्? सर्वथा च विचार्यमाणो न संभवतीति प्रतिपादयन्नाह-
चरमे न निरुद्धे च प्रथमो युज्यते भवः । चरमे नानिरुद्धे च प्रथमो युज्यते भवः ॥ 18 ॥
तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुक स्यात् । दहनदग्धबीजादपि अङ्कुरोदयः स्यात् । न चैतदिष्टम् । तस्माच्चरमे निरुद्धे प्रथमो भवो न युज्यते ॥
इदानीमनिरुद्धे ऽपि चरमे भवे प्रथमो भवो न युज्यते । यदि स्यात्, निर्हेतुकः स्यात्, द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे च बीजे अङ्कुरोदयः स्यात् । न चैतदेवमिष्टमिति । अतः-
चरमे नानिरुद्धे च प्रथमो युज्यते भवः । इति स्थितम् ॥ 18 ॥ इदानीं निरुध्यमाने ऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रतिपादयन्नाह-
निरुध्यमाने चरमे प्रथमो यदि जायते । निरुध्यमान एकः स्याज्जायमानो ऽपरो भवेत् ॥ 19 ॥
तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते वर्तमानशब्दवाच्यत्वात् । अथवा निरुध्यमानो निरोधक्रियाकारकः । यश्चापि जायते, असावपि जनिक्रियाकारकः, तौ च एककालाविष्यमाणौ यौगपद्येनैव स्तः । ततश्च निरुध्यमानः एको भवः स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुतः । न चैकस्य युगपद् द्वौ भवौ संभवतः इत्युक्तमेतत् ॥ 19 ॥
तदेवं यथोक्तेन विचारकमेण-
न चेन्निरुध्यमानश्च जायमानश्च युज्यते । सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते ॥ 20 ॥
चशब्दः समुच्चयार्थः । पृथक्पृथक् चेति एतत्संनिधापयति । यदा एवं यथोदितन्यायेन निरुद्धे चरमे प्रथमो भवो न संभवति, अनिरुद्धे ऽपि चरमे प्रथमो भवो न संभवति, सार्धं चैकस्मिश्च काले चरमेन भवेन सह प्रथमो भवो न संभवति, तत् किमिदानीं येषु एव स्कन्धेषु म्रियते तेषु एव जायते इति स्यात् । येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति अत्यन्तविरुद्धमेतत् । न हि म्रियमाणो जायते इति दृष्टम् ॥ 20 ॥
तत्-
एवं त्रिष्वपि कालेषु न युक्ता
भवदभिमता
भवसंततिः ।
चरमे भवे निरुद्धे ऽनिरुद्धे निरुध्यमाने यस्मात् प्रथमो भवो न संभवति, तस्मात् त्रिष्वपि कालेषु भवसंतिर्नास्ति । त्रिषु कालेषु या नास्ति सा कथं भवसंततिः ॥ 21 ॥ या च इदानीं त्रिषु कालेषु नास्ति, कुतः सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति भवन्मता भवसंततिः । ततश्च यदुक्तम्-
उदयव्ययसंतानः फलहेत्वोर्भवः स हि ।
इति, तन्न युक्तम् । ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो भवताम्, इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम् । यथोक्तमार्यसमाधिराजभट्टारके-
तथा-
बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो । न च अन्यु ततो न चैव तदेवमनुच्छेद अशाश्वत धर्मता ॥
मुद्रात्प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते । न च तत्र न चैव सान्यतो एवं संस्कार अनुच्छेदशाश्वताः ॥
अत एवोक्तमार्यनागार्जुनपादैः स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्रैः । स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरवधार्यौ ॥ इति ।
तथा भगवान्-
जायते च्यवते चापि न च जातिर्न च च्युतिः । यस्य विजानत एष समाधिर्नास्य दुर्लभः ॥ इति।
तथा-
सूसुखिता सद ते नर लोके येहि अचिन्तिय ज्ञातिभि धर्माः । न च धर्म अधर्म विकल्पो चित्तपपञ्च विभावित सर्वि ॥
भाव अभाव विभावयि ज्ञानं सर्वमचिन्तयि सर्वमभूतम् । ये पुन चित्तवशानुग बालास्ते दुखिता भवकोटिशतेषु ॥
यो ऽपि च चिन्तयि शून्यकधर्मान् सो ऽपि कुमार्गपपन्नकु बालः । अक्षर कीर्तित शून्यक धर्मास्ते च अनक्षर अक्षर उक्ताः ॥
शान्त पशान्त य चिन्तयि धर्मान् सो ऽपि च चित्तु न जातु न भूतः । चित्तवितर्कण सर्वि पपञ्चाः सूक्ष्म अचिन्तिय बुध्यथ धर्मान् ॥ इति ॥ 21 ॥ इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम् ॥
22 तथागतपरीक्षा द्वाविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव भवसंततिः, तथागतसद्भावात् । इह हि भगवता महाकरुणोपायप्रज्ञाद्वयधारिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासंख्येयैः सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोदयैकक्रियालक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहतत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात उपभोग्यतामात्मानमुपगमयता महाकालेन सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम् । स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते । यदि भवसंततिर्न स्यात्, तदा तथागतो ऽपि न स्यात् । न हि एकेन जन्मना शक्यं तथागतत्वमनुप्राप्तुम् । तस्माद्विद्यत एव भवसंततिः, तथागतसद्भावादिति । उच्यते । भवदीयमेव हि इदमतिमहदज्ञानं भवसंतानस्य अविच्छेदवर्तितां च अतिदीर्घकालं च गमयति, यस्य नाम भवतः अतिमहदज्ञानधनान्धकारमेव विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्वस्यमानमपि अतिचिरतरकालाभ्यासवासनाविस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते । यदि हि तथागतो नाम कश्चित् स्यात् स्वभावतः, तदा तस्य महता कालेनाभिनिष्पत्तेर्भवसंततिः स्यात् । न च तथागतो नाम कश्चिद् भावस्वभावत उपलभ्यते । केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशमशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते । यथा च तथागतो नास्ति स्वभावतः, तथा प्रतिपादयन्नाह-
