Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

अमोघपाशनामहृदयं महायानसूत्रम्

Thông tin
GRETILchữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

अमोघपाशनामहृदयं महायानसूत्रम्

ओं नमो लोकनाथाय ॥ एवं मया श्रुतम् एकस्मिन् समये भगवान् पोतलके पर्वते विहरति स्म ॥ आर्यावलोकितेश्वरस्य भवने अनेकशालतालतमालचम्पकाशोकातिमुक्तकनानारत्नवृक्षसमलङ्कृते । महता भिक्षुसंघेन सार्धम् अष्टाशीतिभिर् भिक्षुशतसहस्रैर् नवनवतिभिश् च बोधिसत्वकोटीनियुतशतसहस्रैर् अनेकैश् च शुद्धावासकायिकैर् देवपुत्रकोटीनियुतशतसहस्रैः । परिवृतः पुरस्कृत ईश्वरमहेश्वरब्रह्मकायिकान् देवपुत्रान् अधिकृत्य धर्मन् देशयति स्म ॥ अथ खल्व् आर्यावलोकितेश्वरो बोधिसत्वो महासत्व उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा प्रणम्य प्रहसितवदनो भूत्वा भगवन्तम् एतद् अवोचत् ॥

अस्ति मम भगवन्न् अमोघपाशराजं नाम हृदयं यन् मया पूर्वम् एकनवतिमे कल्पे विलोकितायां लोकधातौ लोकेन्द्रराजस्य तथागतस्य सकाशाद् उद्गृहीतं येन मे भगवन्न् ईश्वरमहेश्वरदेवपुत्रप्रमुखानि बहूनि शुद्धावासकायिकदेवपुत्रप्रमुखान्य् अनेकानि देवपुत्रशतसहस्राणि समादापितान्य् अनुत्तरायां सम्यक्संबोधौ ॥ असंमोहज्ञानव्यूहप्रमुखानि च मया दशसमाधिशतसहस्राणि प्रतिलब्धानि । यस्मिंश् च पुनर् भगवन् पृथिवीप्रदेशे । इदम् अमोघपाशहृदयं प्रचरेत् ॥ वेदितव्यं भगवन्स् तस्मिन् पृथिवीप्रदेशे । ईश्वरमहेश्वरब्रह्मकायिकप्रमुखानि द्वादशदेवपुत्रशतसहस्राणि रक्षावरणगुप्तये स्थास्यन्ति ॥ चैत्यसंमतो भगवन् स पृथिवीप्रदेशो भविष्यति । यत्रेदम् अमोघपाशहृदयं प्रचरिष्यति । अनेकबुद्धकोटीनियुतशतसहस्रावरोपितकुशलमूलास् ते भगवन् सत्वा भविष्यन्ति । य इदं मदीयम् अमोघपाशहृदयं श्रोष्यन्ति ॥

यः कश्चिद् भगवन् किल्विषकारी स्यात् सर्वपापास्पदः पापधर्मसमाचार आर्यापवादकः सद्धर्मप्रतिक्षेपकः । अवीचिपरायणः सर्वबुद्धबोधिसत्वार्यश्रावकप्रत्येकबुद्धप्रतिक्षेपकः सचेद् विप्रतिसारङ् गच्छेत् । आयत्यां संवरम् आपद्यते ॥ तस्यैव तावद् भगवन्न् एकोपवासजापेन । इहैव जन्मनि तत् कर्म विशुध्यति परिक्षयङ् गच्छति । वांत्तीभवति । एकाहिकेन ज्वरेण द्व्याहिकेन वा ॥ त्र्याहिकेन वा । चातुर्थिकेन वा । एवं सप्ताहिकेन वा ज्वरेण । अक्षिशूलेन वा नासाशूलेन वा । कर्णशूलेन वा । दन्तशूलेन वा । ओष्ठशूलेन वा । जिह्वाशूलेन वा । तालुशूलेन वा हृदयशूलेन वा । उदरशूलेन वा । पार्श्वशूलेन वा । कटिशूलेन वा । अङ्गप्रत्यङ्गशूलेन वा । अर्शोग्रहणीशूलेन वा । अतीसारेण वा । हस्तपादवेदनया वा । शिरोरुजया वा । वलाहकश्वित्रकुष्ठविचर्चिकाकिटिमलोहलिङ्गगलग्रहभगन्दरविस्फोटकापस्मारकाखोर्दैर् अन्यैर् वा कृत्यापकृत्यैर् वा । वधबन्धनताडनतर्जनाभूताभ्याख्यानैर् वा । संक्षेपतो भगवन् कायपीडया वा चित्तपीडया वा । दुःस्वप्नदर्शनेन वा तत् कर्म परिक्षयङ् गच्छति । पर्यवदानङ् गच्छति । प्राग् एव शुद्धसत्वानां श्रद्धाधिमुक्तिकानां । यदि भगवंश् चतस्रः पर्षदश् चत्वारो वर्णा मायाशाठ्येनापि य इदम् अमोघपाशहृदयं श्रोष्यन्ति उद्गृहीष्यन्ति । धारयिष्यन्ति । वाचयिष्यन्ति । लिखिष्यन्ति । लिखापयिष्यन्ति । पर्यवाप्स्यन्ति । अन्येषां वा सत्वानां श्रावयिष्यन्ति । अन्तशस् तिर्यग्योनिगतानां कर्णपुटे स्थित्वा कर्णजापेन दास्यन्ति । इमानि मन्त्रपदानि चिन्तयिष्यन्ति । अप्रतिक्षेपतो ऽरूपतो ऽविकल्पतो ऽसंभवतो ऽचिरङ्गमतो ऽकरणतो निर्लेपतो ।

समचिंतानिक्षेपतः । विरहितपंचस्कंधतः । अनेन योगेन बुद्धानुस्मृतिर् भावितव्या । तद् एषां दशभ्यो दिग्भ्यो बुद्धसहस्रं संमुखं दर्शनं कारयिष्यंति । अत्ययदर्शनं च करिष्यंति । पेयालं । यावत् पुस्तकलिखितं कृत्वा गृहे स्थापयिष्यंति । किं बहुना भगवन्न् अन्योन्यस्पर्धया वा श्रोष्यंति । स्वामिभयेन वा परानुवृत्या वा उच्चग्घनहेतुना वा श्रोष्यंति । ज्ञातव्यं भगवन् पण्डितेनार्यावलोकितेश्वरस्यानुभावेन तेषां कर्णपुटे स्थिता स शब्दो निपतिष्यंति ॥ तद्यथापि ॥ स भगवन् कश्चिद् एव पुरुषश् चंदनं वा कर्पूरं वा कस्तूरिकां वा आक्रुश्य परिभाष्य शिलायां वा पिष्ट्वा आत्मानं लेपयेत् । न च तस्य चंदनस्य कर्पूरस्य कस्तूरिकायाश् चैवं भवति । अनेनाहम् आक्रुष्टः परिभाषितो वा गन्धेनातिक्रमिष्यामि ति । अपि च सुगंध एव सः । एवम् एव भगवन्न् इदं मदीयम् अमोघपाशहृदयं । यः कश्चिद् उच्चग्घ्य उल्लाप्य पेयालं । यावन् मायाशठ्येनापि पूजयेत् तेषां भगवन् खटुकंसत्वानां स एव कुशलमूलहेतुर् भविष्यति । यत्र यत्रोपपत्स्यंते तत्र तत्राविरहिताश् च भविष्यंति शीलसमाधिप्रज्ञापुण्यसंभारगंधेन । शीलसौगन्धिकम् एव करोति ॥

यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा तदन्यो वा कश्चित् सत्वः अमोघपाशहृदयम् उद्दिश्य शुक्लाष्टम्याम् उपवासं कुर्यात् । सप्तवारान् अमोघपाशहृदयम् अनालापतः परिवर्तयेत् । तस्य भगवन् दृष्ट एव धर्मा विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः । कतमे विंशतिर् यद् उत