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः । तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः ॥ 1 ॥
यदि हि तथागतो नाम कश्चित् पदार्थो ऽमलो निष्प्रपञ्चः स्यात्, स स्कन्धस्वभावो वा भवेत्, रूपवेदनासंज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत् । यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभावः, तद्वयतिरिक्तो वा भवेत् । पूर्वका एव पञ्च स्कन्धाः सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावित त्वादिति ॥
यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धाः स्युः, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्तः? सर्वथा च विचार्यमाणो न संभवति । कथं कृत्वा? तत्र तावत् स्कन्धा एव न तथागतः । किं कारणम्? उक्तं हि-
यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः ।
भवेदिति, तदिहापि योज्यम्,
स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः ।
भवेदिति । तथा-
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् ।
इत्युक्तम्, तदिहापि योज्यम्,
बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत् । इति ।
एवं तावत् स्कन्धा न तथागतः ॥ इदानीं नान्यः स्कन्धेभ्यस्तथागत इति । किं कारणम्? उक्तं हि-
अन्यश्चेदिन्धनादग्निरिन्धनादष्यृते भवेत् ।
तथा-
परत्र निरपेक्षत्वादप्रदीपनहेतुकः । पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥ इति,
तथा इहापि योज्यम्,
बुद्धो ऽन्यश्चेदुपादानादुपादानं विना भवेत् ।
तथा-
परत्र निरपेक्षत्वादनुपादानहेतुकः । पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति ॥
तथा-
स्कन्धेभ्यो ऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः ।इति ।
अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते ॥
नापि स्कन्धेषु तथागत इति उपपद्यते । उक्तं चैतन्मध्यमकावतारे पक्षद्वयव्याख्यानम्-
स्कन्धेष्वात्मा विद्यते नैव चामी सन्ति स्कन्धा आत्मनीतीह यस्मात् । सत्यन्यत्वे स्यादियं कल्पना वै तच्चान्यत्वं नास्त्यतः कल्पनैषा ॥
स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम्-
इष्टो नात्मा रूपवान्नास्ति यस्मादात्मा वत्त्वार्थोपयोगो हि नातः । भेदे गोमान् रूपवानष्यभेदे तत्त्वान्यत्वे ऽरूपतो नात्मनः स्तः ॥
तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुतः । सत्कायदृष्टिप्रवृत्त्यपेक्षया तु पञ्च पक्षाः समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम् । यश्चैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागतः, स केनान्येन आत्मना भविष्यतीति, सर्वथा न संभवत्येव तथागत इति भावस्वभावादपश्यन्त आचार्यपादाः प्राहुः- कतमो ऽत्र तथागत इति । नास्त्येव स कश्चित् सकलत्रैलोक्यवस्तुविपश्चिद्भावस्वभाव इत्यभिप्रायः । तथागताभावाच्च भवसंततिरपि द्रव्यसंततिर्नास्तीति सिद्धम् ॥ 1 ॥
अत्रैके वदन्ति- नैव हि स्कन्धास्तथागत इति ब्रूमः, यथोक्तदोषप्रसङ्गात् । नापि स्कन्धव्यतिरिक्तः । नापि तथागते अनास्रवान् स्कन्धान् वर्णयामः, हिमवति पर्वते इव तरुखण्डम् । नापि स्कन्धेषु, तरुखण्डे एव सिंहम् । नापि स्कन्धवन्तं वर्णयामः, लक्षणवन्तमिव चक्रवर्तिनम्, एकत्वान्यत्वानभ्युपगमादेव । किं तर्हि स्कन्धानमलानुपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यवस्थापयामः । तस्मान्नायं विधिरस्माकं बाधक इति । अत्रोच्यते-
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः । स्वभावतश्च यो नास्ति कुतः स परभावतः ॥ 2 ॥
यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न तर्हि स्वभावतः सो ऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात् । यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो भविष्यतीति? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते ॥ 2 ॥
अथ स्यात्- यथैव हि प्रतिबिम्बकं स्वभावतो ऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य भवति, एवं च तथागतो ऽपि स्वभावतो ऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि-
प्रतीत्य परभावं यः सो ऽनात्मेत्युपपद्यते । यश्चानात्मा स च कथं भविष्यति तथागतः ॥ 3 ॥
यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतो ऽनात्मेत्युपपद्यते । न तु स्वभावत इति युज्यते । आत्मशब्दो ऽयं स्वभावशब्दपर्यायः । यश्च अनात्मा निःस्वभावः प्रतिबिम्बवदेव, स कथं तथागतः स्वभावरूपतो भविष्यति? अविपरीतमार्गगतो न भविष्यतीत्यभिप्रायः ॥ 3 ॥
किं चान्यत्- इह यदि तथागतस्य कश्चित् स्वभावः स्यात्, तदा तत्स्वभावापेक्षया स्कन्धस्वभावः परभाव इति स्यात्, तं च परभावं प्रतीत्य तथागतः स्यात् । यदा तु तथागतस्य स्वभाव एव नास्ति, तदा कुतः स्कन्धानां परत्वं स्यादिति प्रतिपादयन्नाह-
यदि नास्ति स्वभावश्च परभावः कथं भवेत् ।
यदा चैवं स्वभावपरभावौ न स्तः, तदा स्वभावपरभावाभ्यामृते कः स तथागतः ॥ 4 ॥ पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा । ताभ्यां तु विना को ऽसौ अपरः पदार्थो ऽस्ति, यस्तथागत इति व्यवस्थाप्यते? तस्मान्नास्ति स्वभावतस्तथागत इति ॥ 4 ॥
किं चान्यत्-
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः । स इदानींमुपादद्यादुपादाय ततो भवेत् ॥ 5 ॥
यदि मन्यसे- स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति, तत् कदा युज्यते? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स स्कन्धानुपादद्यात् । व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत् ॥ 5 ॥
विचार्यमाणस्तु सर्वथा-
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः ।
निर्हेतुकत्वप्रसङ्गात् । यश्च नास्त्यनुपादाय स उपादास्यते कथम् ॥ 6 ॥ अविद्यमानत्वादित्यभिप्रायः । यदा चैवं न किंचिदप्युपादत्ते, तदा स्कन्धानुपादाय तथागतो नाम भविष्यतीति नोपपद्यते ॥ 6 ॥
यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदुपादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह-
न भवत्यनुपादत्तमुपादानं च किंचन ।
यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह- न चास्ति निरुपादानः कथंचन तथागतः ॥ 7 ॥इति ॥ 7 ॥ तदेवं यथोपपादितन्यायेन-
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा । उपादानेन स कथं प्रज्ञप्येत तथागतः ॥ 8 ॥
यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेनस्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वासत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो (pp_191) यो नास्ति, स कथमत्यन्तो ऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम्? इत्यतो ऽपि नास्ति तथागतो नाम स्वभावतः ॥ 8 ॥
न केवलमनेन विचारेण तथागत एव नास्ति,
यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते ।
यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च विस्तरेण प्रतिषिद्धत्वात् ॥
अथापि स्यात्- यद्यपि स्वभावतः उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावा द्भविष्यतीति, तदापि नोपपद्यते इति प्रतिपादयन्नाह- स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥ 9 ॥ न हि बन्ध्यासूनुः स्वभावतो ऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति । अतः उपादानमपि नास्ति ॥
अथवा-
यदपीदमुपादानं तत्स्वभावान्न विद्यते ।
उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम् । अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति । उच्यते । एवमपि-
स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः ॥
स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातुः परभावतो भविष्यतीति । तस्मादुपादानमपि नास्तीति ॥ 9 ॥
इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह-
एवं शून्यमुपादानमुपादाता च सर्वशः ।
सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं निःस्वभावम्, उपादाता च शून्यः स्वभावरहितः । तेनेदानीमुपादानेन- प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥ 10 ॥ नैव तत्संभवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्तिः स्यादिति । तस्मात् स्कन्धानुपादाय तथागतः प्रज्ञप्यते इति नोपपद्यते ॥
अत्राहुः- अहो वत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पितातिकठिनकुदर्शनमालुतालताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थकरेषु अविपरीतस्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसंप्रकाशकं सद्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेयजनमतिकमलकुङ्मलविबोधनतत्परं (pp_192) यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकलजगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं सप्तबोध्यङ्गोत्तुङ्गतुरंगपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राहराहुग्रहविग्रहोद्ग्रहनिरासिनं तथागतसवितारमज्ञानधनगहनान्धकारनिराकरणाय मोक्षार्थिनो ऽतुत्तरसम्यक्संबोध्यर्थिनः शरणं प्रतिपन्नाः, तस्य च त्वया-
एवं शून्यमुपादानमुपादाता च सर्वशः । प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः ॥
इत्यादिना स्वभावतो ऽसत्त्वं व्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्संबोध्यागमाभिलाषः इति । तदलं भवता तथागतमहादित्यप्रच्छादकेन आकालिकधनधनावलीविसरणेन जगदन्धकारोपमेनेति । उच्यते । अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषु ये हि नाम भवन्तः मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीरमनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिंहनादमसहमानाः कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोरसंसाराटवीकान्तारचारकानुगमार्गमवगाहन्ते । न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति । यथोक्तं भगवत्याम्-
बुद्धो ऽप्यायुष्मन् सुभूते मायोपमः स्वप्नोपमः । बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमाः ॥ इति ॥
तथा-
धर्म स्वभावतु शून्य विविक्तो बोधि स्वभावतु शून्य विविक्ता । यो हि चरेत्स पि शून्यस्वभावो ज्ञानवतो न तु बालजनस्य ॥ इति । न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रूमः, यदस्माकं तदपवादकृतो दोषः स्यात् ॥ 10 ॥ अपि च । निःस्वभावं हि तथागतं व्याचक्षाणेन अविपरीतार्थाभिधित्सुना योगिनां सता सर्वथा-