(1) रोगाश् चास्य काये नोत्पत्स्यंते । (2) उत्पन्नाश् चास्य रोगाः कर्मवशेन शीघ्रं प्रशमं यास्यंति । (3) स्निग्धमनोज्ञश्लक्ष्णगात्रश् च भविष्यति । (4) बहुजनप्रियश् च भविष्यति । (5) गुप्तेंद्रियो ऽर्थप्रतिलंभश् चास्य भविष्यति । (6) उत्पन्नं चास्यार्थं न चौराः प्रतिमोष्यन्ति । (7) अग्निना न दह्यन्ते नोदकेन ह्रियन्ते न राजा शक्नोति मनसाप्य् अपहर्तुम् । (8) कर्मान्ताश् चास्य स्फीता भविष्यंति । (9) नाशनिर् नोदकभयं भविष्यति । (10) न वातवृष्टिभयं भविष्यति । (11) सप्तवारान् अमोघपाशहृदयेन भस्मोदकं वा परिजप्य दिग् विदिग् अध ऊर्ध्वं च क्षेत्रस्य बंधो दातव्यः । सर्वोपद्रवा उपशमिष्यन्ति । (12) न च्ऽ ओजोहारा ओजो ऽपहर्तुं शक्नुवंति । (13) सर्वसत्वानां च प्रियो भविष्यति । (14) न चास्य शत्रुभयं भविष्यति । (15) उत्पन्नं चास्य शत्रुभयं शीघ्रं प्रशमं यास्यति । (16) न चास्यामनुष्यभयं भविष्यति । (17) न काखोर्दभयं न चास्य डाकिनीभयं न चास्य तीव्राः क्लेशोपक्लेशा भविष्यन्ति । (18) नाग्निना न शस्त्रेण । न विषेण कालं करिष्यति । (19) देवताश् चास्य सततसमितं रक्षावरणगुप्तये स्थास्यन्ति । (20) यत्र यत्रोपपत्स्यते । तत्र तत्राविरहितश् च भविष्यति । मैत्रीकरुणामुदितोपेक्षया ।

इमे विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः ॥ अपरान् अष्टौ धर्मान् प्रतिलप्स्यते । कतमान् अष्टौ

(1) मरणकाले आर्यावलोकितेश्वरो भिक्षुरूपेन संमुखन् दर्शनं दास्यति । (2) सुखेन कालं करिष्यति । (3) न भ्रान्तदृष्टिर् भविष्यति । (4) न हस्तविक्षेपं करिष्यति । न पादविक्षेपं करिष्यति । नोच्चारप्रस्रावन् न मञ्चावरूढः कालं करिष्यति । (5) सूपस्थितस्मृतिर् भविष्यति । (6) नाधोमुखः कालं करिष्यति । (7) मरणकाले अक्षयप्रतिभानञ् चास्य भविष्यति । (8) यत्र चास्य बुद्धक्षेत्रे प्रणिधिस् तत्रोपपत्तिर् भविष्यति । अविरहितश् च कल्याणमित्रैर् भविष्यति ।

दिने दिने त्रिष्कालं त्रीणि वारान् परिवर्तयितव्यः । मद्यमान्सपलाण्डुगृञ्जनकलशुनशङ्कारकृतोच्छिष्टविशेषार्थिना ह्य् एते वर्ज्यः ॥ अयञ् चामोघपाशहृदयो धर्मपर्यायः सर्वसत्वानां बलाबलं ज्ञात्वा श्रावयितव्यः । आचार्यमुष्टिर् न कर्तव्या । यस्माद् विगतमलमात्सर्या । ईर्ष्यापगता बोधिसत्वा भवन्ति । सत्वानाम् अर्थकरणेनैव बुद्धबोधिः प्राप्यते । बोधिसत्वानां गणताञ् च गच्छति । बोधिर् उच्यते प्रज्ञा । सत्व उच्यते उपायः ॥ एतौ द्वौ धर्मौ सत्वानाम् अर्थेनैव प्राप्येते । सचेन् पुनर् भगवान् जानीयात् ॥ न्व् अहम् इमम् अमोघपाशहृदयन् तथागतस्य पुरतः कीर्तयेयं चतसृणां पर्षदाम् अर्थाय हिताय सुखायान्येषाञ् च पापकारिणां ।