शून्यमिति न वक्तव्यमशून्यमिति वा भवेत् । उभयं नोभयं चेति
सर्वमेतन्न वक्तव्यमस्माभिः । किं तु अनुक्ते यथावदवस्थितं स्वभावं प्रतिपत्ता प्रतिपत्तुं न समर्थ इत्यतो वयमपि आरोपतो व्यवहारसत्ये एव स्थित्वा व्यवहारार्थं विनेयजनानुरोधेन (pp_193) शून्यमित्यपि ब्रूमः, अशून्यमित्यपि, शून्याशून्यमित्यपि, नैव शून्यं नाशून्यमित्यपि ब्रूमः । अत एवाह प्रज्ञप्त्यर्थं तु कथ्यते ॥ 11 ॥ इति । यथोक्तं भगवता-
शून्याः सर्वधर्मा निःस्वभावयोगेन । निर्निमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय । अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन । प्रकृतिप्रभास्वराः सर्वधर्माः प्रज्ञापारमितापरिशुद्धया । इति ॥
अन्यत्र अशून्यमुक्तम्-
अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीतं रूपमभ्यनन्दिष्यत् । यस्मात्तर्हि भिक्षवः अस्ति अतीतं रूपम्, तस्मादार्यश्रावकः श्रुतवानतीतं रूपमभिनन्दतीति । अनागतं चेद्भिक्षवः- इत्यादि । एवं यावत् अतीतं चेद्भिक्षवो विज्ञानं नाभविष्यत्- इत्यादि पूर्ववत् ॥
तथा सौत्रान्तिकमते अतीतानागतं शून्यम्, अन्यदशून्यम् । विप्रयुक्ता विज्ञप्तिः शून्या । विज्ञानवादे ऽपि कल्पितस्वभावस्य शून्यत्वम्, अप्रतीत्यसमुत्पन्नत्वात्, तैमिरिकद्विचन्द्रादि दर्शनवत् ।
न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते । [तथा] सत्त्वादसत्त्वाच्च मध्यमा प्रतिपच्च सा ॥ इति ॥
येन त्वभिप्रायेण शून्यत्वादिकमुपदिश्यते, स आत्मपरीक्षातो बोद्धव्यः । यथोक्तं सूत्रे-
मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विहितम् । नात्मा न सत्त्व न च जीवगती धर्मा मरीचिदकचन्द्रसमाः ॥
शून्यं च शान्तमनुपादमयं अविजानदेव जगदुद्भ्रमती । तेषामुपायनययुक्तिशतैरवतारयस्यपि कृपालुतया ॥
रागादिभिश्च बहुरोगशतैः संत्रासितं सकलमीक्षि जगत् । वैद्योपमो विचरसे ऽप्रतिमो परिमोचयं सुगत सत्त्वशतान् ॥
रथचक्रवद् भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरयेषु गताः । मूढा अदेशिक अनाथगताः तेषां प्रदर्शयसि मार्गवरम् ॥ इति । सर्वास्त्वेताः कल्पना निष्प्रपञ्चे तथागते न संभवन्ति ॥ 11 ॥ न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न संभवति, अपि च-
शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम् । अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम् ॥ 12 ॥
इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि । तद्यथा- शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्च अशाश्वतश्च लोकः, नैव शाश्वतो नाशाश्वतश्च लोकः, इति चतुष्टयम् । अन्तवान् लोकः, अनन्तवान् लोकः, अन्तवांश्च अनन्तवांश्च लोकः, नैव अन्तवान् न अनन्तवांश्च लोकः, इति द्वितीयम् । भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति च तथागतः परं मरणात्, इति तृतीयम् । स जीवस्तच्छरीरम्, अन्यो जीवो ऽन्यच्छरीरम्, इति । तान्येतानि चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते । तत्र यथोपवर्णितेन न्यायेन यथा शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते निःस्वभावे तथागते न संभवति, एवं शाश्वताशाश्वतादिकमपि चतुष्टयमत्र न संभवति । असंभवादेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न व्याकृतं भगवता लोकस्य । यथा च एतच्चतुष्टयं तथागते न संभवति, एवमन्तानन्तादिकमपि शान्ते तथागते न संभवति ॥ 12 ॥
इदानीं भवति तथागतः परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्यसंभव मुद्भावयन्नाह-
येन ग्राहो गृहीतस्तु घनो ऽस्तीति तथागतः । नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत् ॥ 13 ॥
येन हि घनतरो महताभिनिवेशेन अस्ति तथागतः इति ग्राहो गृहीतः, परिकल्प उत्पादितः, सः नियतं परिनिर्वृते तथागते, न भवति तथागतः परं मरणात्, मरणादुत्तरकालं न भवति, उच्छिन्नस्तथागतः, न संविद्यते, इति परिकल्पयेत् । तस्य एवं विकल्पयतः स्याद् दृष्टिकृतम् ॥ 13 ॥
यस्य तु न कस्यांचिदप्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्वनास्तित्वम्, तस्य पक्षे-
स्वभावतश्च शून्ये ऽस्मिंश्चिन्ता नैवोपपद्यते । परं निरोधाद्भवति बुद्धो न भवतीति वा ॥ 14 ॥ आकाशे चित्ररूपकल्पनावदेषा कल्पना नास्तीत्यभिप्रायः ॥ 14 ॥ तदेवं प्रकृतिशान्ते निःस्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वताशाश्वतादिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञासर्वज्ञादिकया कल्पनया-
प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम् । ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम् ॥ 15 ॥
वस्तुनिबन्धना हि प्रपञ्चाः स्युः, अवस्तुकश्च तथागतः । कुतः प्रपञ्चानां प्रवृत्तिसंभव इति? अतः प्रपञ्चातीतस्तथागतः । अनुत्पादस्वभावावाच्च स्वभावान्तरागमनादव्ययः । तमित्थंविधं तथागतं स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैरभूतैः परिकल्पविशेषैः ये बुद्धं भगवन्तं प्रपञ्चयन्ति, ते स्वकैरेव प्रपञ्चैर्हताः सन्तः तथागतगुणसमृद्धेरत्यन्तपरोक्षवर्तिनो भवन्ति । ततश्च शवभूताः एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम् । अत एवाह भगवान्-