अथ खलु भगवान् आर्यावलोकितेश्वरं बोधिसत्वं महासत्वम् एतद् अवोचत् ।

भाष त्वं शुद्धसत्व । यस्येदानीं कालं मन्यसे ॥ अनुमोदितं तथागतेन पश्चिमे काले पश्चिमे समये बोधिसत्वयानिकानां पितृकार्यं करिष्यति ॥

अथ खल्व् आर्यावलोकितेश्वरो बोधिसत्वो महासत्वो ऽनिमिषनयनो भूत्वा भगवन्तम् एतद् अवोचत् ॥

शृणु मे भगवन् सर्वबोधिसत्वनमस्कृतम् इदं विमोक्षमुखमण्डलं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय ॥

ओं ॥ नमस् त्र्यध्वानुगतप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्वेभ्यः । नमः प्रत्येकबुद्धार्यश्रावकसंघेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः । नमः सम्यग्गतानाम् । नमः सम्यक्प्रतिपन्नानां । नमः शारद्वतीपुत्राय महामतये । नम आर्यमैत्रेयप्रमुखेभ्यो बोधिसत्वसंघेभ्यः ।

नमः सुप्रतिष्ठितशैलेन्द्रराजप्रमुखेभ्यः सर्वतथागतेभ्यो ऽर्हद्भ्यः सम्यकसंबुद्धेभ्यो भगवद्भ्यः ।

नमः सुवर्णवर्णविनिर्दितेश्वरराजाय तथागताय । नमः सिंहविक्रीडितराजाय तथागताय । नम आर्यामिताभाय तथागताय । नमः सुप्रतिष्ठितमणिकूटराजाय तथागताय । नमः समन्तरश्म्युद्गतश्रीकूटराजाय तथागताय । नमो विपश्यिने तथागताय । नमः शिखिने तथागताय । नमो विश्वभुवे तथागताय । नमः क्रकुच्छन्दाय तथागताय । नमः कनकमुनये तथागताय । नमः काश्यपाय तथागताया । नमः शाक्यमुनये तथागतायार्हते सम्यक्सम्बुद्धाय । तद्यथा

ओं मुने 2 महामुनये स्वाहा ।

ओं शमे 2 महाशमे रक्ष 2 मां सर्वसत्वांश् च सर्वपापप्रशमने स्वाहा ॥

नमः सुपरिकीर्तितनामधेयाय तथागताय ॥ नमः समन्तावभासविजितसंग्रामश्रिये तथागताय ॥ नम इन्द्रकेतुध्वजश्रिये तथागताय ॥ नमो रत्नप्रभासेश्वरराजाय तथागताय ॥ नमो ऽप्रतिहतभैषज्यराजाय तथागताय ॥ नमो विक्रान्तगामिने तथागताय ॥

नमो बुद्धाय नमो धर्माय नमः संघाय ॥ नमो ऽतीतानागतप्रत्युत्पन्नेभ्यो बुद्धेभ्यो भगवद्भ्यः ॥ तद्यथा

स्मृतिवर्धनि । मतिवर्धनि । धृतिवर्धनि । प्रज्ञावर्धनि । प्रतिभानवर्धनि । ध्यानवर्धनि । समाधिवर्धनि । समर्थवर्धनि । सर्वबोधिपक्षधर्मवर्धनि । सकलबुद्धधर्मपरिपूरणीये स्वाहा ।

नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय ॥

नमो महास्थामप्राप्ताय बोधिसत्वाय महासत्वाय महाकारुणिकाय ॥

एभ्यो नमस्कृत्वा इदम् आर्यावलोकितेश्वरमुखोद्गीर्णम् अमोघपाशराजं नाम हृदयन् तथागतसंमुखं भाषितं महतां पर्षन्मध्ये । अहम् इदानीम् आवर्तयिष्ये ॥ सिध्यन्तु मन्त्रपदाः सर्वकार्याणि सर्वभयेभ्यो मम सर्वसत्वानाञ् च रक्षा भवतु ॥ तद्यथा

ओं चर 2 चिरि 2 चुरु 2 मर 2 मिरि 2 मुरु 2 महाकारुणिक स्वाहा ॥ संशोधनमन्त्रः ॥

सर 2 सिरि 2 सुरु 2 चुरु 2 विरि 2 धिरि 2 पिरि 2 मिरि 2 महापद्महस्ताय स्वाहा ॥ विघ्नोत्सारणमन्त्रः ॥

कल 2 किलि 2 कुलु 2 महाशुद्धसत्वाय स्वाहा ॥ देवतासंशोधनमन्त्रः ॥

बुध्य 2 बोध 2 बोधि 2 बोधय 2 कण 2 किणि 2 कुणु 2 परमशुद्धसत्वाय स्वाहा ॥ तथागतमन्त्रः ॥

कर 2 किरि 2 कुरु 2 महास्थामप्राप्ताय स्वाहा ॥ निवेशनमन्त्रः ॥

चल 2 सञ्चल 2 विचल 2 एटट 2 भर 2 भिरि 2 भुरु 2 तर 2 तिरि 2 तुरु 2 एह्य् एहि महाकारुणिक स्वाहा ॥ आकर्षणमन्त्रः ॥

महापशुपतिवेशधर । धर 2 धिरि 2 धुरु 2 तर 2 सर 2 चर 2 पर 2 वर 2 मर 2 लर 2 हर 2 हाहा । हीही । हूहू । ओंकार ब्रह्मवेशधर । धर 2 धिरि 2 धुरु 2 तर 2 सर 2 चर 2 पर 2 वर 2 हर 2 रश्मिशतसहस्रप्रतिमण्डितशरीर । ज्वल 2 तप 2 भास 2 भ्रम 2 भगवन् सोमादित्य । यमवरुण । कुबेरब्रह्मेन्द्र । वाय्वग्नि । धनद । ऋषिदेवगणाभ्यर्चितचरण स्वाहा ॥ अर्घासनस्नानमन्त्राद्यलंकारगन्धपुष्पधूपच्छत्रध्वजपताकाबलिदीपमन्त्रः ॥

सुरु 2 चुरु 2 मुरु 2 घुरु 2 सनत्कुमार । रुद्रवासव ।विष्णु । धनद । वाय्वग्नि । ऋषिनायक । विनायक । बहुविविधवेशधर स्वाहा ॥ देवतालक्षणमन्त्रः ॥

धर 2 धिरि 2 धुरु 2 तर 2 थर 2 घर 2 पर 2 लर 2 हर 2 यर 2 मर 2 वर 2 वरदायक स्वाहा ॥ साधकस्य निवेशनमन्त्रः ॥

समन्तावलोकितविलोकितलोकेश्वरत्रिभुवनेश्वरसर्वगुणसमलंकृत । अवलोकितेश्वर । मुहु 2 मुरु 2 मुय 2 मुञ्च 2 रक्ष 2 मां सर्वसत्वांश् च सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वज्वरेभ्यः । एवं वधबन्धनताडनतर्जनराजतस्कराग्न्युदकविषशस्त्रपरिमोचक स्वाहा ॥

कण 2 किणि 2 कुणु 2 चर 2 चिरि 2 चुरु 2 इन्द्रियबलबोध्यङ्गचतुरार्यसत्यसंप्रकाशक । तम 2 दम 2 सम 2 मस 2 रम 2 धम 2 महाकारुणिक । महातमोन्धकारविधमन । षट्पारमितापरिपूरक । मल 2 मिलि 2 मुलु 2 टट टट 4 ठठ ठठ 4 टिटि टिटि 4 टुटु टुटु 4 ठिठि ठिठि 4 ठुठु ठुठु 4 एणेयचर्मकृतपरिकर । एह्य् एहि महाकारुणिक ईश्वरमहेश्वरमहाभूतगणसंभञ्जक । कर 2 किरि 2 कुरु 2 पर 2 हर 2 वर 2 सर 2 कट 2 किटि 2 कुटु 2 मट 2 महाविशुद्धविषयनिवासिन् । महाकारुणिक स्वाहा ॥ सप्तपरिवारमन्त्रः ॥