ये मां रूपेण अद्राक्षुर्ये मां घोषेण अन्वयुः । मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः ॥
धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः । धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम् ॥ इति ॥ 15 ॥ तदत्र तथागतपरीक्षायां सत्त्वलोकः सकलः ससुरासुरनरादिः परीक्षितः । यथा चायं सत्त्वलोको निःस्वभावः, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितानभवनपर्यन्तस्य नैःस्वाभाव्यमुद्भावयन्नाह-
तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत् ।
इदं जगदिति अयं भाजनलोक इत्यर्थः । किंस्वभावस्तथागतः पुनरित्याह- तथागतो निःस्वभावो निःस्वभावमिदं जगत् ॥ 16 ॥ इति । यथा च जगतो नैःस्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभिः प्रतिपादितम् । अत एवोक्तं सूत्रे-
अनुपादधर्मः सततं तथागतः सर्वे च धर्माः सुगतेन सादृशाः । निमित्तग्राहेण तु बालबुद्धयः असत्सु धर्मेषु चरन्ति लोके ॥
तथागतो हि प्रतिबिम्बभूतः कुशलस्य धर्मस्य अनास्रवस्य । नैवात्र तथता न तथागतो ऽस्ति बिम्बं च संदृश्यति सर्व लोके ॥ इति ।
उक्तं च भगवत्यां प्रज्ञापारमितायाम्-
अथ खलु ते देवपुत्राः आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन्- किं पुनरार्यसुभूते मायोपमास्ते सत्त्वाः, न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्- मायोपमास्ते देवपुत्राः सत्त्वाः, स्वप्नोपमास्ते देवपुत्राः सत्त्वाः । इति हि माया च सत्त्वाश्च अद्वयमेत दद्वैधीकारम् । इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम् ।सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः । स्त्रोतआपन्नो ऽपि मायोपमः स्वप्नोपमः । स्त्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम् । एवं सकृदागाम्यपि सकृदागामिफलमपि । अनागाम्यपि अनागामिफलमपि । अर्हन्नपि मायोपमः स्वप्नोपमः । अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम् । प्रत्येकबुद्धो ऽपि मायोपमः स्वप्नोपमः । प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम् । सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपमः इति । सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति वदामि ॥
अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्- सम्यक्संबुद्धो ऽपि मायोपमः स्वप्नोपम इति, सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि? सुभूतिराह- निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम्? देवपुत्रा आहुः- निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह- यद्यपि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम् । इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति ॥
इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम् ॥
23 विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम् ।
अत्राह- विद्यत एव भवसंततिः, तत्कारणसद्भावात् । इह हि क्लेशेभ्यः कर्म प्रवर्तते । कर्मक्लेशहेतुका जन्ममरणपरंपरा उपजायते । सा च भवसंततिर्व्यपदिश्यते । तस्याश्च प्रधानं कारणं क्लेशाः, प्रहीणक्लेशानां भवसंततेरभावात् । ते च रागादयः क्लेशाः सन्ति । तस्मात् कार्यभूतापि जन्ममरणपरंपरा अविच्छेदप्रबन्धेन भवसंततिरपि भविष्यतीति । उच्यते । स्याद् भवसंततिः, यदि तद्धेतुभूताः क्लेशाः स्युः । न तु सन्ति । कथं कृत्वा? इह भगवद्भिर्बुद्धैः सकलत्रिभुवनजनसंक्लेशशत्रुविध्वंसिभिश्चतुर्मारारातिसमरपराजयैः-
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते । शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ॥ 1 ॥
संकल्पो वितर्कः । संकल्पात् प्रभवतीति संकल्पप्रभवः ।
काम जानामि ते मूलं संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि ॥
इति गाथाभिधानात्
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते ।
एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेषामेवोपादानं त्रयाणाम् । एते च त्रयः क्लेशाः-
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि ।
तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेषः, विपर्यासान् प्रतीत्य मोह उत्पद्यते । संकल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ । कथं पुनर्मोहः संकल्पप्रभवः? उच्यते । उक्तं हि प्रतीत्यसमुत्पादे भगवता-
अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना । कश्च भिक्षवः अविद्याया हेतुः? अयोनिशो भिक्षवो मनस्कारो ऽविद्याया हेतुः । आविलो मोहजो मनस्कारो भिक्षवो ऽविद्याया हेतुः ॥ इत्यतः अविद्या संकल्पप्रभवा भवति ॥ 1 ॥
ततश्च-
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये । ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः ॥ 2 ॥
इति । यदि रागादयः स्वभावसिद्धाः स्युः, नैव ते शुभाशुभविपर्यासान् प्रतीत्य संभवेयुः, स्वभावस्य अकृत्रिमत्वात् परनिरपेक्षत्वाच्च । भवन्ति च शुभाशुभविपर्यासान् प्रतीत्य, तस्मान्निःस्वभावा एव ते । तत्त्वतो न विद्यन्ते, परमार्थतः स्वभावतो न विद्यन्ते इत्यर्थः ॥ 2 ॥