श्वेतयज्ञोपवीतरत्नमकुटमालाधर । सर्वज्ञशिरसि कृतजटामकुटमहाद्भुतकमलालङ्कृतकरतल । ध्यानसमाधिविमोक्षाप्रकम्प्य बहुसत्वसन्ततिपरिपाचकमहाकारुणिक । सर्वकर्मावरणविशोधक । सर्वज्ञज्ञानपरिपूरक । सर्वव्याधिपरिमोचक । सर्वसत्वाशापरिपूरक । सर्वसत्वसमाश्वासनकर नमो ऽस्तु ते स्वाहा ॥

अमोघाय स्वाहा ॥ अमोघपाशाय स्वाहा ॥ अजिताय स्वाहा ॥ अपराजिताय स्वाहा ॥ अमिताभाय स्वाहा ॥ अमिताभसुताय स्वाहा ॥ मारसैन्यप्रमर्दनाय स्वाहा ॥ अभयाय स्वाहा ॥ अभयप्रदानाय स्वाहा ॥ जयाय स्वाहा ॥ विजयाय स्वाहा ॥ जयविजयाय स्वाहा ॥ वरदाय स्वाहा ॥ वरप्रदाय स्वाहा ॥ अकालमृत्युप्रशमनाय स्वाहा ॥ इदञ् च मे कर्म कुरु नमो ऽस्तु ते स्वाहा ॥

ओं रण 2 हूं फट् स्वाहा ॥

ओं जय हूं फट् स्वाहा ॥

ओं युजि हूं फट् स्वाहा ॥

ओं हूं जय स्वाहा ॥

ओं ह्रीः त्रैलोक्यविजयामोघपाशाप्रतिहत ह्रीः हः हूं फट् स्वाहा ॥

ओं वसुमति हूं स्वाहा ॥

ओं आरोलिक स्वाहा ॥

ओं बहुले 2 स्वाहा ॥

ओं आरोलिक ह्रीः ज्रीः हूं फट् स्वाहा ॥ नियतानियतवेदनीयाशुभस्य मे भगवन् कर्मणो ऽशेषतः क्षयं कुरु स्वाहा ॥

ओं पद्महस्ताय स्वाहा ॥

ओं बुद्धधर्मसंघाय स्वाहा ॥ ॥

पठितसिद्धस्यास्य मन्त्रस्य कर्माणि भवन्ति । त्रिष्कालजापेन पञ्चानन्तर्यानि विशोधयति । सर्वकर्मावरणविशुद्धिञ् च करोति । अगुरुधूपेन सीमाबन्धः भस्मोदकेन सर्षपेण खदिरकिलकाद्यैः सर्वज्वरेषु सूत्रकं बन्धयितव्यं । सर्वव्याधिषु घृतं तैलम् उदकं वा परिजप्य दातव्यं । काखोर्दच्छेदनं शस्त्रेण । रक्षा सूत्रेण । उदरशूलेन लवनोदकं । विषनाशनं मृत्तिकया उदकेन वा । चक्षुरोगे श्वेतसूत्रकं कर्णे बन्धयितव्यं । दन्तशूले करवीरदन्तकाष्ठं । सीमाबन्धे पञ्चरङ्गिकसूत्रम् एकविंशतिवारान् परिजप्य । चतुःषु खदिरकीलकेषु बद्ध्वा चतुर्द्दिशं निखातव्यं । सीमाबन्धो भवति । सर्वरक्षा सूत्रकेन उदकेन । भस्मकेन वा । सर्वग्रहेषु पञ्चरङ्गिकसूत्रकं । सर्वज्वरेषु श्वेतसूत्रकं । सर्पकीटलूतलोहलिङ्गगलग्रहेषु मधुपिप्पलीयुतं । चक्षुरोगेषु गन्धोदकं पलाशोदकं वा मधुयष्ट्युदकं वा । सर्वकलिकलहविवादाभ्याख्यानेषु । उदकं परिजप्य मुखं प्रक्षालयितव्यं । परविषयराज्यराष्ट्रोपद्रवरक्षासु पूर्णकलशं स्थापयित्वा शुचिना शुचिवस्त्रप्रावृतेन महतीं पूजां कृत्वा वाचयितव्यं महाशान्तिर् भवति ॥ तेन चोदकेन सेक्तव्यं । सर्वसत्वानां रक्षा कृता भवति । सर्वेत्युपद्रवोपसर्गाः प्रशाम्यन्ति । मुद्रिकया चन्दनतिलकं हृदये । एकविंशतिवारान् परिजप्य कर्तव्यं । सर्वानन्तर्याणि कर्माणि क्षयति । सततजापेन गृहे रक्षा । पद्महोमेन सर्वसत्वरक्षा । चन्दनहोमेन सर्वग्रहभूतरक्षा । जया विजया । नाकुली गन्धनाकूली । वारुणी । अभयपाणि । इन्द्रपाणि । गन्धप्रियङ्गु । तगर चक्रा । महाचक्रा । विष्णुक्रान्ता ।