अपि च-
आत्मनो ऽस्तित्वनास्तित्वेन कथंचिच्च सिध्यतः । तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम् ॥ 3 ॥
आत्मनो यथा अस्तित्वनास्तित्वे न स्तः, तथा उक्तं विस्तरेण । ततश्च- तदाश्रितस्य धर्मस्य कुतो ऽस्तित्वनास्तित्वे भविष्यतः? ॥ 3 ॥
अथ स्यात्- यदि अस्तित्वनास्तित्वे आत्मनो न स्तः, तदा किमत्र क्लेशानामायातम्, यतस्तेषामपि अस्तित्वनास्तित्वे न स्तः इति? उच्यते-
कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति । कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित् ॥ 4 ॥
इह अमी रागादयः कुडयं चित्रवत् फलं पक्वतादिवच्च उत्पत्तौ आश्रयमपेक्षन्ते । ततश्च कस्यचिदेते भवन्ति, न विना कंचिदाश्रयम् । स च आश्रयः परिकल्प्यमानः आत्मा वा चित्तं वा भवेत् । स चैषामाश्रयः पूर्वमेव प्रतिषिद्धत्वान्नास्ति । तं च कंचिदाश्रयं विना कस्य क्लेशा भवन्तु? नैव कस्यचिद्भवन्ति, तस्याविद्यमानत्वात्, आहो विना कंचित् सन्ति क्लेशा न कस्यचित् ॥ 4 ॥
अत्राह- नैव हि क्लेशानां कश्चिदाश्रयः पूर्वं सिद्धो ऽभ्युपगम्यते । न च आत्मा नाम कश्चिदस्ति, यः आश्रयत्वेन व्यवस्थाप्येत, निर्हेतुकत्वाद् व्योमचूततरुवत् । किं तर्हि क्लिष्टं चित्तं प्रतीत्य क्लेशा उपजायन्ते, तच्च चित्तं सहैव क्लेशैरुपजायत इति । एतदपि न युक्तमित्याह-
स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा । स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा ॥ 5 ॥
स्वकायो हि नाम रूपादिलक्षणसंहतिः । स्वकायदृष्टिः स्वकाये आत्मदृष्टिः आत्मीयाकारग्रहणप्रवृत्ता । यथेयं पञ्चधा विचार्यमाणा स्वकाये न संभवति,
स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः । तथागतः स्कन्धवान्न कतमो ऽत्र तथागतः ॥
इत्यनेन । एवं क्लिष्टे ऽपि क्लेशा विचार्यमाणाः पञ्चधा न संभवन्ति । तत्र क्लिश्यन्तीति क्लेशा क्लिश्यते इति क्लिष्टम् । तत्र यदेव क्लिष्टं तदेव क्लेशा इति न युज्यते दग्धृदाह्ययोरप्येकत्वप्रसङ्गात् । अन्यत् क्लिष्टम्, अन्ये क्लेशा इति न युज्यते । परत्र निरपेक्षत्वात्, अक्लिष्टहेतुक क्लेशप्रसङ्गात् । अत एव च एकत्वान्यत्वाभावादाधाराधेयतद्वत्पक्षाणां च अभावान्न क्लेशेषु क्लिष्टम्, न क्लिष्टे क्लेशाः, नापि क्लेशवत् क्लिष्टम् । इत्येवं क्लिष्टे पञ्चधा विचार्यमाणाः क्लेशा न संभवन्ति । यथा च क्लिष्टहेतुकाः क्लेशा न संभवन्ति, एवं क्लेशहेतुकमपि क्लिष्टं क्लेशेषु विचार्यमाणं पञ्चधा न संभवति । न हि क्लेशा एव क्लिष्टम्, कर्तृकर्मणोरेकत्वप्रसङ्गात्, नान्ये क्लेशा अन्यत् क्लिष्टम्, निरपेक्षत्वप्रसङ्गात्, न च क्लिष्टे क्लेशाः न च क्लेशेषु क्लिष्टम्, न क्लिष्टवन्तः (pp_199) क्लेशाः । इत्येवं स्वकायदृष्टिवदेव क्लिष्टं क्लेशेष्वपि पञ्चधा नास्ति । यतश्चैवम्, अतः परस्परापेक्षयापि क्लेशाक्लिष्टयोर्नास्ति सिद्धिः ॥ 5 ॥
अत्राह- यद्यपि त्वया क्लेशाः प्रतिषिद्धाः, तथापि क्लेशहेतवः शुभाशुभविपर्यासास्तावत् सन्ति, तत्सद्भावाच्च क्लेशाः सन्तीति । उच्यते । स्युः क्लेशाः, यदि शुभाशुभविपर्यासा एव स्युः, यावता एते ऽपि प्रतीत्य ससुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा च ते न सन्ति स्वभावतः, तदा-
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः ।
प्रतीत्यसमुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च । यदा च ते न सन्ति स्वभावतः, तदा- प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान् ॥ 6 ॥नैव सन्ति क्लेशाः, तद्धेतुशुभाशुभविपर्ययाभावादित्यभिप्रायः ॥ 6 ॥ अत्राह- विद्यन्त एव क्लेशाः, तदालम्बनसद्भावात् । इह हि यन्नास्ति, न तस्यालम्बन मस्ति, तद्यथा वन्ध्यासूनोः । अस्ति च रूपशब्दगन्धरसस्प्रष्टव्यधर्माख्यं षड्विधमालम्बनम् । तस्मादालम्बनसद्भावाद्विद्यन्त एव क्लेशा इति । उच्यते । अस्त्येतत्, यद् भवद्भिः-
रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम् । वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते ॥ 7 ॥
तत्र वस्तु आलम्बनम्, वसतीति वा अस्मिन् रागादिकम्, तदुत्पत्तेः इति कृत्वा । तच्च तदालम्बनं षोढा भवति, इन्द्रियाणां षण्णां परिच्छेदकराणामन्योन्यभेदात् । रूपं शब्दा गन्धा रसाः स्प्रष्टव्यानि धर्माश्चेति । तत्र इदमिहामुत्रेति निरूपणात्, रूपणाच्च रूपम् । तेन शब्देन शब्द्यन्ते प्रकाश्यन्ते पदार्था इति शब्दः । गन्ध्यन्ते हिंस्यन्ते यत्र प्राप्ताः ततो ऽन्यत्रागमनाद् गन्धाः । रस्यते आस्वाद्यते इति रसः । स्पृश्यते इति स्पर्शः । स्वलक्षणासाधारणान्निर्वाणाग्रधर्माधारणाद्धर्माः । तदेतत् षड्विधं वस्तु भवति । कस्य? रागस्य द्वेषस्य मोहस्य । तत्र रञ्जनं रागो रक्तिरध्यवसानम् । रज्यते वा अनेन चित्तमिति रागः । दूषणं दोषः, आघातः सत्त्वविषयो ऽसत्त्वविषयो वा दूष्यते वा अनेन चितमिति दोषः । मोहनं मोहः संमोहः पदार्थस्वरूपापरिज्ञानम् । मुह्यते वा अनेन चित्तमिति मोहः । तदेषां क्लेशानां रूपादिकं षड्विधं वस्तु आलम्बनं भवति । तत्र शुभाकाराध्यारोपेण यथा रूपादिभ्यो राग उपजायते, अशुभाकाराध्यारोपेण द्वेषः, नित्यात्माद्यध्यारोपेण मोहः संभवतीति ॥ 7 ॥