सोमराजी । सुचन्दना चेति ॥ एषां यथासंभवतः । अष्टोत्तरशतवारान् परिजप्य मणिं कृत्वा शिरसि बाहौ वा धारयितव्यं । बालानां गले । नारीणां विलग्ने । स्वयं परमसौभाग्यकरणं । अलक्ष्मीप्रशमनं पुत्रदञ् च ॥ एतेन मणिना बन्धेन सर्वरक्षा कृता भवति । विषाग्निर् नाक्रमति । विषकृतं नोत्पद्यते । उत्पन्ना अपि न पीडाञ् जनयिष्यन्ति । शीघ्रं प्रशमयिष्यन्ति । ग्रहाः प्रशमयिष्यन्ति । वातमेघाशनिस्तम्भनं वारिणा । करवीरलतया सर्वकर्मकरं । आर्यावलोकितेश्वरहृदयं परमसिद्धसमाधितम् एवैतानि कर्माणि कुरुते ॥

अथ साधयितुम् इच्छेद् विधिः पटे ऽश्लेषकैर् वर्णकैर् बुद्धप्रतिमाम् आलेख्य । आर्यावलोकितेश्वरो जटामकुटधारी । एणेयचर्मकृतवासाः । पशुपतिवेशधरः । सर्वालंकारविभूषितं कृत्वा । पोषधिकेन चित्रकरेण चित्रापयितव्यः ॥ ततः साधकेन तस्याग्रतो ऽपतितगोमयेन मण्डलकं कृत्वा श्वेतपुष्पावकीर्णं । अष्टौ गन्धोदकपूर्णकुम्भाः स्थापयितव्याः । अष्टाव् उपहाराश् चतुःषष्टिरूपकरणानि । बलिर्मान्सरुधिरवर्जितः । अगुरुधूपं दहता विद्या अष्टसहस्रं जप्तव्या । अहोरात्रोषितेन त्रिरात्रोषितेन वा त्रिःशुक्लभोजिना शुचिना त्रिष्कालस्नायिना शुचिवस्त्रप्रावृतेन जापो दातव्यः । ततः प्रतिमाया अग्रतः । आत्मानं ज्वलितं पश्यति । तद् दृष्ट्वा च हृष्यति स्वयम् आर्यावलोकितेश्वर आगच्छति । सर्वाशा परिपूरयति । मनःशिलाञ्जनं वा परिजप्याक्षीण्य् अञ्जयित्वा अन्तर्हितो भवति । आकाशेन क्रामति । असंमोहज्ञानव्यूहं नाम समाधिं प्रतिलभते । यद् इच्छति तत् करोत्य् एव साधक इति ॥ ॥

इदम् अवोचद् भगवान् आत्तमना आर्यावलोकितेश्वरो बोधिसत्वो महासत्वस् ते च भिक्षवस् ते च बोधिसत्वस् ते च शुद्धावासकायिकदेवपुत्राः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ॥ ॥

आर्यामोघपाशनामहृदयं महायानसूत्रं समाप्तं ॥ ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.