सत्यं विकल्प्यते एतद्बालजनैः षड्विधं वस्तु । किं तु अविद्यमानस्वभावसत्ताकमेतद् रागादीनामालम्बनत्वेन परिकल्प्यते भवता तैमिरिकैरिव असत्केशमशकमक्षिकाद्विचन्द्रादिकमिति प्रतिपादयन्नाह-
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः ।
केवला इति परिकल्पितमात्रा निःस्वभावा इत्यर्थः । यदि निःस्वभावाः, कथं तर्हि उपलभ्यन्ते इति? उच्यते- गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः ॥ 8 ॥इति एते उपलभ्यन्ते ॥ 8 ॥ यथा गन्धर्वनगरादिप्रख्या एते केवलं विपर्यासादुपलभ्यन्ते, तदा-
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति । मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च ॥ 9 ॥
तदनेन मिथ्याश्रयसमुत्पन्नत्वाच्छुभाशुभयोरपि निमित्तयोर्मृषात्वमेव भवति । यथोक्तम्-
अहंकारोद्भवाः स्कन्धाः सो ऽहंकारो ऽनृतो ऽर्थतः । बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः ॥
स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते । अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः ॥ इति ॥ 9 ॥ न च केवलमाश्रयमिथ्यात्वे शुभाशुभयोर्निमित्तयोर्मिथ्यात्वम्, अपि च अनयाप्युपपत्त्या अनयोर्मिथ्यात्वमिति प्रतिपादयन्नाह-
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि । यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते ॥ 10 ॥
इह यदि शुभं नाम किंचित् स्यात्, नियतं तदशुभमपेक्ष्य भवेत्, पारावारवत्, बीजाङ्कुरवत्, ह्रस्वदीर्घवद्वा, शुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात् । तच्चाप्यपेक्षणीयमशुभं शुभेन विना नास्ति । [अनपेक्ष्य शुभं नास्त्यशुभं] शुभं निरपेक्ष्याशुभं नास्तीत्यभिप्रायः । यदशुभं प्रतीत्य यदशुभमपेक्ष्य शुभं प्रज्ञपयेमहि व्यवस्थापयेमहि । यच्छब्देन अनन्तरस्याशुभस्य परामर्शः । प्रज्ञपयेमहीत्यनेन उत्तरस्य शुभस्य संबन्धः । यतश्च एवं शुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीयमशुभाख्यं पदार्थान्तरं नास्ति, तस्माच्छुभं नैवोपपद्यते ह्रस्वासंभवादिव दीर्घम्, पारासंभवादिव अवारमित्यभिप्रायः ॥ 10 ॥
इदानीमशुभमपि यथा न संभवति, तथा प्रतिपादयन्नाह-
अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि । यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते ॥ 11 ॥
यदि हि अशुभं नाम किंचित् स्यात्, नियतमेव तच्छुभमपेक्ष्य भवेत्, पारावारवत्, ह्रस्वदीर्घवद्वा, अशुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात् । तच्चाप्यपेक्षणीयं शुभमशुभेन विना नास्ति, अनपेक्ष्याशुभं नास्ति शुभम् । अशुभं निरपेक्ष्य शुभं न संभवतीत्यभिप्रायः । यच्छुभं प्रतीत्य यच्छुभमपेक्ष्य अशुभं प्रज्ञपयेमहि, अशुभं व्यवस्थापयेमहि । अत्रापि यच्छब्देन अनन्तरस्य (pp_201) शुभस्य परामर्शः । प्रज्ञपयेमहीत्यनेन च उत्तरस्याशुभस्य संबन्धः । यतश्चैवमशुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीयं शुभाख्यं पदार्थान्तरं नास्ति, तस्मादशुभं नैव विद्यते ॥ 11 ॥
यतश्चैवं शुभाशुभयोरसंभवः, अतः-
अविद्यमाने च शुभे कुतो रागो भविष्यति । अशुभे ऽविद्यमाने च कुतो द्वेषो भविष्यति ॥ 12 ॥ शुभाशुभनिमित्तकयो रागद्वेषयोः शुभाशुभनिमित्ताभावे सति निर्हेतुकत्वान्नास्ति संभव इत्यभिप्रायः ॥ 12 ॥ तदेवं शुभाशुभनिमित्ताभावेन रागद्वेषयोरभावमुपपाद्य विपर्यासस्वभावाभावप्रतिपादनेन मोहस्याप्यधुना स्वभावाभावं प्रतिपादयन्नाह-
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः । नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ॥ 13 ॥
इह चत्वारो विपर्यासा उच्यन्ते । तद्यथा- अनित्ये प्रतिक्षणविनाशिनि स्कन्धपञ्चके यो नित्यमिति ग्राहः, स विपर्यासः । तथा- अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम् । तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते ॥
इत्यमुना न्यायेन यदनित्यं तद्दुःखम्, सर्वसंस्काराश्च अनित्याः, तस्माद्दुःखात्मके स्कन्धपञ्चके यः सुखमिति विपरीतो ग्राहः, सो ऽपरो विपर्यासः । तथा-
शुक्रशोणितसंपर्कबीजं विण्मूत्रवर्धितम् । अमेध्यरूपमाजानन् रज्यसे ऽत्र कयेच्छया ॥
अमेध्यपुञ्जप्रच्छन्ने तत्क्लेदार्द्रेण चर्मणा । यः शयीत स नारीणां शयीत जघनोदरे ॥ इत्यादि ।
एवमिदं शरीरं सर्वात्मना सततमशुचिस्वभावम् । तत्र यो मोहाच्छुचित्वेन ग्राहो ऽभिनिवेशः, स विपर्यासः । तथा पञ्चस्कन्धकमात्मलक्षणविलक्षणमस्थिरत्वादुदयव्ययधर्मित्वाच्च निरात्मकमात्मस्वभावशून्यम्, तस्मिन् य आत्मग्राहो ऽभिनिवेशः अनात्मनि आत्माभिनिवेशः, स विपर्यासः । इत्येते चत्वारो विपर्यासाः संमोहस्य हेतुभूताः ॥
अत्रेदानीं विचार्यते- यदि नित्यत्वं नित्यदर्शनं स्वभावशून्येषु नित्यग्राहो विपर्यास इत्येवं व्यवस्थाप्यते, ननु च स्वभावशून्येषु स्कन्धेषु अनित्यत्वमपि नास्ति, इति
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः ।
अनित्यत्वं हि विपरीतमपेक्ष्य नित्यत्वं विपर्यास इति व्यवस्थाप्यते । न च अनित्यत्वं विद्यते शून्ये । यदा अनित्यत्वस्याभावः, तदा कुतस्तद्विरोधि नित्यत्वं नित्यदर्शनविपर्यासो भविष्यतीति भावः । (pp_202) तस्मान्नास्ति विपर्यासः । यथा च अनित्यत्वं शून्ये न संभवति भावस्वभावरहिते सस्वभावेन अनुत्पन्ने, एवं दुःखत्वमपि न संभवति, अशुचित्वमपि नास्ति । अनात्मकत्वमपि नास्ति । यदा च स्वभावशून्यत्वाद्दुःखत्वादिकं नास्ति, तदा कुतस्तद्विपक्षभूता नित्यसुखशुच्यात्मविपर्यासा भविष्यन्ति? तस्मात् सन्ति विपर्यासाः स्वरूपतः । तदभावे कुतो भविष्यत्यविद्या? हेत्वभावात् । यथोक्तं भगवता-
अविद्यया नैव कदाचि विद्यते अविद्यत प्रत्ययसंभवश्च । अविद्यमानेयमविद्य लोके तस्मान्मया उक्त अविद्य एषा ॥
तथा-
कथं भगवन् मोहो धारणीपदम्? भगवानाह- अत्यन्तमुक्तो हि मञ्जुश्रीः मोहः, तेनोच्यते मोहः । इत्यादिना विपर्यय इति व्यवस्थाप्यते ॥ 13 ॥ ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न संभवति इति असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह-
अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः । अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः ॥ 14 ॥
यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्वयतिरिक्तं तृतीयमपरं नास्ति यन्न विपर्ययः स्यात् । यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यासः स्यादिति । तस्मादमुनापि न्यायेन नास्ति विपर्ययः । तस्याभावाच्च नास्त्यविद्या स्वरूपतः । यथा च अनित्ये नित्यमित्येवं ग्राहो विपर्यासो न संभवति, एवं शेषविपर्यासासंभवे ऽपि योज्यम् । अत एवोक्तं भगवता आर्यदृढाशयपरिपृच्छायाम्-
भगवानाह- किमेतत् कुलपुत्र तस्य भवति यो मार्गेण निःसरणं पर्येषते? न कुलपुत्र तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञप्तम् । तत् कस्माद्धेतोः? न कुलपुत्र तथागताः कस्यचिद्धर्मस्य उत्सर्गाय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न निर्वाणगमनतायै नोत्क्षेपाय न प्रभेदाय । न हि कुलपुत्र द्वयप्रभाविता तथागतधर्मता । तत्र ये द्वये चरन्ति, न ते सम्यक्प्रयुक्ताः । मिथ्याप्रयुक्तास्ते वक्तव्याः । कतमच्च कुलपुत्र द्वयम्? अहं रागं प्रहास्यामीति द्वयमेतत् । अहं द्वेषं प्रहास्यामीति द्वयमेतत् । अहं मोहं प्रहास्यामीति द्वयमेतत् । ये एवंप्रयुक्ताः, न ते सम्यक्प्रयुक्ता । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥
तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो मायाकारनाटके प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा रागचित्तमुत्पादयेत् । स रागपरीतचित्तः पर्षच्छारद्यभयेन उत्थायासनादपक्रमेत् । सो ऽपक्रम्य तामेव स्त्रियमशुभतो मनसि कुर्यादनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसि कुर्यात् । भगवानाह- एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये ऽनुत्पन्नान् धर्मानजातानशुभतो मनसि कुर्वन्ति, अनित्यतो दुःखतो ऽनात्मतो मनसि कुर्वन्ति । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥
तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरे स्वगृहे राजभार्यां पश्येत् । स तया सार्धं शय्यां कल्पयेत् । स्मृतिसंमोषाच्चैवं कल्पयेत्- विरुद्धो ऽस्मीति । स भीतस्रस्तः पलायेत्, मा मां राजा विध्येत्, स मा मां जीविताद् व्यवरोपयेत् । तत् किं मन्यसे कुलपुत्र अपि नु स पुरुषो भीतस्रस्तः पलायमानस्ततो राजभार्यानिदानभयात्परिमुच्येत? आह- नो भगवन् । तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण अस्त्रियां स्त्रीसंज्ञा उत्पादिता, अभूतं च परिकल्पितम् । भगवानाह- एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये अरागे रागसंज्ञामुत्पाद्य रागभयभीता रागनिःसरणं पर्येषन्ते । एवमदोषे दोषसंज्ञामुत्पाद्य दोषभयभीता दोषनिःसरणं पर्येषन्ते । अमोहे मोहसंज्ञामुत्पाद्य मोहभयभीता मोहनिःसरणं पर्येषन्ते । नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥
तद्यथापि नाम कुलपुत्र स पुरुषः अभये भयसंज्ञामुत्पादयेदसत्समारोपेण । एवमेव कुलपुत्र सर्वबालपृथग्जना रागकोटिं विरागकोटिमप्रजानन्तो रागकोटिभयभीता विरागकोटिं निःसरणं पर्येषन्ते । दोषकोटिमकिंचनकोटिमप्रजानन्तो दोषकोटिभयभीता अकिंचनकोटिं निःसरणं पर्येषन्ते । मोहकोटिं शून्यताकोटिमप्रजानन्तो मोहकोटिभयभीताः शून्यताकोटिं निःसरणं पर्येषन्ते । नाहं तेषां कुलपुत्र मोहपुरुषाणां मार्गभावनां वदामि । मिथ्याप्रयुक्तास्ते वेदितव्याः ॥ इति विस्तरः ॥ 14 ॥
अत्राह- यद्यपि अनित्ये नित्यमित्येवं ग्राहो विपर्ययो न संभवति, तथापि एष तावत् ग्राहो ऽस्ति । ग्राहश्च नाम संग्रहणं भावरूपः । तस्य च अवश्यं साधनेन करणेन भवितव्यं साधकतमेन नित्यत्वादिना । कर्त्रा च भवितव्यं स्वतन्त्रेण नित्यात्मना चित्तेन वा । कर्मणा च कर्तुरीप्सिततमेन विषयेण रूपादिना । सत्यां च भावकरणकर्तृकर्मणां सिद्धौ सर्वसिद्धेरिष्टसिद्धिः स्यादस्माकमिति । उच्यते । अलीकेयं प्रत्याशा । ननु च यथोपवर्णितेन न्यायेन-
येन गृह्णाति योग्राहो ग्रहीता यच्च गृह्यते । उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते ॥ 15 ॥
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
